१२.२५०.१नारद उवाच
१२.२५०.२विनीय दुःखमबला सा त्वतीवायतेक्षणा
उवाच प्राञ्जलिर्भूत्वा लतेवावर्जिता तदा
१२.२५०.३त्वया सृष्टा कथं नारी मादृशी वदतां वर
रौद्रकर्माभिजायेत सर्वप्राणिभयंकरी
१२.२५०.४बिभेम्यहमधर्मस्य धर्म्यमादिश कर्म मे
त्वं मां भीतामवेक्षस्व शिवेनेश्वर चक्षुषा
१२.२५०.५बालान्वृद्धान्वयःस्थांश्च न हरेयमनागसः
प्राणिनः प्राणिनामीश नमस्तेऽभिप्रसीद मे
१२.२५०.६प्रियान्पुत्रान्वयस्यांश्च भ्रातॄन्मातॄः पितॄनपि
अपध्यास्यन्ति यद्देव मृतांस्तेषां बिभेम्यहम्
१२.२५०.७कृपणाश्रुपरिक्लेदो दहेन्मां शाश्वतीः समाः
तेभ्योऽहं बलवद्भीता शरणं त्वामुपागता
१२.२५०.८यमस्य भवने देव यात्यन्ते पापकर्मिणः
प्रसादये त्वा वरद प्रसादं कुरु मे प्रभो
१२.२५०.९एतमिच्छाम्यहं कामं त्वत्तो लोकपितामह
इच्छेयं त्वत्प्रसादाच्च तपस्तप्तुं सुरेश्वर
१२.२५०.१०पितामह उवाच
१२.२५०.११मृत्यो संकल्पिता मे त्वं प्रजासंहारहेतुना
गच्छ संहर सर्वास्त्वं प्रजा मा च विचारय
१२.२५०.१२एतदेवमवश्यं हि भविता नैतदन्यथा
क्रियतामनवद्याङ्गि यथोक्तं मद्वचोऽनघे
१२.२५०.१३नारद उवाच
१२.२५०.१४एवमुक्ता महाबाहो मृत्युः परपुरंजय
न व्याजहार तस्थौ च प्रह्वा भगवदुन्मुखी
१२.२५०.१५पुनः पुनरथोक्ता सा गतसत्त्वेव भामिनी
तूष्णीमासीत्ततो देवो देवानामीश्वरेश्वरः
१२.२५०.१६प्रससाद किल ब्रह्मा स्वयमेवात्मनात्मवान्
स्मयमानश्च लोकेशो लोकान्सर्वानवैक्षत
१२.२५०.१७निवृत्तरोषे तस्मिंस्तु भगवत्यपराजिते
सा कन्यापजगामास्य समीपादिति नः श्रुतम्
१२.२५०.१८अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तदा
त्वरमाणेव राजेन्द्र मृत्युर्धेनुकमभ्ययात्
१२.२५०.१९सा तत्र परमं देवी तपोऽचरत दुश्चरम्
समा ह्येकपदे तस्थौ दश पद्मानि पञ्च च
१२.२५०.२०तां तथा कुर्वतीं तत्र तपः परमदुश्चरम्
पुनरेव महातेजा ब्रह्मा वचनमब्रवीत्
१२.२५०.२१कुरुष्व मे वचो मृत्यो तदनादृत्य सत्वरा
तथैवैकपदे तात पुनरन्यानि सप्त सा
१२.२५०.२२तस्थौ पद्मानि षट्चैव पञ्च द्वे चैव मानद
भूयः पद्मायुतं तात मृगैः सह चचार सा
१२.२५०.२३पुनर्गत्वा ततो राजन्मौनमातिष्ठदुत्तमम्
अप्सु वर्षसहस्राणि सप्त चैकं च पार्थिव
१२.२५०.२४ततो जगाम सा कन्या कौशिकीं भरतर्षभ
तत्र वायुजलाहारा चचार नियमं पुनः
१२.२५०.२५ततो ययौ महाभागा गङ्गां मेरुं च केवलम्
तस्थौ दार्विव निश्चेष्टा भूतानां हितकाम्यया
१२.२५०.२६ततो हिमवतो मूर्ध्नि यत्र देवाः समीजिरे
तत्राङ्गुष्ठेन राजेन्द्र निखर्वमपरं ततः
