१२. शान्तिपर्व
१२.२४६.१व्यास उवाच

१२.२४६.२हृदि कामद्रुमश्चित्रो मोहसंचयसंभवः
क्रोधमानमहास्कन्धो विवित्सापरिमोचनः

१२.२४६.३तस्य चाज्ञानमाधारः प्रमादः परिषेचनम्
सोऽभ्यसूयापलाशो हि पुरादुष्कृतसारवान्

१२.२४६.४संमोहचिन्ताविटपः शोकशाखो भयंकरः
मोहनीभिः पिपासाभिर्लताभिः परिवेष्टितः

१२.२४६.५उपासते महावृक्षं सुलुब्धास्तं फलेप्सवः
आयासैः संयतः पाशैः फलानि परिवेष्टयन्

१२.२४६.६यस्तान्पाशान्वशे कृत्वा तं वृक्षमपकर्षति
गतः स दुःखयोरन्तं यतमानस्तयोर्द्वयोः

१२.२४६.७संरोहत्यकृतप्रज्ञः संतापेन हि पादपम्
स तमेव ततो हन्ति विषं ग्रस्तमिवातुरम्

१२.२४६.८तस्यानुशयमूलस्य मूलमुद्ध्रियते बलात्
त्यागाप्रमादाकृतिना साम्येन परमासिना

१२.२४६.९एवं यो वेद कामस्य केवलं परिकर्षणम्
वधं वै कामशास्त्रस्य स दुःखान्यतिवर्तते

१२.२४६.१०शरीरं पुरमित्याहुः स्वामिनी बुद्धिरिष्यते
तत्र बुद्धेः शरीरस्थं मनो नामार्थचिन्तकम्

१२.२४६.११इन्द्रियाणि जनाः पौरास्तदर्थं तु परा कृतिः
तत्र द्वौ दारुणौ दोषौ तमो नाम रजस्तथा

१२.२४६.१२यदर्थमुपजीवन्ति पौराः सहपुरेश्वराः
अद्वारेण तमेवार्थं द्वौ दोषावुपजीवतः

१२.२४६.१३तत्र बुद्धिर्हि दुर्धर्षा मनः साधर्म्यमुच्यते
पौराश्चापि मनस्त्रस्तास्तेषामपि चला स्थितिः

१२.२४६.१४यदर्थं बुद्धिरध्यास्ते न सोऽर्थः परिषीदति
यदर्थं पृथगध्यास्ते मनस्तत्परिषीदति

१२.२४६.१५पृथग्भूतं यदा बुद्ध्या मनो भवति केवलम्
तत्रैनं विवृतं शून्यं रजः पर्यवतिष्ठते

१२.२४६.१६तन्मनः कुरुते सख्यं रजसा सह संगतम्
तं चादाय जनं पौरं रजसे संप्रयच्छति