१२.२४५.१व्यास उवाच
१२.२४५.२शरीराद्विप्रमुक्तं हि सूक्ष्मभूतं शरीरिणम्
कर्मभिः परिपश्यन्ति शास्त्रोक्तैः शास्त्रचेतसः
१२.२४५.३यथा मरीच्यः सहिताश्चरन्ति; गच्छन्ति तिष्ठन्ति च दृश्यमानाः
देहैर्विमुक्ता विचरन्ति लोकां;स्तथैव सत्त्वान्यतिमानुषाणि
१२.२४५.४प्रतिरूपं यथैवाप्सु तापः सूर्यस्य लक्ष्यते
सत्त्ववांस्तु तथा सत्त्वं प्रतिरूपं प्रपश्यति
१२.२४५.५तानि सूक्ष्माणि सत्त्वस्था विमुक्तानि शरीरतः
स्वेन तत्त्वेन तत्त्वज्ञाः पश्यन्ति नियतेन्द्रियाः
१२.२४५.६स्वपतां जाग्रतां चैव सर्वेषामात्मचिन्तितम्
प्रधानद्वैधयुक्तानां जहतां कर्मजं रजः
१२.२४५.७यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि
वशे तिष्ठति सत्त्वात्मा सततं योगयोगिनाम्
१२.२४५.८तेषां नित्यं सदानित्यो भूतात्मा सततं गुणैः
सप्तभिस्त्वन्वितः सूक्ष्मैश्चरिष्णुरजरामरः
१२.२४५.९मनोबुद्धिपराभूतः स्वदेहपरदेहवित्
स्वप्नेष्वपि भवत्येष विज्ञाता सुखदुःखयोः
१२.२४५.१०तत्रापि लभते दुःखं तत्रापि लभते सुखम्
क्रोधलोभौ तु तत्रापि कृत्वा व्यसनमर्छति
१२.२४५.११प्रीणितश्चापि भवति महतोऽर्थानवाप्य च
करोति पुण्यं तत्रापि जाग्रन्निव च पश्यति
१२.२४५.१२तमेवमतितेजोंशं भूतात्मानं हृदि स्थितम्
तमोरजोभ्यामाविष्टा नानुपश्यन्ति मूर्तिषु
१२.२४५.१३शास्त्रयोगपरा भूत्वा स्वमात्मानं परीप्सवः
अनुच्छ्वासान्यमूर्तीनि यानि वज्रोपमान्यपि
१२.२४५.१४पृथग्भूतेषु सृष्टेषु चतुर्ष्वाश्रमकर्मसु
समाधौ योगमेवैतच्छाण्डिल्यः शममब्रवीत्
१२.२४५.१५विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम्
प्रधानविनियोगस्थः परं ब्रह्माधिगच्छति