तस्थौ पितामहं चैव तोषयामास यत्नतः
१२.२५०.२७ततस्तामब्रवीत्तत्र लोकानां प्रभवाप्ययः
किमिदं वर्तते पुत्रि क्रियतां तद्वचो मम
१२.२५०.२८ततोऽब्रवीत्पुनर्मृत्युर्भगवन्तं पितामहम्
न हरेयं प्रजा देव पुनस्त्वाहं प्रसादये
१२.२५०.२९तामधर्मभयत्रस्तां पुनरेव च याचतीम्
तदाब्रवीद्देवदेवो निगृह्येदं वचस्ततः
१२.२५०.३०अधर्मो नास्ति ते मृत्यो संयच्छेमाः प्रजाः शुभे
मया ह्युक्तं मृषा भद्रे भविता नेह किंचन
१२.२५०.३१धर्मः सनातनश्च त्वामिहैवानुप्रवेक्ष्यते
अहं च विबुधाश्चैव त्वद्धिते निरताः सदा
१२.२५०.३२इममन्यं च ते कामं ददामि मनसेप्सितम्
न त्वा दोषेण यास्यन्ति व्याधिसंपीडिताः प्रजाः
१२.२५०.३३पुरुषेषु च रूपेण पुरुषस्त्वं भविष्यसि
स्त्रीषु स्त्रीरूपिणी चैव तृतीयेषु नपुंसकम्
१२.२५०.३४सैवमुक्ता महाराज कृताञ्जलिरुवाच ह
पुनरेव महात्मानं नेति देवेशमव्ययम्
१२.२५०.३५तामब्रवीत्तदा देवो मृत्यो संहर मानवान्
अधर्मस्ते न भविता तथा ध्यास्याम्यहं शुभे
१२.२५०.३६यानश्रुबिन्दून्पतितानपश्यं; ये पाणिभ्यां धारितास्ते पुरस्तात्
ते व्याधयो मानवान्घोररूपाः; प्राप्ते काले पीडयिष्यन्ति मृत्यो
१२.२५०.३७सर्वेषां त्वं प्राणिनामन्तकाले; कामक्रोधौ सहितौ योजयेथाः
एवं धर्मस्त्वामुपैष्यत्यमेयो; न चाधर्मं लप्स्यसे तुल्यवृत्तिः
१२.२५०.३८एवं धर्मं पालयिष्यस्यथोक्तं; न चात्मानं मज्जयिष्यस्यधर्मे
तस्मात्कामं रोचयाभ्यागतं त्वं; संयोज्याथो संहरस्वेह जन्तून्
१२.२५०.३९सा वै तदा मृत्युसंज्ञापदेशा;च्छापाद्भीता बाढमित्यब्रवीत्तम्
अथो प्राणान्प्राणिनामन्तकाले; कामक्रोधौ प्राप्य निर्मोह्य हन्ति
१२.२५०.४०मृत्योर्ये ते व्याधयश्चाश्रुपाता; मनुष्याणां रुज्यते यैः शरीरम्
सर्वेषां वै प्राणिनां प्राणनान्ते; तस्माच्छोकं मा कृथा बुध्य बुद्ध्या
१२.२५०.४१सर्वे देवाः प्राणिनां प्राणनान्ते; गत्वा वृत्ताः संनिवृत्तास्तथैव
एवं सर्वे मानवाः प्राणनान्ते; गत्वावृत्ता देववद्राजसिंह
१२.२५०.४२वायुर्भीमो भीमनादो महौजाः; सर्वेषां च प्राणिनां प्राणभूतः
नानावृत्तिर्देहिनां देहभेदे; तस्माद्वायुर्देवदेवो विशिष्टः
१२.२५०.४३सर्वे देवा मर्त्यसंज्ञाविशिष्टाः; सर्वे मर्त्या देवसंज्ञाविशिष्टाः
तस्मात्पुत्रं मा शुचो राजसिंह; पुत्रः स्वर्गं प्राप्य ते मोदते ह
१२.२५०.४४एवं मृत्युर्देवसृष्टा प्रजानां; प्राप्ते काले संहरन्ती यथावत्
तस्याश्चैव व्याधयस्तेऽश्रुपाताः; प्राप्ते काले संहरन्तीह जन्तून्