१२.२५२.१युधिष्ठिर उवाच
१२.२५२.२सूक्ष्मं साधु समादिष्टं भवता धर्मलक्षणम्
प्रतिभा त्वस्ति मे काचित्तां ब्रूयामनुमानतः
१२.२५२.३भूयांसो हृदये ये मे प्रश्नास्ते व्याहृतास्त्वया
इममन्यं प्रवक्ष्यामि न राजन्विग्रहादिव
१२.२५२.४इमानि हि प्रापयन्ति सृजन्त्युत्तारयन्ति च
न धर्मः परिपाठेन शक्यो भारत वेदितुम्
१२.२५२.५अन्यो धर्मः समस्थस्य विषमस्थस्य चापरः
आपदस्तु कथं शक्याः परिपाठेन वेदितुम्
१२.२५२.६सदाचारो मतो धर्मः सन्तस्त्वाचारलक्षणाः
साध्यासाध्यं कथं शक्यं सदाचारो ह्यलक्षणम्
१२.२५२.७दृश्यते धर्मरूपेण अधर्मं प्राकृतश्चरन्
धर्मं चाधर्मरूपेण कश्चिदप्राकृतश्चरन्
१२.२५२.८पुनरस्य प्रमाणं हि निर्दिष्टं शास्त्रकोविदैः
वेदवादाश्चानुयुगं ह्रसन्तीति ह नः श्रुतम्
१२.२५२.९अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे
अन्ये कलियुगे धर्मा यथाशक्तिकृता इव
१२.२५२.१०आम्नायवचनं सत्यमित्ययं लोकसंग्रहः
आम्नायेभ्यः परं वेदाः प्रसृता विश्वतोमुखाः
१२.२५२.११ते चेत्सर्वे प्रमाणं वै प्रमाणं तन्न विद्यते
प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रता कुतः
१२.२५२.१२धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः
या या विक्रियते संस्था ततः सापि प्रणश्यति
१२.२५२.१३विद्म चैवं न वा विद्म शक्यं वा वेदितुं न वा
अणीयान्क्षुरधाराया गरीयान्पर्वतादपि
१२.२५२.१४गन्धर्वनगराकारः प्रथमं संप्रदृश्यते
अन्वीक्ष्यमाणः कविभिः पुनर्गच्छत्यदर्शनम्
१२.२५२.१५निपानानीव गोभ्याशे क्षेत्रे कुल्येव भारत
स्मृतोऽपि शाश्वतो धर्मो विप्रहीणो न दृश्यते
१२.२५२.१६कामादन्ये क्षयादन्ये कारणैरपरैस्तथा
असन्तो हि वृथाचारं भजन्ते बहवोऽपरे
१२.२५२.१७धर्मो भवति स क्षिप्रं विलीनस्त्वेव साधुषु
अन्ये तानाहुरुन्मत्तानपि चावहसन्त्युत
१२.२५२.१८महाजना ह्युपावृत्ता राजधर्मं समाश्रिताः
न हि सर्वहितः कश्चिदाचारः संप्रदृश्यते
१२.२५२.१९तेनैवान्यः प्रभवति सोऽपरं बाधते पुनः
दृश्यते चैव स पुनस्तुल्यरूपो यदृच्छया
१२.२५२.२०येनैवान्यः प्रभवति सोऽपरानपि बाधते
आचाराणामनैकाग्र्यं सर्वेषामेव लक्षयेत्
१२.२५२.२१चिराभिपन्नः कविभिः पूर्वं धर्म उदाहृतः
तेनाचारेण पूर्वेण संस्था भवति शाश्वती