१२.२६.१वैशंपायन उवाच
१२.२६.२द्वैपायनवचः श्रुत्वा कुपिते च धनंजये
व्यासमामन्त्र्य कौन्तेयः प्रत्युवाच युधिष्ठिरः
१२.२६.३न पार्थिवमिदं राज्यं न च भोगाः पृथग्विधाः
प्रीणयन्ति मनो मेऽद्य शोको मां नर्दयत्ययम्
१२.२६.४श्रुत्वा च वीरहीनानामपुत्राणां च योषिताम्
परिदेवयमानानां शान्तिं नोपलभे मुने
१२.२६.५इत्युक्तः प्रत्युवाचेदं व्यासो योगविदां वरः
युधिष्ठिरं महाप्राज्ञं धर्मज्ञो वेदपारगः
१२.२६.६न कर्मणा लभ्यते चिन्तया वा; नाप्यस्य दाता पुरुषस्य कश्चित्
पर्याययोगाद्विहितं विधात्रा; कालेन सर्वं लभते मनुष्यः
१२.२६.७न बुद्धिशास्त्राध्ययनेन शक्यं; प्राप्तुं विशेषैर्मनुजैरकाले
मूर्खोऽपि प्राप्नोति कदाचिदर्था;न्कालो हि कार्यं प्रति निर्विशेषः
१२.२६.८नाभूतिकाले च फलं ददाति; शिल्पं न मन्त्राश्च तथौषधानि
तान्येव कालेन समाहितानि; सिध्यन्ति चेध्यन्ति च भूतिकाले
१२.२६.९कालेन शीघ्राः प्रविवान्ति वाताः; कालेन वृष्टिर्जलदानुपैति
कालेन पद्मोत्पलवज्जलं च; कालेन पुष्यन्ति नगा वनेषु
१२.२६.१०कालेन कृष्णाश्च सिताश्च रात्र्यः; कालेन चन्द्रः परिपूर्णबिम्बः
नाकालतः पुष्पफलं नगानां; नाकालवेगाः सरितो वहन्ति
१२.२६.११नाकालमत्ताः खगपन्नगाश्च; मृगद्विपाः शैलमहाग्रहाश्च
नाकालतः स्त्रीषु भवन्ति गर्भा; नायान्त्यकाले शिशिरोष्णवर्षाः
१२.२६.१२नाकालतो म्रियते जायते वा; नाकालतो व्याहरते च बालः
नाकालतो यौवनमभ्युपैति; नाकालतो रोहति बीजमुप्तम्
१२.२६.१३नाकालतो भानुरुपैति योगं; नाकालतोऽस्तं गिरिमभ्युपैति
नाकालतो वर्धते हीयते च; चन्द्रः समुद्रश्च महोर्मिमाली
१२.२६.१४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गीतं राज्ञा सेनजिता दुःखार्तेन युधिष्ठिर
१२.२६.१५सर्वानेवैष पर्यायो मर्त्यान्स्पृशति दुस्तरः
कालेन परिपक्वा हि म्रियन्ते सर्वमानवाः
१२.२६.१६घ्नन्ति चान्यान्नरा राजंस्तानप्यन्ये नरास्तथा
संज्ञैषा लौकिकी राजन्न हिनस्ति न हन्यते
१२.२६.१७हन्तीति मन्यते कश्चिन्न हन्तीत्यपि चापरे
स्वभावतस्तु नियतौ भूतानां प्रभवाप्ययौ
१२.२६.१८नष्टे धने वा दारे वा पुत्रे पितरि वा मृते
अहो कष्टमिति ध्यायञ्शोकस्यापचितिं चरेत्
१२.२६.१९स किं शोचसि मूढः सञ्शोच्यः किमनुशोचसि
पश्य दुःखेषु दुःखानि भयेषु च भयान्यपि
१२.२६.२०आत्मापि चायं न मम सर्वापि पृथिवी मम
यथा मम तथान्येषामिति पश्यन्न मुह्यति
१२.२६.२१शोकस्थानसहस्राणि हर्षस्थानशतानि च
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्
१२.२६.२२एवमेतानि कालेन प्रियद्वेष्याणि भागशः
जीवेषु परिवर्तन्ते दुःखानि च सुखानि च
१२.२६.२३दुःखमेवास्ति न सुखं तस्मात्तदुपलभ्यते
तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम्
१२.२६.२४सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्
न नित्यं लभते दुःखं न नित्यं लभते सुखम्
१२.२६.२५सुखमन्ते हि दुःखानां दुःखमन्ते सुखस्य च
तस्मादेतद्द्वयं जह्याद्य इच्छेच्छाश्वतं सुखम्
१२.२६.२६यन्निमित्तं भवेच्छोकस्तापो वा दुःखमूर्छितः
आयासो वापि यन्मूलस्तदेकाङ्गमपि त्यजेत्
१२.२६.२७सुखं वा यदि वा दुःखं प्रियं वा यदि वाप्रियम्
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः
१२.२६.२८ईषदप्यङ्ग दाराणां पुत्राणां वा चराप्रियम्
ततो ज्ञास्यसि कः कस्य केन वा कथमेव वा
१२.२६.२९ये च मूढतमा लोके ये च बुद्धेः परं गताः
त एव सुखमेधन्ते मध्यः क्लेशेन युज्यते
१२.२६.३०इत्यब्रवीन्महाप्राज्ञो युधिष्ठिर स सेनजित्
परावरज्ञो लोकस्य धर्मवित्सुखदुःखवित्
१२.२६.३१सुखी परस्य यो दुःखे न जातु स सुखी भवेत्
दुःखानां हि क्षयो नास्ति जायते ह्यपरात्परम्
१२.२६.३२सुखं च दुःखं च भवाभवौ च; लाभालाभौ मरणं जीवितं च
पर्यायशः सर्वमिह स्पृशन्ति; तस्माद्धीरो नैव हृष्येन्न कुप्येत्
१२.२६.३३दीक्षां यज्ञे पालनं युद्धमाहु;र्योगं राष्ट्रे दण्डनीत्या च सम्यक्
वित्तत्यागं दक्षिणानां च यज्ञे; सम्यग्ज्ञानं पावनानीति विद्यात्
१२.२६.३४रक्षन्राष्ट्रं बुद्धिपूर्वं नयेन; संत्यक्तात्मा यज्ञशीलो महात्मा
सर्वाँल्लोकान्धर्ममूर्त्या चरंश्चा;प्यूर्ध्वं देहान्मोदते देवलोके
१२.२६.३५जित्वा संग्रामान्पालयित्वा च राष्ट्रं; सोमं पीत्वा वर्धयित्वा प्रजाश्च
युक्त्या दण्डं धारयित्वा प्रजानां; युद्धे क्षीणो मोदते देवलोके
१२.२६.३६सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य; सम्यग्राष्ट्रं पालयित्वा च राजा
चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे; पूतात्मा वै मोदते देवलोके
१२.२६.३७यस्य वृत्तं नमस्यन्ति स्वर्गस्थस्यापि मानवाः
पौरजानपदामात्याः स राजा राजसत्तमः