१२. शान्तिपर्व
१२.२६१.१कपिल उवाच

१२.२६१.२एतावदनुपश्यन्तो यतयो यान्ति मार्गगाः
नैषां सर्वेषु लोकेषु कश्चिदस्ति व्यतिक्रमः

१२.२६१.३निर्द्वंद्वा निर्नमस्कारा निराशीर्बन्धना बुधाः
विमुक्ताः सर्वपापेभ्यश्चरन्ति शुचयोऽमलाः

१२.२६१.४अपवर्गेऽथ संत्यागे बुद्धौ च कृतनिश्चयाः
ब्रह्मिष्ठा ब्रह्मभूताश्च ब्रह्मण्येव कृतालयाः

१२.२६१.५विशोका नष्टरजसस्तेषां लोकाः सनातनाः
तेषां गतिं परां प्राप्य गार्हस्थ्ये किं प्रयोजनम्

१२.२६१.६स्यूमरश्मिरुवाच

१२.२६१.७यद्येषा परमा निष्ठा यद्येषा परमा गतिः
गृहस्थानव्यपाश्रित्य नाश्रमोऽन्यः प्रवर्तते

१२.२६१.८यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः
एवं गृहस्थमाश्रित्य वर्तन्त इतरेऽऽश्रमाः

१२.२६१.९गृहस्थ एव यजते गृहस्थस्तप्यते तपः
गार्हस्थ्यमस्य धर्मस्य मूलं यत्किंचिदेजते

१२.२६१.१०प्रजनाद्ध्यभिनिर्वृत्ताः सर्वे प्राणभृतो मुने
प्रजनं चाप्युतान्यत्र न कथंचन विद्यते

१२.२६१.११यास्ताः स्युर्बहिरोषध्यो बह्वरण्यास्तथा द्विज
ओषधिभ्यो बहिर्यस्मात्प्राणी कश्चिन्न विद्यते
कस्यैषा वाग्भवेत्सत्या मोक्षो नास्ति गृहादिति

१२.२६१.१२अश्रद्दधानैरप्राज्ञैः सूक्ष्मदर्शनवर्जितैः
निराशैरलसैः श्रान्तैस्तप्यमानैः स्वकर्मभिः
श्रमस्योपरमो दृष्टः प्रव्रज्या नाम पण्डितैः

१२.२६१.१३त्रैलोक्यस्यैव हेतुर्हि मर्यादा शाश्वती ध्रुवा
ब्राह्मणो नाम भगवाञ्जन्मप्रभृति पूज्यते

१२.२६१.१४प्राग्गर्भाधानान्मन्त्रा हि प्रवर्तन्ते द्विजातिषु
अविश्रम्भेषु वर्तन्ते विश्रम्भेष्वप्यसंशयम्

१२.२६१.१५दाहः पुनः संश्रयणे संस्थिते पात्रभोजनम्
दानं गवां पशूनां वा पिण्डानां चाप्सु मज्जनम्

१२.२६१.१६अर्चिष्मन्तो बर्हिषदः क्रव्यादाः पितरः स्मृताः
मृतस्याप्यनुमन्यन्ते मन्त्रा मन्त्राश्च कारणम्

१२.२६१.१७एवं क्रोशत्सु वेदेषु कुतो मोक्षोऽस्ति कस्यचित्
ऋणवन्तो यदा मर्त्याः पितृदेवद्विजातिषु

१२.२६१.१८श्रिया विहीनैरलसैः पण्डितैरपलापितम्
वेदवादापरिज्ञानं सत्याभासमिवानृतम्

१२.२६१.१९न वै पापैर्ह्रियते कृष्यते वा; यो ब्राह्मणो यजते वेदशास्त्रैः
ऊर्ध्वं यज्ञः पशुभिः सार्धमेति; संतर्पितस्तर्पयते च कामैः

१२.२६१.२०न वेदानां परिभवान्न शाठ्येन न मायया
महत्प्राप्नोति पुरुषो ब्रह्म ब्रह्मणि विन्दति

१२.२६१.२१कपिल उवाच

१२.२६१.२२दर्शं च पौर्णमासं च अग्निहोत्रं च धीमताम्
चातुर्मास्यानि चैवासंस्तेषु यज्ञः सनातनः

१२.२६१.२३अनारम्भाः सुधृतयः शुचयो ब्रह्मसंश्रिताः
ब्रह्मणैव स्म ते देवांस्तर्पयन्त्यमृतैषिणः

