१२.२६०.१युधिष्ठिर उवाच
१२.२६०.२अविरोधेन भूतानां त्यागः षाड्गुण्यकारकः
यः स्यादुभयभाग्धर्मस्तन्मे ब्रूहि पितामह
१२.२६०.३गार्हस्थ्यस्य च धर्मस्य त्यागधर्मस्य चोभयोः
अदूरसंप्रस्थितयोः किं स्विच्छ्रेयः पितामह
१२.२६०.४भीष्म उवाच
१२.२६०.५उभौ धर्मौ महाभागावुभौ परमदुश्चरौ
उभौ महाफलौ तात सद्भिराचरितावुभौ
१२.२६०.६अत्र ते वर्तयिष्यामि प्रामाण्यमुभयोस्तयोः
शृणुष्वैकमनाः पार्थ छिन्नधर्मार्थसंशयम्
१२.२६०.७अत्राप्युदाहरन्तीममितिहासं पुरातनम्
कपिलस्य गोश्च संवादं तन्निबोध युधिष्ठिर
१२.२६०.८आम्नायमनुपश्यन्हि पुराणं शाश्वतं ध्रुवम्
नहुषः पूर्वमालेभे त्वष्टुर्गामिति नः श्रुतम्
१२.२६०.९तां नियुक्तामदीनात्मा सत्त्वस्थः समये रतः
ज्ञानवान्नियताहारो ददर्श कपिलस्तदा
१२.२६०.१०स बुद्धिमुत्तमां प्राप्तो नैष्ठिकीमकुतोभयाम्
स्मरामि शिथिलं सत्यं वेदा इत्यब्रवीत्सकृत्
१२.२६०.११तां गामृषिः स्यूमरश्मिः प्रविश्य यतिमब्रवीत्
हंहो वेदा यदि मता धर्माः केनापरे मताः
१२.२६०.१२तपस्विनो धृतिमतः श्रुतिविज्ञानचक्षुषः
सर्वमार्षं हि मन्यन्ते व्याहृतं विदितात्मनः
१२.२६०.१३तस्यैवं गततृष्णस्य विज्वरस्य निराशिषः
का विवक्षास्ति वेदेषु निरारम्भस्य सर्वशः
१२.२६०.१४कपिल उवाच
१२.२६०.१५नाहं वेदान्विनिन्दामि न विवक्षामि कर्हिचित्
पृथगाश्रमिणां कर्माण्येकार्थानीति नः श्रुतम्
१२.२६०.१६गच्छत्येव परित्यागी वानप्रस्थश्च गच्छति
गृहस्थो ब्रह्मचारी च उभौ तावपि गच्छतः
१२.२६०.१७देवयाना हि पन्थानश्चत्वारः शाश्वता मताः
तेषां ज्यायःकनीयस्त्वं फलेषूक्तं बलाबलम्
१२.२६०.१८एवं विदित्वा सर्वार्थानारभेदिति वैदिकम्
नारभेदिति चान्यत्र नैष्ठिकी श्रूयते श्रुतिः
१२.२६०.१९अनारम्भे ह्यदोषः स्यादारम्भेऽदोष उत्तमः
एवं स्थितस्य शास्त्रस्य दुर्विज्ञेयं बलाबलम्
१२.२६०.२०यद्यत्र किंचित्प्रत्यक्षमहिंसायाः परं मतम्
ऋते त्वागमशास्त्रेभ्यो ब्रूहि तद्यदि पश्यसि
१२.२६०.२१स्यूमरश्मिरुवाच
१२.२६०.२२स्वर्गकामो यजेतेति सततं श्रूयते श्रुतिः
फलं प्रकल्प्य पूर्वं हि ततो यज्ञः प्रतायते
१२.२६०.२३अजश्चाश्वश्च मेषश्च गौश्च पक्षिगणाश्च ये
ग्राम्यारण्या ओषधयः प्राणस्यान्नमिति श्रुतिः
१२.२६०.२४तथैवान्नं ह्यहरहः सायं प्रातर्निरुप्यते
