१२. शान्तिपर्व
१२.२५८.१युधिष्ठिर उवाच

१२.२५८.२कथं कार्यं परीक्षेत शीघ्रं वाथ चिरेण वा
सर्वथा कार्यदुर्गेऽस्मिन्भवान्नः परमो गुरुः

१२.२५८.३भीष्म उवाच

१२.२५८.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
चिरकारेस्तु यत्पूर्वं वृत्तमाङ्गिरसे कुले

१२.२५८.५चिरकारिक भद्रं ते भद्रं ते चिरकारिक
चिरकारी हि मेधावी नापराध्यति कर्मसु

१२.२५८.६चिरकारी महाप्राज्ञो गौतमस्याभवत्सुतः
चिरं हि सर्वकार्याणि समेक्षावान्प्रपद्यते

१२.२५८.७चिरं संचिन्तयन्नर्थांश्चिरं जाग्रच्चिरं स्वपन्
चिरकार्याभिसंपत्तेश्चिरकारी तथोच्यते

१२.२५८.८अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते
बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना

१२.२५८.९व्यभिचारे तु कस्मिंश्चिद्व्यतिक्रम्यापरान्सुतान्
पित्रोक्तः कुपितेनाथ जहीमां जननीमिति

१२.२५८.१०स तथेति चिरेणोक्त्वा स्वभावाच्चिरकारिकः
विमृश्य चिरकारित्वाच्चिन्तयामास वै चिरम्

१२.२५८.११पितुराज्ञां कथं कुर्यां न हन्यां मातरं कथम्
कथं धर्मच्छले नास्मिन्निमज्जेयमसाधुवत्

१२.२५८.१२पितुराज्ञा परो धर्मः स्वधर्मो मातृरक्षणम्
अस्वतन्त्रं च पुत्रत्वं किं नु मां नात्र पीडयेत्

१२.२५८.१३स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत्
पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात्

१२.२५८.१४अनवज्ञा पितुर्युक्ता धारणं मातृरक्षणम्
युक्तक्षमावुभावेतौ नातिवर्तेतमां कथम्

१२.२५८.१५पिता ह्यात्मानमाधत्ते जायायां जज्ञियामिति
शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च

१२.२५८.१६सोऽहमात्मा स्वयं पित्रा पुत्रत्वे प्रकृतः पुनः
विज्ञानं मे कथं न स्याद्बुबुधे चात्मसंभवम्

१२.२५८.१७जातकर्मणि यत्प्राह पिता यच्चोपकर्मणि
पर्याप्तः स दृढीकारः पितुर्गौरवनिश्चये

१२.२५८.१८गुरुरग्र्यः परो धर्मः पोषणाध्ययनाद्धितः
पिता यदाह धर्मः स वेदेष्वपि सुनिश्चितः

१२.२५८.१९प्रीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता
शरीरादीनि देयानि पिता त्वेकः प्रयच्छति

१२.२५८.२०तस्मात्पितुर्वचः कार्यं न विचार्यं कथंचन
पातकान्यपि पूयन्ते पितुर्वचनकारिणः

१२.२५८.२१भोगे भाग्ये प्रसवने सर्वलोकनिदर्शने
भर्त्रा चैव समायोगे सीमन्तोन्नयने तथा

१२.२५८.२२पिता स्वर्गः पिता धर्मः पिता परमकं तपः
पितरि प्रीतिमापन्ने सर्वाः प्रीयन्ति देवताः

१२.२५८.२३आशिषस्ता भजन्त्येनं पुरुषं प्राह याः पिता
निष्कृतिः सर्वपापानां पिता यदभिनन्दति

१२.२५८.२४मुच्यते बन्धनात्पुष्पं फलं वृन्तात्प्रमुच्यते
क्लिश्यन्नपि सुतस्नेहैः पिता स्नेहं न मुञ्चति

१२.२५८.२५एतद्विचिन्तितं तावत्पुत्रस्य पितृगौरवम्
पिता ह्यल्पतरं स्थानं चिन्तयिष्यामि मातरम्

१२.२५८.२६यो ह्ययं मयि संघातो मर्त्यत्वे पाञ्चभौतिकः
अस्य मे जननी हेतुः पावकस्य यथारणिः
माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः

१२.२५८.२७न च शोचति नाप्येनं स्थाविर्यमपकर्षति
श्रिया हीनोऽपि यो गेहे अम्बेति प्रतिपद्यते

१२.२५८.२८पुत्रपौत्रसमाकीर्णो जननीं यः समाश्रितः
अपि वर्षशतस्यान्ते स द्विहायनवच्चरेत्

१२.२५८.२९समर्थं वासमर्थं वा कृशं वाप्यकृशं तथा
रक्षत्येव सुतं माता नान्यः पोष्टा विधानतः

१२.२५८.३०तदा स वृद्धो भवति यदा भवति दुःखितः
तदा शून्यं जगत्तस्य यदा मात्रा वियुज्यते

१२.२५८.३१नास्ति मातृसमा छाया नास्ति मातृसमा गतिः
नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रपा

१२.२५८.३२कुक्षिसंधारणाद्धात्री जननाज्जननी स्मृता
अङ्गानां वर्धनादम्बा वीरसूत्वेन वीरसूः

१२.२५८.३३शिशोः शुश्रूषणाच्छुश्रूर्माता देहमनन्तरम्
चेतनावान्नरो हन्याद्यस्य नासुषिरं शिरः

१२.२५८.३४दम्पत्योः प्राणसंश्लेषे योऽभिसंधिः कृतः किल
तं माता वा पिता वेद भूतार्थो मातरि स्थितः

१२.२५८.३५माता जानाति यद्गोत्रं माता जानाति यस्य सः
मातुर्भरणमात्रेण प्रीतिः स्नेहः पितुः प्रजाः

१२.२५८.३६पाणिबन्धं स्वयं कृत्वा सहधर्ममुपेत्य च
यदि याप्यन्ति पुरुषाः स्त्रियो नार्हन्ति याप्यताम्

१२.२५८.३७भरणाद्धि स्त्रियो भर्ता पात्याच्चैव स्त्रियाः पतिः
गुणस्यास्य निवृत्तौ तु न भर्ता न पतिः पतिः

१२.२५८.३८एवं स्त्री नापराध्नोति नर एवापराध्यति
व्युच्चरंश्च महादोषं नर एवापराध्यति

१२.२५८.३९स्त्रिया हि परमो भर्ता दैवतं परमं स्मृतम्
तस्यात्मना तु सदृशमात्मानं परमं ददौ
सर्वकार्यापराध्यत्वान्नापराध्यन्ति चाङ्गनाः

१२.२५८.४०यश्चनोक्तो हि निर्देशः स्त्रिया मैथुनतृप्तये
तस्य स्मारयतो व्यक्तमधर्मो नात्र संशयः

१२.२५८.४१यावन्नारीं मातरं च गौरवे चाधिके स्थिताम्
अवध्यां तु विजानीयुः पशवोऽप्यविचक्षणाः

१२.२५८.४२देवतानां समावायमेकस्थं पितरं विदुः
मर्त्यानां देवतानां च स्नेहादभ्येति मातरम्

१२.२५८.४३एवं विमृशतस्तस्य चिरकारितया बहु
दीर्घः कालो व्यतिक्रान्तस्ततस्तस्यागमत्पिता

१२.२५८.४४मेधातिथिर्महाप्राज्ञो गौतमस्तपसि स्थितः
विमृश्य तेन कालेन पत्न्याः संस्थाव्यतिक्रमम्

१२.२५८.४५सोऽब्रवीद्दुःखसंतप्तो भृशमश्रूणि वर्तयन्
श्रुतधैर्यप्रसादेन पश्चात्तापमुपागतः

१२.२५८.४६आश्रमं मम संप्राप्तस्त्रिलोकेशः पुरंदरः
अतिथिव्रतमास्थाय ब्राह्मणं रूपमास्थितः

१२.२५८.४७समया सान्त्वितो वाग्भिः स्वागतेनाभिपूजितः
अर्घ्यं पाद्यं च न्यायेन तयाभिप्रतिपादितः

१२.२५८.४८परवत्यस्मि चाप्युक्तः प्रणयिष्ये नयेन च
अत्र चाकुशले जाते स्त्रियो नास्ति व्यतिक्रमः

१२.२५८.४९एवं न स्त्री न चैवाहं नाध्वगस्त्रिदशेश्वरः
अपराध्यति धर्मस्य प्रमादस्त्वपराध्यति

१२.२५८.५०ईर्ष्याजं व्यसनं प्राहुस्तेन चैवोर्ध्वरेतसः
ईर्ष्यया त्वहमाक्षिप्तो मग्नो दुष्कृतसागरे

१२.२५८.५१हत्वा साध्वीं च नारीं च व्यसनित्वाच्च शासिताम्
भर्तव्यत्वेन भार्यां च को नु मां तारयिष्यति

१२.२५८.५२अन्तरेण मयाज्ञप्तश्चिरकारी ह्युदारधीः
यद्यद्य चिरकारी स्यात्स मां त्रायेत पातकात्

