१२.२५९.१युधिष्ठिर उवाच
१२.२५९.२कथं राजा प्रजा रक्षेन्न च किंचित्प्रतापयेत्
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह
१२.२५९.३भीष्म उवाच
१२.२५९.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
द्युमत्सेनस्य संवादं राज्ञा सत्यवता सह
१२.२५९.५अव्याहृतं व्याजहार सत्यवानिति नः श्रुतम्
वधाय नीयमानेषु पितुरेवानुशासनात्
१२.२५९.६अधर्मतां याति धर्मो यात्यधर्मश्च धर्मताम्
वधो नाम भवेद्धर्मो नैतद्भवितुमर्हति
१२.२५९.७द्युमत्सेन उवाच
१२.२५९.८अथ चेदवधो धर्मो धर्मः को जातु चिद्भवेत्
दस्यवश्चेन्न हन्येरन्सत्यवन्संकरो भवेत्
१२.२५९.९ममेदमिति नास्यैतत्प्रवर्तेत कलौ युगे
लोकयात्रा न चैव स्यादथ चेद्वेत्थ शंस नः
१२.२५९.१०सत्यवानुवाच
१२.२५९.११सर्व एव त्रयो वर्णाः कार्या ब्राह्मणबन्धनाः
धर्मपाशनिबद्धानामल्पो व्यपचरिष्यति
१२.२५९.१२यो यस्तेषामपचरेत्तमाचक्षीत वै द्विजः
अयं मे न शृणोतीति तस्मिन्राजा प्रधारयेत्
१२.२५९.१३तत्त्वाभेदेन यच्छास्त्रं तत्कार्यं नान्यथा वधः
असमीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि
१२.२५९.१४दस्यून्हिनस्ति वै राजा भूयसो वाप्यनागसः
भार्या माता पिता पुत्रो हन्यते पुरुषे हते
परेणापकृते राजा तस्मात्सम्यक्प्रधारयेत्
१२.२५९.१५असाधुश्चैव पुरुषो लभते शीलमेकदा
साधोश्चापि ह्यसाधुभ्यो जायतेऽशोभना प्रजा
१२.२५९.१६न मूलघातः कर्तव्यो नैष धर्मः सनातनः
अपि खल्ववधेनैव प्रायश्चित्तं विधीयते
१२.२५९.१७उद्वेजनेन बन्धेन विरूपकरणेन च
वधदण्डेन ते क्लेश्या न पुरोऽहितसंपदा
१२.२५९.१८यदा पुरोहितं वा ते पर्येयुः शरणैषिणः
करिष्यामः पुनर्ब्रह्मन्न पापमिति वादिनः
१२.२५९.१९तदा विसर्गमर्हाः स्युरितीदं नृपशासनम्
बिभ्रद्दण्डाजिनं मुण्डो ब्राह्मणोऽर्हति वासनम्
१२.२५९.२०गरीयांसो गरीयांसमपराधे पुनः पुनः
तथा विसर्गमर्हन्ति न यथा प्रथमे तथा
१२.२५९.२१द्युमत्सेन उवाच
१२.२५९.२२यत्र यत्रैव शक्येरन्संयन्तुं समये प्रजाः
स तावत्प्रोच्यते धर्मो यावन्न प्रतिलङ्घ्यते
१२.२५९.२३अहन्यमानेषु पुनः सर्वमेव पराभवेत्
पूर्वे पूर्वतरे चैव सुशास्या अभवञ्जनाः
१२.२५९.२४मृदवः सत्यभूयिष्ठा अल्पद्रोहाल्पमन्यवः
पुरा धिग्दण्ड एवासीद्वाग्दण्डस्तदनन्तरम्
१२.२५९.२५आसीदादानदण्डोऽपि वधदण्डोऽद्य वर्तते
वधेनापि न शक्यन्ते नियन्तुमपरे जनाः
१२.२५९.२६नैव दस्युर्मनुष्याणां न देवानामिति श्रुतिः
न गन्धर्वपितॄणां च कः कस्येह न कश्चन
१२.२५९.२७पद्मं श्मशानादादत्ते पिशाचाच्चापि दैवतम्
तेषु यः समयं कुर्यादज्ञेषु हतबुद्धिषु
१२.२५९.२८सत्यवानुवाच
१२.२५९.२९तान्न शक्नोषि चेत्साधून्परित्रातुमहिंसया
कस्यचिद्भूतभव्यस्य लाभेनान्तं तथा कुरु
१२.२५९.३०द्युमत्सेन उवाच
१२.२५९.३१राजानो लोकयात्रार्थं तप्यन्ते परमं तपः
अपत्रपन्ति तादृग्भ्यस्तथावृत्ता भवन्ति च
१२.२५९.३२वित्रास्यमानाः सुकृतो न कामाद्घ्नन्ति दुष्कृतीन्
सुकृतेनैव राजानो भूयिष्ठं शासते प्रजाः
१२.२५९.३३श्रेयसः श्रेयसीमेवं वृत्तिं लोकोऽनुवर्तते
सदैव हि गुरोर्वृत्तमनुवर्तन्ति मानवाः
१२.२५९.३४आत्मानमसमाधाय समाधित्सति यः परान्
विषयेष्विन्द्रियवशं मानवाः प्रहसन्ति तम्
१२.२५९.३५यो राज्ञो दम्भमोहेन किंचित्कुर्यादसांप्रतम्
सर्वोपायैर्नियम्यः स तथा पापान्निवर्तते
१२.२५९.३६आत्मैवादौ नियन्तव्यो दुष्कृतं संनियच्छता
दण्डयेच्च महादण्डैरपि बन्धूननन्तरान्
१२.२५९.३७यत्र वै पापकृत्क्लेश्यो न महद्दुःखमर्छति
वर्धन्ते तत्र पापानि धर्मो ह्रसति च ध्रुवम्
इति कारुण्यशीलस्तु विद्वान्वै ब्राह्मणोऽन्वशात्
१२.२५९.३८इति चैवानुशिष्टोऽस्मि पूर्वैस्तात पितामहैः
आश्वासयद्भिः सुभृशमनुक्रोशात्तथैव च
१२.२५९.३९एतत्प्रथमकल्पेन राजा कृतयुगेऽभजत्
पादोनेनापि धर्मेण गच्छेत्त्रेतायुगे तथा
द्वापरे तु द्विपादेन पादेन त्वपरे युगे
१२.२५९.४०तथा कलियुगे प्राप्ते राज्ञां दुश्चरितेन ह
भवेत्कालविशेषेण कला धर्मस्य षोडशी
१२.२५९.४१अथ प्रथमकल्पेन सत्यवन्संकरो भवेत्
आयुः शक्तिं च कालं च निर्दिश्य तप आदिशेत्
१२.२५९.४२सत्याय हि यथा नेह जह्याद्धर्मफलं महत्
भूतानामनुकम्पार्थं मनुः स्वायंभुवोऽब्रवीत्