१२. शान्तिपर्व
१२.२५३.१भीष्म उवाच

१२.२५३.२अत्राप्युदाहरन्तीममितिहासं पुरातनम्
तुलाधारस्य वाक्यानि धर्मे जाजलिना सह

१२.२५३.३वने वनचरः कश्चिज्जाजलिर्नाम वै द्विजः
सागरोद्देशमागम्य तपस्तेपे महातपाः

१२.२५३.४नियतो नियताहारश्चीराजिनजटाधरः
मलपङ्कधरो धीमान्बहून्वर्षगणान्मुनिः

१२.२५३.५स कदाचिन्महातेजा जलवासो महीपते
चचार लोकान्विप्रर्षिः प्रेक्षमाणो मनोजवः

१२.२५३.६स चिन्तयामास मुनिर्जलमध्ये कदाचन
विप्रेक्ष्य सागरान्तां वै महीं सवनकाननाम्

१२.२५३.७न मया सदृशोऽस्तीह लोके स्थावरजङ्गमे
अप्सु वैहायसं गच्छेन्मया योऽन्यः सहेति वै

१२.२५३.८स दृश्यमानो रक्षोभिर्जलमध्येऽवदत्ततः
अब्रुवंश्च पिशाचास्तं नैवं त्वं वक्तुमर्हसि

१२.२५३.९तुलाधारो वणिग्धर्मा वाराणस्यां महायशाः
सोऽप्येवं नार्हते वक्तुं यथा त्वं द्विजसत्तम

१२.२५३.१०इत्युक्तो जाजलिर्भूतैः प्रत्युवाच महातपाः
पश्येयं तमहं प्राज्ञं तुलाधारं यशस्विनम्

१२.२५३.११इति ब्रुवाणं तमृषिं रक्षांस्युद्धृत्य सागरात्
अब्रुवन्गच्छ पन्थानमास्थायेमं द्विजोत्तम

१२.२५३.१२इत्युक्तो जाजलिर्भूतैर्जगाम विमनास्तदा
वाराणस्यां तुलाधारं समासाद्याब्रवीद्वचः

१२.२५३.१३युधिष्ठिर उवाच

१२.२५३.१४किं कृतं सुकृतं कर्म तात जाजलिना पुरा
येन सिद्धिं परां प्राप्तस्तन्नो व्याख्यातुमर्हसि

१२.२५३.१५भीष्म उवाच

१२.२५३.१६अतीव तपसा युक्तो घोरेण स बभूव ह
नद्युपस्पर्शनरतः सायं प्रातर्महातपाः

१२.२५३.१७अग्नीन्परिचरन्सम्यक्स्वाध्यायपरमो द्विजः
वानप्रस्थविधानज्ञो जाजलिर्ज्वलितः श्रिया

१२.२५३.१८सत्ये तपसि तिष्ठन्स न च धर्ममवैक्षत
वर्षास्वाकाशशायी स हेमन्ते जलसंश्रयः

१२.२५३.१९वातातपसहो ग्रीष्मे न च धर्ममविन्दत
दुःखशय्याश्च विविधा भूमौ च परिवर्तनम्

१२.२५३.२०ततः कदाचित्स मुनिर्वर्षास्वाकाशमास्थितः
अन्तरिक्षाज्जलं मूर्ध्ना प्रत्यगृह्णान्मुहुर्मुहुः

१२.२५३.२१अथ तस्य जटाः क्लिन्ना बभूवुर्ग्रथिताः प्रभो
अरण्यगमनान्नित्यं मलिनो मलसंयुताः

१२.२५३.२२स कदाचिन्निराहारो वायुभक्षो महातपाः
तस्थौ काष्ठवदव्यग्रो न चचाल च कर्हिचित्

१२.२५३.२३तस्य स्म स्थाणुभूतस्य निर्विचेष्टस्य भारत
कुलिङ्गशकुनौ राजन्नीडं शिरसि चक्रतुः

१२.२५३.२४स तौ दयावान्विप्रर्षिरुपप्रैक्षत दम्पती
कुर्वाणं नीडकं तत्र जटासु तृणतन्तुभिः

१२.२५३.२५यदा स न चलत्येव स्थाणुभूतो महातपाः
ततस्तौ परिविश्वस्तौ सुखं तत्रोषतुस्तदा

१२.२५३.२६अतीतास्वथ वर्षासु शरत्काल उपस्थिते
प्राजापत्येन विधिना विश्वासात्काममोहितौ

१२.२५३.२७तत्रापातयतां राजञ्शिरस्यण्डानि खेचरौ
तान्यबुध्यत तेजस्वी स विप्रः संशितव्रतः

१२.२५३.२८बुद्ध्वा च स महातेजा न चचालैव जाजलिः
धर्मे धृतमना नित्यं नाधर्मं स त्वरोचयत्

१२.२५३.२९अहन्यहनि चागम्य ततस्तौ तस्य मूर्धनि
आश्वासितौ वै वसतः संप्रहृष्टौ तदा विभो