१२.२५८.५३चिरकारिक भद्रं ते भद्रं ते चिरकारिक
यद्यद्य चिरकारी त्वं ततोऽसि चिरकारिकः

१२.२५८.५४त्राहि मां मातरं चैव तपो यच्चार्जितं मया
आत्मानं पातकेभ्यश्च भवाद्य चिरकारिकः

१२.२५८.५५सहजं चिरकारित्वं चिरप्राज्ञतया तव
सफलं तत्तवाद्यास्तु भवाद्य चिरकारिकः

१२.२५८.५६चिरमाशंसितो मात्रा चिरं गर्भेण धारितः
सफलं चिरकारित्वं कुरु त्वं चिरकारिक

१२.२५८.५७चिरायते च संतापाच्चिरं स्वपिति वारितः
आवयोश्चिरसंतापादवेक्ष्य चिरकारिक

१२.२५८.५८एवं स दुःखितो राजन्महर्षिर्गौतमस्तदा
चिरकारिं ददर्शाथ पुत्रं स्थितमथान्तिके

१२.२५८.५९चिरकारी तु पितरं दृष्ट्वा परमदुःखितः
शस्त्रं त्यक्त्वा ततो मूर्ध्ना प्रसादायोपचक्रमे

१२.२५८.६०गौतमस्तु सुतं दृष्ट्वा शिरसा पतितं भुवि
पत्नीं चैव निराकारां परामभ्यगमन्मुदम्

१२.२५८.६१न हि सा तेन संभेदं पत्नी नीता महात्मना
विजने चाश्रमस्थेन पुत्रश्चापि समाहितः

१२.२५८.६२हन्यात्त्वनपवादेन शस्त्रपाणौ सुते स्थिते
विनीतं प्रश्नयित्वा च व्यवस्येदात्मकर्मसु

१२.२५८.६३बुद्धिश्चासीत्सुतं दृष्ट्वा पितुश्चरणयोर्नतम्
शस्त्रग्रहणचापल्यं संवृणोति भयादिति

१२.२५८.६४ततः पित्रा चिरं स्तुत्वा चिरं चाघ्राय मूर्धनि
चिरं दोर्भ्यां परिष्वज्य चिरं जीवेत्युदाहृतः

१२.२५८.६५एवं स गौतमः पुत्रं प्रीतिहर्षसमन्वितः
अभिनन्द्य महाप्राज्ञ इदं वचनमब्रवीत्

१२.२५८.६६चिरकारिक भद्रं ते चिरकारी चिरं भव
चिरायमाणे त्वयि च चिरमस्मि सुदुःखितः

१२.२५८.६७गाथाश्चाप्यब्रवीद्विद्वान्गौतमो मुनिसत्तमः
चिरकारिषु धीरेषु गुणोद्देशसमाश्रयात्

१२.२५८.६८चिरेण मित्रं बध्नीयाच्चिरेण च कृतं त्यजेत्
चिरेण हि कृतं मित्रं चिरं धारणमर्हति

१२.२५८.६९रागे दर्पे च माने च द्रोहे पापे च कर्मणि
अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते

१२.२५८.७०बन्धूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च
अव्यक्तेष्वपराधेषु चिरकारी प्रशस्यते

१२.२५८.७१एवं स गौतमस्तस्य प्रीतः पुत्रस्य भारत
कर्मणा तेन कौरव्य चिरकारितया तया

१२.२५८.७२एवं सर्वेषु कार्येषु विमृश्य पुरुषस्ततः
चिरेण निश्चयं कृत्वा चिरं न परितप्यते

१२.२५८.७३चिरं धारयते रोषं चिरं कर्म नियच्छति
पश्चात्तापकरं कर्म न किंचिदुपपद्यते

१२.२५८.७४चिरं वृद्धानुपासीत चिरमन्वास्य पूजयेत्
चिरं धर्मान्निषेवेत कुर्याच्चान्वेषणं चिरम्

१२.२५८.७५चिरमन्वास्य विदुषश्चिरं शिष्टान्निषेव्य च
चिरं विनीय चात्मानं चिरं यात्यनवज्ञताम्

१२.२५८.७६ब्रुवतश्च परस्यापि वाक्यं धर्मोपसंहितम्
चिरं पृच्छेच्चिरं ब्रूयाच्चिरं न परिभूयते

१२.२५८.७७उपास्य बहुलास्तस्मिन्नाश्रमे सुमहातपाः
समाः स्वर्गं गतो विप्रः पुत्रेण सहितस्तदा