१२. शान्तिपर्व
१२.२१४.१युधिष्ठिर उवाच

१२.२१४.२द्विजातयो व्रतोपेता यदिदं भुञ्जते हविः
अन्नं ब्राह्मणकामाय कथमेतत्पितामह

१२.२१४.३भीष्म उवाच

१२.२१४.४अवेदोक्तव्रतोपेता भुञ्जानाः कार्यकारिणः
वेदोक्तेषु च भुञ्जाना व्रतलुप्ता युधिष्ठिर

१२.२१४.५युधिष्ठिर उवाच

१२.२१४.६यदिदं तप इत्याहुरुपवासं पृथग्जनाः
एतत्तपो महाराज उताहो किं तपो भवेत्

१२.२१४.७भीष्म उवाच

१२.२१४.८मासपक्षोपवासेन मन्यन्ते यत्तपो जनाः
आत्मतन्त्रोपघातः स न तपस्तत्सतां मतम्
त्यागश्च सन्नतिश्चैव शिष्यते तप उत्तमम्

१२.२१४.९सदोपवासी च भवेद्ब्रह्मचारी सदैव च
मुनिश्च स्यात्सदा विप्रो दैवतं च सदा भजेत्

१२.२१४.१०कुटुम्बिको धर्मकामः सदास्वप्नश्च भारत
अमांसाशी सदा च स्यात्पवित्रं च सदा जपेत्

१२.२१४.११अमृताशी सदा च स्यान्न च स्याद्विषभोजनः
विघसाशी सदा च स्यात्सदा चैवातिथिप्रियः

१२.२१४.१२युधिष्ठिर उवाच

१२.२१४.१३कथं सदोपवासी स्याद्ब्रह्मचारी कथं भवेत्
विघसाशी कथं च स्यात्सदा चैवातिथिप्रियः

१२.२१४.१४भीष्म उवाच

१२.२१४.१५अन्तरा प्रातराशं च सायमाशं तथैव च
सदोपवासी च भवेद्यो न भुङ्क्ते कथंचन

१२.२१४.१६भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः
ऋतवादी सदा च स्याज्ज्ञाननित्यश्च यो नरः

१२.२१४.१७अभक्षयन्वृथामांसममांसाशी भवत्युत
दाननित्यः पवित्रश्च अस्वप्नश्च दिवास्वपन्

१२.२१४.१८भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु सदा स ह
अमृतं सकलं भुङ्क्त इति विद्धि युधिष्ठिर

१२.२१४.१९अभुक्तवत्सु नाश्नानः सततं यस्तु वै द्विजः
अभोजनेन तेनास्य जितः स्वर्गो भवत्युत

१२.२१४.२०देवताभ्यः पितृभ्यश्च भृत्येभ्योऽतिथिभिः सह
अवशिष्टं तु योऽश्नाति तमाहुर्विघसाशिनम्

१२.२१४.२१तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणा सह
उपस्थिताश्चाप्सरोभिः परियान्ति दिवौकसः

१२.२१४.२२देवताभिश्च ये सार्धं पितृभिश्चोपभुञ्जते
रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा