१२. शान्तिपर्व
१२.२१६.१युधिष्ठिर उवाच

१२.२१६.२यया बुद्ध्या महीपालो भ्रष्टश्रीर्विचरेन्महीम्
कालदण्डविनिष्पिष्टस्तन्मे ब्रूहि पितामह

१२.२१६.३भीष्म उवाच

१२.२१६.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
वासवस्य च संवादं बलेर्वैरोचनस्य च

१२.२१६.५पितामहमुपागत्य प्रणिपत्य कृताञ्जलिः
सर्वानेवासुराञ्जित्वा बलिं पप्रच्छ वासवः

१२.२१६.६यस्य स्म ददतो वित्तं न कदाचन हीयते
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम्

१२.२१६.७स एव ह्यस्तमयते स स्म विद्योतते दिशः
स वर्षति स्म वर्षाणि यथाकालमतन्द्रितः
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम्

१२.२१६.८स वायुर्वरुणश्चैव स रविः स च चन्द्रमाः
सोऽग्निस्तपति भूतानि पृथिवी च भवत्युत
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम्

१२.२१६.९ब्रह्मोवाच

१२.२१६.१०नैतत्ते साधु मघवन्यदेतदनुपृच्छसि
पृष्टस्तु नानृतं ब्रूयात्तस्माद्वक्ष्यामि ते बलिम्

१२.२१६.११उष्ट्रेषु यदि वा गोषु खरेष्वश्वेषु वा पुनः
वरिष्ठो भविता जन्तुः शून्यागारे शचीपते

१२.२१६.१२शक्र उवाच

१२.२१६.१३यदि स्म बलिना ब्रह्मञ्शून्यागारे समेयिवान्
हन्यामेनं न वा हन्यां तद्ब्रह्मन्ननुशाधि माम्

१२.२१६.१४ब्रह्मोवाच

१२.२१६.१५मा स्म शक्र बलिं हिंसीर्न बलिर्वधमर्हति
न्यायांस्तु शक्र प्रष्टव्यस्त्वया वासव काम्यया

१२.२१६.१६भीष्म उवाच

१२.२१६.१७एवमुक्तो भगवता महेन्द्रः पृथिवीं तदा
चचारैरावतस्कन्धमधिरुह्य श्रिया वृतः

१२.२१६.१८ततो ददर्श स बलिं खरवेषेण संवृतम्
यथाख्यातं भगवता शून्यागारकृतालयम्

१२.२१६.१९शक्र उवाच

१२.२१६.२०खरयोनिमनुप्राप्तस्तुषभक्षोऽसि दानव
इयं ते योनिरधमा शोचस्याहो न शोचसि

१२.२१६.२१अदृष्टं बत पश्यामि द्विषतां वशमागतम्
श्रिया विहीनं मित्रैश्च भ्रष्टवीर्यपराक्रमम्

१२.२१६.२२यत्तद्यानसहस्रेण ज्ञातिभिः परिवारितः
लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन्

१२.२१६.२३त्वन्मुखाश्चैव दैतेया व्यतिष्ठंस्तव शासने
अकृष्टपच्या पृथिवी तवैश्वर्ये बभूव ह
इदं च तेऽद्य व्यसनं शोचस्याहो न शोचसि

१२.२१६.२४यदातिष्ठः समुद्रस्य पूर्वकूले विलेलिहन्
ज्ञातिभ्यो विभजन्वित्तं तदासीत्ते मनः कथम्

१२.२१६.२५यत्ते सहस्रसमिता ननृतुर्देवयोषितः
बहूनि वर्षपूगानि विहारे दीप्यतः श्रिया

१२.२१६.२६सर्वाः पुष्करमालिन्यः सर्वाः काञ्चनसप्रभाः
कथमद्य तदा चैव मनस्ते दानवेश्वर

१२.२१६.२७छत्रं तवासीत्सुमहत्सौवर्णं मणिभूषितम्
ननृतुर्यत्र गन्धर्वाः षट्सहस्राणि सप्तधा

१२.२१६.२८यूपस्तवासीत्सुमहान्यजतः सर्वकाञ्चनः
यत्राददः सहस्राणामयुतानि गवां दश

१२.२१६.२९यदा तु पृथिवीं सर्वां यजमानोऽनुपर्ययाः
शम्याक्षेपेण विधिना तदासीत्किं नु ते हृदि

१२.२१६.३०न ते पश्यामि भृङ्गारं न छत्रं व्यजनं न च
ब्रह्मदत्तां च ते मालां न पश्याम्यसुराधिप

१२.२१६.३१बलिरुवाच

१२.२१६.३२न त्वं पश्यसि भृङ्गारं न छत्रं व्यजनं न च
ब्रह्मदत्तां च मे मालां न त्वं द्रक्ष्यसि वासव

१२.२१६.३३गुहायां निहितानि त्वं मम रत्नानि पृच्छसि
यदा मे भविता कालस्तदा त्वं तानि द्रक्ष्यसि

१२.२१६.३४न त्वेतदनुरूपं ते यशसो वा कुलस्य वा
समृद्धार्थोऽसमृद्धार्थं यन्मां कत्थितुमिच्छसि

१२.२१६.३५न हि दुःखेषु शोचन्ति न प्रहृष्यन्ति चर्द्धिषु
कृतप्रज्ञा ज्ञानतृप्ताः क्षान्ताः सन्तो मनीषिणः

१२.२१६.३६त्वं तु प्राकृतया बुद्ध्या पुरंदर विकत्थसे
यदाहमिव भावी त्वं तदा नैवं वदिष्यसि