१२.२४९.१स्थाणुरुवाच
१२.२४९.२प्रजासर्गनिमित्तं मे कार्यवत्तामिमां प्रभो
विद्धि सृष्टास्त्वया हीमा मा कुप्यासां पितामह
१२.२४९.३तव तेजोग्निना देव प्रजा दह्यन्ति सर्वशः
ता दृष्ट्वा मम कारुण्यं मा कुप्यासां जगत्प्रभो
१२.२४९.४प्रजापतिरुवाच
१२.२४९.५न कुप्ये न च मे कामो न भवेरन्प्रजा इति
लाघवार्थं धरण्यास्तु ततः संहार इष्यते
१२.२४९.६इयं हि मां सदा देवी भारार्ता समचोदयत्
संहारार्थं महादेव भारेणाप्सु निमज्जति
१२.२४९.७यदाहं नाधिगच्छामि बुद्ध्या बहु विचारयन्
संहारमासां वृद्धानां ततो मां क्रोध आविशत्
१२.२४९.८स्थाणुरुवाच
१२.२४९.९संहारान्तं प्रसीदस्व मा क्रुधस्त्रिदशेश्वर
मा प्रजाः स्थावरं चैव जङ्गमं च विनीनशः
१२.२४९.१०पल्वलानि च सर्वाणि सर्वं चैव तृणोलपम्
स्थावरं जङ्गमं चैव भूतग्रामं चतुर्विधम्
१२.२४९.११तदेतद्भस्मसाद्भूतं जगत्सर्वमुपप्लुतम्
प्रसीद भगवन्साधो वर एष वृतो मया
१२.२४९.१२नष्टा न पुनरेष्यन्ति प्रजा ह्येताः कथंचन
तस्मान्निवर्त्यतामेतत्तेजः स्वेनैव तेजसा
१२.२४९.१३उपायमन्यं संपश्य प्रजानां हितकाम्यया
यथेमे जन्तवः सर्वे निवर्तेरन्परंतप
१२.२४९.१४अभावमभिगच्छेयुरुत्सन्नप्रजनाः प्रजाः
अधिदैवनियुक्तोऽस्मि त्वया लोकेष्विहेश्वर
१२.२४९.१५त्वद्भवं हि जगन्नाथ जगत्स्थावरजङ्गमम्
प्रसाद्य त्वां महादेव याचाम्यावृत्तिजाः प्रजाः
१२.२४९.१६नारद उवाच
१२.२४९.१७श्रुत्वा तु वचनं देवः स्थाणोर्नियतवाङ्मनाः
तेजस्तत्स्वं निजग्राह पुनरेवान्तरात्मना
१२.२४९.१८ततोऽग्निमुपसंगृह्य भगवाँल्लोकपूजितः
प्रवृत्तिं च निवृत्तिं च कल्पयामास वै प्रभुः
१२.२४९.१९उपसंहरतस्तस्य तमग्निं रोषजं तदा
प्रादुर्बभूव विश्वेभ्यः खेभ्यो नारी महात्मनः
१२.२४९.२०कृष्णा रक्ताम्बरधरा रक्तनेत्रतलान्तरा
दिव्यकुण्डलसंपन्ना दिव्याभरणभूषिता
१२.२४९.२१सा विनिःसृत्य वै खेभ्यो दक्षिणामाश्रिता दिशम्
ददृशातेऽथ तौ कन्यां देवौ विश्वेश्वरावुभौ
१२.२४९.२२तामाहूय तदा देवो लोकानामादिरीश्वरः
मृत्यो इति महीपाल जहि चेमाः प्रजा इति
१२.२४९.२३त्वं हि संहारबुद्ध्या मे चिन्तिता रुषितेन च
तस्मात्संहर सर्वास्त्वं प्रजाः सजडपण्डिताः
१२.२४९.२४अविशेषेण चैव त्वं प्रजाः संहर भामिनि
मम त्वं हि नियोगेन श्रेयः परमवाप्स्यसि
१२.२४९.२५एवमुक्ता तु सा देवी मृत्युः कमलमालिनी
प्रदध्यौ दुःखिता बाला साश्रुपातमतीव हि
१२.२४९.२६पाणिभ्यां चैव जग्राह तान्यश्रूणि जनेश्वरः
मानवानां हितार्थाय ययाचे पुनरेव च