१२.२६१.२४सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः
देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः

१२.२६१.२५चतुर्द्वारं पुरुषं चतुर्मुखं; चतुर्धा चैनमुपयाति निन्दा
बाहुभ्यां वाच उदरादुपस्था;त्तेषां द्वारं द्वारपालो बुभूषेत्

१२.२६१.२६नाक्षैर्दीव्येन्नाददीतान्यवित्तं; न वायोनीयस्य शृतं प्रगृह्णेत्
क्रुद्धो न चैव प्रहरेत धीमां;स्तथास्य तत्पाणिपादं सुगुप्तम्

१२.२६१.२७नाक्रोशमर्छेन्न मृषा वदेच्च; न पैशुनं जनवादं च कुर्यात्
सत्यव्रतो मितभाषोऽप्रमत्त;स्तथास्य वाग्द्वारमथो सुगुप्तम्

१२.२६१.२८नानाशनः स्यान्न महाशनः स्या;दलोलुपः साधुभिरागतः स्यात्
यात्रार्थमाहारमिहाददीत; तथास्य स्याज्जाठरी द्वारगुप्तिः

१२.२६१.२९न वीरपत्नीं विहरेत नारीं; न चापि नारीमनृतावाह्वयीत
भार्याव्रतं ह्यात्मनि धारयीत; तथास्योपस्थद्वारगुप्तिर्भवेत

१२.२६१.३०द्वाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणः
उपस्थमुदरं बाहू वाक्चतुर्थी स वै द्विजः

१२.२६१.३१मोघान्यगुप्तद्वारस्य सर्वाण्येव भवन्त्युत
किं तस्य तपसा कार्यं किं यज्ञेन किमात्मना

१२.२६१.३२अनुत्तरीयवसनमनुपस्तीर्णशायिनम्
बाहूपधानं शाम्यन्तं तं देवा ब्राह्मणं विदुः

१२.२६१.३३द्वंद्वारामेषु सर्वेषु य एको रमते मुनिः
परेषामननुध्यायंस्तं देवा ब्राह्मणं विदुः

१२.२६१.३४येन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या
गतिज्ञः सर्वभूतानां तं देवा ब्राह्मणं विदुः

१२.२६१.३५अभयं सर्वभूतेभ्यः सर्वेषामभयं यतः
सर्वभूतात्मभूतो यस्तं देवा ब्राह्मणं विदुः

१२.२६१.३६नान्तरेणानुजानन्ति वेदानां यत्क्रियाफलम्
अनुज्ञाय च तत्सर्वमन्यद्रोचयतेऽफलम्

१२.२६१.३७फलवन्ति च कर्माणि व्युष्टिमन्ति ध्रुवाणि च
विगुणानि च पश्यन्ति तथानैकान्तिकानि च

१२.२६१.३८गुणाश्चात्र सुदुर्ज्ञेया ज्ञाताश्चापि सुदुष्कराः
अनुष्ठिताश्चान्तवन्त इति त्वमनुपश्यसि

१२.२६१.३९स्यूमरश्मिरुवाच

१२.२६१.४०यथा च वेदप्रामाण्यं त्यागश्च सफलो यथा
तौ पन्थानावुभौ व्यक्तौ भगवंस्तद्ब्रवीहि मे

१२.२६१.४१कपिल उवाच

१२.२६१.४२प्रत्यक्षमिह पश्यन्ति भवन्तः सत्पथे स्थिताः
प्रत्यक्षं तु किमत्रास्ति यद्भवन्त उपासते

१२.२६१.४३स्यूमरश्मिरुवाच

१२.२६१.४४स्यूमरश्मिरहं ब्रह्मञ्जिज्ञासार्थमिहागतः
श्रेयस्कामः प्रत्यवोचमार्जवान्न विवक्षया
इमं च संशयं घोरं भगवान्प्रब्रवीतु मे

१२.२६१.४५प्रत्यक्षमिह पश्यन्तो भवन्तः सत्पथे स्थिताः
किमत्र प्रत्यक्षतमं भवन्तो यदुपासते
अन्यत्र तर्कशास्त्रेभ्य आगमाच्च यथागमम्

१२.२६१.४६आगमो वेदवादस्तु तर्कशास्त्राणि चागमः
यथागममुपासीत आगमस्तत्र सिध्यति
सिद्धिः प्रत्यक्षरूपा च दृश्यत्यागमनिश्चयात्