१२.२५३.३०अण्डेभ्यस्त्वथ पुष्टेभ्यः प्रजायन्त शकुन्तकाः
व्यवर्धन्त च तत्रैव न चाकम्पत जाजलिः

१२.२५३.३१स रक्षमाणस्त्वण्डानि कुलिङ्गानां यतव्रतः
तथैव तस्थौ धर्मात्मा निर्विचेष्टः समाहितः

१२.२५३.३२ततस्तु कालसमये बभूवुस्तेऽथ पक्षिणः
बुबुधे तांश्च स मुनिर्जातपक्षाञ्शकुन्तकान्

१२.२५३.३३ततः कदाचित्तांस्तत्र पश्यन्पक्षीन्यतव्रतः
बभूव परमप्रीतस्तदा मतिमतां वरः

१२.२५३.३४तथा तानभिसंवृद्धान्दृष्ट्वा चाप्नुवतां मुदम्
शकुनौ निर्भयौ तत्र ऊषतुश्चात्मजैः सह

१२.२५३.३५जातपक्षांश्च सोऽपश्यदुड्डीनान्पुनरागतान्
सायं सायं द्विजान्विप्रो न चाकम्पत जाजलिः

१२.२५३.३६कदाचित्पुनरभ्येत्य पुनर्गच्छन्ति संततम्
त्यक्ता मातृपितृभ्यां ते न चाकम्पत जाजलिः

१२.२५३.३७अथ ते दिवसं चारीं गत्वा सायं पुनर्नृप
उपावर्तन्त तत्रैव निवासार्थं शकुन्तकाः

१२.२५३.३८कदाचिद्दिवसान्पञ्च समुत्पत्य विहंगमाः
षष्ठेऽहनि समाजग्मुर्न चाकम्पत जाजलिः

१२.२५३.३९क्रमेण च पुनः सर्वे दिवसानि बहून्यपि
नोपावर्तन्त शकुना जातप्राणाः स्म ते यदा

१२.२५३.४०कदाचिन्मासमात्रेण समुत्पत्य विहंगमाः
नैवागच्छंस्ततो राजन्प्रातिष्ठत स जाजलिः

१२.२५३.४१ततस्तेषु प्रलीनेषु जाजलिर्जातविस्मयः
सिद्धोऽस्मीति मतिं चक्रे ततस्तं मान आविशत्

१२.२५३.४२स तथा निर्गतान्दृष्ट्वा शकुन्तान्नियतव्रतः
संभावितात्मा संभाव्य भृशं प्रीतस्तदाभवन्

१२.२५३.४३स नद्यां समुपस्पृश्य तर्पयित्वा हुताशनम्
उदयन्तमथादित्यमभ्यगच्छन्महातपाः

१२.२५३.४४संभाव्य चटकान्मूर्ध्नि जाजलिर्जपतां वरः
आस्फोटयत्तदाकाशे धर्मः प्राप्तो मयेति वै

१२.२५३.४५अथान्तरिक्षे वागासीत्तां स शुश्राव जाजलिः
धर्मेण न समस्त्वं वै तुलाधारस्य जाजले

१२.२५३.४६वाराणस्यां महाप्राज्ञस्तुलाधारः प्रतिष्ठितः
सोऽप्येवं नार्हते वक्तुं यथा त्वं भाषसे द्विज

१२.२५३.४७सोऽमर्षवशमापन्नस्तुलाधारदिदृक्षया
पृथिवीमचरद्राजन्यत्रसायंगृहो मुनिः

१२.२५३.४८कालेन महतागच्छत्स तु वाराणसीं पुरीम्
विक्रीणन्तं च पण्यानि तुलाधारं ददर्श सः

१२.२५३.४९सोऽपि दृष्ट्वैव तं विप्रमायान्तं भाण्डजीवनः
समुत्थाय सुसंहृष्टः स्वागतेनाभ्यपूजयत्

१२.२५३.५०तुलाधार उवाच

१२.२५३.५१आयानेवासि विदितो मम ब्रह्मन्न संशयः
ब्रवीमि यत्तु वचनं तच्छृणुष्व द्विजोत्तम

१२.२५३.५२सागरानूपमाश्रित्य तपस्तप्तं त्वया महत्
न च धर्मस्य संज्ञां त्वं पुरा वेत्थ कथंचन

१२.२५३.५३ततः सिद्धस्य तपसा तव विप्र शकुन्तकाः
क्षिप्रं शिरस्यजायन्त ते च संभावितास्त्वया

१२.२५३.५४जातपक्षा यदा ते च गताश्चारीमितस्ततः
मन्यमानस्ततो धर्मं चटकप्रभवं द्विज
खे वाचं त्वमथाश्रौषीर्मां प्रति द्विजसत्तम

१२.२५३.५५अमर्षवशमापन्नस्ततः प्राप्तो भवानिह
करवाणि प्रियं किं ते तद्ब्रूहि द्विजसत्तम