१२. शान्तिपर्व
१२.२१३.१युधिष्ठिर उवाच

१२.२१३.२किं कुर्वन्सुखमाप्नोति किं कुर्वन्दुःखमाप्नुते
किं कुर्वन्निर्भयो लोके सिद्धश्चरति भारत

१२.२१३.३भीष्म उवाच

१२.२१३.४दममेव प्रशंसन्ति वृद्धाः श्रुतिसमाधयः
सर्वेषामेव वर्णानां ब्राह्मणस्य विशेषतः

१२.२१३.५नादान्तस्य क्रियासिद्धिर्यथावदुपलभ्यते
क्रिया तपश्च वेदाश्च दमे सर्वं प्रतिष्ठितम्

१२.२१३.६दमस्तेजो वर्धयति पवित्रं दम उच्यते
विपाप्मा निर्भयो दान्तः पुरुषो विन्दते महत्

१२.२१३.७सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते
सुखं लोके विपर्येति मनश्चास्य प्रसीदति

१२.२१३.८तेजो दमेन ध्रियते न तत्तीक्ष्णोऽधिगच्छति
अमित्रांश्च बहून्नित्यं पृथगात्मनि पश्यति

१२.२१३.९क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम्
तेषां विप्रतिषेधार्थं राजा सृष्टः स्वयंभुवा

१२.२१३.१०आश्रमेषु च सर्वेषु दम एव विशिष्यते
यच्च तेषु फलं धर्मे भूयो दान्ते तदुच्यते

१२.२१३.११तेषां लिङ्गानि वक्ष्यामि येषां समुदयो दमः
अकार्पण्यमसंरम्भः संतोषः श्रद्दधानता

१२.२१३.१२अक्रोध आर्जवं नित्यं नातिवादो न मानिता
गुरुपूजानसूया च दया भूतेष्वपैशुनम्

१२.२१३.१३जनवादमृषावादस्तुतिनिन्दाविवर्जनम्
साधुकामश्चास्पृहयन्नायाति प्रत्ययं नृषु

१२.२१३.१४अवैरकृत्सूपचारः समो निन्दाप्रशंसयोः
सुवृत्तः शीलसंपन्नः प्रसन्नात्मात्मवान्बुधः
प्राप्य लोके च सत्कारं स्वर्गं वै प्रेत्य गच्छति

१२.२१३.१५सर्वभूतहिते युक्तो न स्मयाद्द्वेष्टि वै जनम्
महाह्रद इवाक्षोभ्य प्रज्ञातृप्तः प्रसीदति

१२.२१३.१६अभयं सर्वभूतेभ्यः सर्वेषामभयं यतः
नमस्यः सर्वभूतानां दान्तो भवति ज्ञानवान्

१२.२१३.१७न हृष्यति महत्यर्थे व्यसने च न शोचति
स वै परिमितप्रज्ञः स दान्तो द्विज उच्यते

१२.२१३.१८कर्मभिः श्रुतसंपन्नः सद्भिराचरितैः शुभैः
सदैव दमसंयुक्तस्तस्य भुङ्क्ते महत्फलम्

१२.२१३.१९अनसूया क्षमा शान्तिः संतोषः प्रियवादिता
सत्यं दानमनायासो नैष मार्गो दुरात्मनाम्

१२.२१३.२०कामक्रोधौ वशे कृत्वा ब्रह्मचारी जितेन्द्रियः
विक्रम्य घोरे तपसि ब्राह्मणः संशितव्रतः
कालाकाङ्क्षी चरेल्लोकान्निरपाय इवात्मवान्