१२.२६१.४७नौर्नावीव निबद्धा हि स्रोतसा सनिबन्धना
ह्रियमाणा कथं विप्र कुबुद्धींस्तारयिष्यति
एतद्ब्रवीतु भगवानुपपन्नोऽस्म्यधीहि भोः

१२.२६१.४८नैव त्यागी न संतुष्टो नाशोको न निरामयः
न निर्विवित्सो नावृत्तो नापवृत्तोऽस्ति कश्चन

१२.२६१.४९भवन्तोऽपि च हृष्यन्ति शोचन्ति च यथा वयम्
इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु

१२.२६१.५०एवं चतुर्णां वर्णानामाश्रमाणां प्रवृत्तिषु
एकमालम्बमानानां निर्णये किं निरामयम्

१२.२६१.५१कपिल उवाच

१२.२६१.५२यद्यदाचरते शास्त्रमथ सर्वप्रवृत्तिषु
यस्य यत्र ह्यनुष्ठानं तत्र तत्र निरामयम्

१२.२६१.५३सर्वं पावयते ज्ञानं यो ज्ञानं ह्यनुवर्तते
ज्ञानादपेत्य या वृत्तिः सा विनाशयति प्रजाः

१२.२६१.५४भवन्तो ज्ञानिनो नित्यं सर्वतश्च निरागमाः
ऐकात्म्यं नाम कश्चिद्धि कदाचिदभिपद्यते

१२.२६१.५५शास्त्रं ह्यबुद्ध्वा तत्त्वेन केचिद्वादबला जनाः
कामद्वेषाभिभूतत्वादहंकारवशं गताः

१२.२६१.५६याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः
ब्रह्मस्तेना निरारम्भा अपक्वमतयोऽशिवाः

१२.२६१.५७वैगुण्यमेव पश्यन्ति न गुणाननुयुञ्जते
तेषां तमःशरीराणां तम एव परायणम्

१२.२६१.५८यो यथाप्रकृतिर्जन्तुः प्रकृतेः स्याद्वशानुगः
तस्य द्वेषश्च कामश्च क्रोधो दम्भोऽनृतं मदः
नित्यमेवाभिवर्तन्ते गुणाः प्रकृतिसंभवाः

१२.२६१.५९एतद्बुद्ध्यानुपश्यन्तः संत्यजेयुः शुभाशुभम्
परां गतिमभीप्सन्तो यतयः संयमे रताः

१२.२६१.६०स्यूमरश्मिरुवाच

१२.२६१.६१सर्वमेतन्मया ब्रह्मञ्शास्त्रतः परिकीर्तितम्
न ह्यविज्ञाय शास्त्रार्थं प्रवर्तन्ते प्रवृत्तयः

१२.२६१.६२यः कश्चिन्न्याय्य आचारः सर्वं शास्त्रमिति श्रुतिः
यदन्याय्यमशास्त्रं तदित्येषा श्रूयते श्रुतिः

१२.२६१.६३न प्रवृत्तिरृते शास्त्रात्काचिदस्तीति निश्चयः
यदन्यद्वेदवादेभ्यस्तदशास्त्रमिति श्रुतिः

१२.२६१.६४शास्त्रादपेतं पश्यन्ति बहवो व्यक्तमानिनः
शास्त्रदोषान्न पश्यन्ति इह चामुत्र चापरे
अविज्ञानहतप्रज्ञा हीनप्रज्ञास्तमोवृताः

१२.२६१.६५शक्यं त्वेकेन मुक्तेन कृतकृत्येन सर्वशः
पिण्डमात्रं व्यपाश्रित्य चरितुं सर्वतोदिशम्
वेदवादं व्यपाश्रित्य मोक्षोऽस्तीति प्रभाषितुम्

१२.२६१.६६इदं तु दुष्करं कर्म कुटुम्बमभिसंश्रितम्
दानमध्ययनं यज्ञः प्रजासंतानमार्जवम्

१२.२६१.६७यद्येतदेवं कृत्वापि न विमोक्षोऽस्ति कस्यचित्
धिक्कर्तारं च कार्यं च श्रमश्चायं निरर्थकः

१२.२६१.६८नास्तिक्यमन्यथा च स्याद्वेदानां पृष्ठतःक्रिया
एतस्यानन्त्यमिच्छामि भगवञ्श्रोतुमञ्जसा

१२.२६१.६९तथ्यं वदस्व मे ब्रह्मन्नुपसन्नोऽस्म्यधीहि भोः
यथा ते विदितो मोक्षस्तथेच्छाम्युपशिक्षितुम्