१२.२०८.१गुरुरुवाच
१२.२०८.२दुरन्तेष्विन्द्रियार्थेषु सक्ताः सीदन्ति जन्तवः
ये त्वसक्ता महात्मानस्ते यान्ति परमां गतिम्
१२.२०८.३जन्ममृत्युजरादुःखैर्व्याधिभिर्मनसः क्लमैः
दृष्ट्वेमं संततं लोकं घटेन्मोक्षाय बुद्धिमान्
१२.२०८.४वाङ्मनोभ्यां शरीरेण शुचिः स्यादनहंकृतः
प्रशान्तो ज्ञानवान्भिक्षुर्निरपेक्षश्चरेत्सुखम्
१२.२०८.५अथ वा मनसः सङ्गं पश्येद्भूतानुकम्पया
अत्राप्युपेक्षां कुर्वीत ज्ञात्वा कर्मफलं जगत्
१२.२०८.६यत्कृतं प्राक्शुभं कर्म पापं वा तदुपाश्नुते
तस्माच्छुभानि कर्माणि कुर्याद्वाग्बुद्धिकर्मभिः
१२.२०८.७अहिंसा सत्यवचनं सर्वभूतेषु चार्जवम्
क्षमा चैवाप्रमादश्च यस्यैते स सुखी भवेत्
१२.२०८.८यश्चैनं परमं धर्मं सर्वभूतसुखावहम्
दुःखान्निःसरणं वेद स तत्त्वज्ञः सुखी भवेत्
१२.२०८.९तस्मात्समाहितं बुद्ध्या मनो भूतेषु धारयेत्
नापध्यायेन्न स्पृहयेन्नाबद्धं चिन्तयेदसत्
१२.२०८.१०अवाग्योगप्रयोगेण मनोज्ञं संप्रवर्तते
विवक्षता वा सद्वाक्यं धर्मं सूक्ष्ममवेक्षता
सत्यां वाचमहिंस्रां च वदेदनपवादिनीम्
१२.२०८.११कल्कापेतामपरुषामनृशंसामपैशुनाम्
ईदृगल्पं च वक्तव्यमविक्षिप्तेन चेतसा
१२.२०८.१२वाक्प्रबुद्धो हि संरागाद्विरागाद्व्याहरेद्यदि
बुद्ध्या ह्यनिगृहीतेन मनसा कर्म तामसम्
रजोभूतैर्हि करणैः कर्मणा प्रतिपद्यते
१२.२०८.१३स दुःखं प्राप्य लोकेऽस्मिन्नरकायोपपद्यते
तस्मान्मनोवाक्शरीरैराचरेद्धैर्यमात्मनः
१२.२०८.१४प्रकीर्णमेषभारो हि यद्वद्धार्येत दस्युभिः
प्रतिलोमां दिशं बुद्ध्वा संसारमबुधास्तथा
१२.२०८.१५तानेव च यथा दस्यून्क्षिप्त्वा गच्छेच्छिवां दिशम्
तथा रजस्तमःकर्माण्युत्सृज्य प्राप्नुयात्सुखम्
१२.२०८.१६निःसंदिग्धमनीहो वै मुक्तः सर्वपरिग्रहैः
विविक्तचारी लघ्वाशी तपस्वी नियतेन्द्रियः
१२.२०८.१७ज्ञानदग्धपरिक्लेशः प्रयोगरतिरात्मवान्
निष्प्रचारेण मनसा परं तदधिगच्छति
१२.२०८.१८धृतिमानात्मवान्बुद्धिं निगृह्णीयादसंशयम्
मनो बुद्ध्या निगृह्णीयाद्विषयान्मनसात्मनः
१२.२०८.१९निगृहीतेन्द्रियस्यास्य कुर्वाणस्य मनो वशे
देवतास्ताः प्रकाशन्ते हृष्टा यान्ति तमीश्वरम्
१२.२०८.२०ताभिः संसक्तमनसो ब्रह्मवत्संप्रकाशते
एतैश्चापगतैः सर्वैर्ब्रह्मभूयाय कल्पते
१२.२०८.२१अथ वा न प्रवर्तेत योगतन्त्रैरुपक्रमेत्
येन तन्त्रमयं तन्त्रं वृत्तिः स्यात्तत्तदाचरेत्
१२.२०८.२२कणपिण्याककुल्माषशाकयावकसक्तवः
तथा मूलफलं भैक्षं पर्यायेणोपयोजयेत्
१२.२०८.२३आहारं नियतं चैव देशे काले च सात्त्विकम्
तत्परीक्ष्यानुवर्तेत यत्प्रवृत्त्यनुवर्तकम्
१२.२०८.२४प्रवृत्तं नोपरुन्धेत शनैरग्निमिवेन्धयेत्
ज्ञानेन्धितं ततो ज्ञानमर्कवत्संप्रकाशते
१२.२०८.२५ज्ञानाधिष्ठानमज्ञानं त्रीँल्लोकानधितिष्ठति
विज्ञानानुगतं ज्ञानमज्ञानादपकृष्यते
१२.२०८.२६पृथक्त्वात्संप्रयोगाच्च नासूयुर्वेद शाश्वतम्
स तयोरपवर्गज्ञो वीतरागो विमुच्यते
१२.२०८.२७वयोतीतो जरामृत्यू जित्वा ब्रह्म सनातनम्
अमृतं तदवाप्नोति यत्तदक्षरमव्ययम्