पशवश्चाथ धान्यं च यज्ञस्याङ्गमिति श्रुतिः
१२.२६०.२५एतानि सह यज्ञेन प्रजापतिरकल्पयत्
तेन प्रजापतिर्देवान्यज्ञेनायजत प्रभुः
१२.२६०.२६ते स्मान्योन्यंचराः सर्वे प्राणिनः सप्त सप्त च
यज्ञेषूपाकृतं विश्वं प्राहुरुत्तमसंज्ञितम्
१२.२६०.२७एतच्चैवाभ्यनुज्ञातं पूर्वैः पूर्वतरैस्तथा
को जातु न विचिन्वीत विद्वान्स्वां शक्तिमात्मनः
१२.२६०.२८पशवश्च मनुष्याश्च द्रुमाश्चौषधिभिः सह
स्वर्गमेवाभिकाङ्क्षन्ते न च स्वर्गस्त्वृते मखम्
१२.२६०.२९ओषध्यः पशवो वृक्षा वीरुदाज्यं पयो दधि
हविर्भूमिर्दिशः श्रद्धा कालश्चैतानि द्वादश
१२.२६०.३०ऋचो यजूंषि सामानि यजमानश्च षोडशः
अग्निर्ज्ञेयो गृहपतिः स सप्तदश उच्यते
अङ्गान्येतानि यज्ञस्य यज्ञो मूलमिति श्रुतिः
१२.२६०.३१आज्येन पयसा दध्ना शकृतामिक्षया त्वचा
वालैः शृङ्गेण पादेन संभवत्येव गौर्मखम्
एवं प्रत्येकशः सर्वं यद्यदस्य विधीयते
१२.२६०.३२यज्ञं वहन्ति संभूय सहर्त्विग्भिः सदक्षिणैः
संहत्यैतानि सर्वाणि यज्ञं निर्वर्तयन्त्युत
१२.२६०.३३यज्ञार्थानि हि सृष्टानि यथा वै श्रूयते श्रुतिः
एवं पूर्वे पूर्वतराः प्रवृत्ताश्चैव मानवाः
१२.२६०.३४न हिनस्ति ह्यारभते नाभिद्रुह्यति किंचन
यज्ञो यष्टव्य इत्येव यो यजत्यफलेप्सया
१२.२६०.३५यज्ञाङ्गान्यपि चैतानि यथोक्तानि नसंशयः
विधिना विधियुक्तानि तारयन्ति परस्परम्
१२.२६०.३६आम्नायमार्षं पश्यामि यस्मिन्वेदाः प्रतिष्ठिताः
तं विद्वांसोऽनुपश्यन्ति ब्राह्मणस्यानुदर्शनात्
१२.२६०.३७ब्राह्मणप्रभवो यज्ञो ब्राह्मणार्पण एव च
अनु यज्ञं जगत्सर्वं यज्ञश्चानु जगत्सदा
१२.२६०.३८ओमिति ब्रह्मणो योनिर्नमः स्वाहा स्वधा वषट्
यस्यैतानि प्रयुज्यन्ते यथाशक्ति कृतान्यपि
१२.२६०.३९न तस्य त्रिषु लोकेषु परलोकभयं विदुः
इति वेदा वदन्तीह सिद्धाश्च परमर्षयः
१२.२६०.४०ऋचो यजूंषि सामानि स्तोभाश्च विधिचोदिताः
यस्मिन्नेतानि सर्वाणि बहिरेव स वै द्विजः
१२.२६०.४१अग्न्याधेये यद्भवति यच्च सोमे सुते द्विज
यच्चेतरैर्महायज्ञैर्वेद तद्भगवान्स्वतः
१२.२६०.४२तस्माद्ब्रह्मन्यजेतैव याजयेच्चाविचारयन्
यजतः स्वर्गविधिना प्रेत्य स्वर्गफलं महत्
१२.२६०.४३नायं लोकोऽस्त्ययज्ञानां परश्चेति विनिश्चयः
वेदवादविदश्चैव प्रमाणमुभयं तदा