१२.२६४.१युधिष्ठिर उवाच
१२.२६४.२बहूनां यज्ञतपसामेकार्थानां पितामह
धर्मार्थं न सुखार्थार्थं कथं यज्ञः समाहितः
१२.२६४.३भीष्म उवाच
१२.२६४.४अत्र ते वर्तयिष्यामि नारदेनानुकीर्तितम्
उञ्छवृत्तेः पुरावृत्तं यज्ञार्थे ब्राह्मणस्य ह
१२.२६४.५राष्ट्रे धर्मोत्तरे श्रेष्ठे विदर्भेष्वभवद्द्विजः
उञ्छवृत्तिरृषिः कश्चिद्यज्ञे यज्ञं समादधे
१२.२६४.६श्यामाकमशनं तत्र सूर्यपत्नी सुवर्चला
तिक्तं च विरसं शाकं तपसा स्वादुतां गतम्
१२.२६४.७उपगम्य वने पृथ्वीं सर्वभूतविहिंसया
अपि मूलफलैरिज्यो यज्ञः स्वर्ग्यः परंतप
१२.२६४.८तस्य भार्या व्रतकृशा शुचिः पुष्करचारिणी
यज्ञपत्नीत्वमानीता सत्येनानुविधीयते
सा तु शापपरित्रस्ता न स्वभावानुवर्तिनी
१२.२६४.९मयूरजीर्णपर्णानां वस्त्रं तस्याश्च पर्णिनाम्
अकामायाः कृतं तत्र यज्ञे होत्रानुमार्गतः
१२.२६४.१०शुक्रस्य पुनराजातिरपध्यानादधर्मवित्
तस्मिन्वने समीपस्थो मृगोऽभूत्सहचारिकः
वचोभिरब्रवीत्सत्यं त्वया दुष्कृतकं कृतम्
१२.२६४.११यदि मन्त्राङ्गहीनोऽयं यज्ञो भवति वैकृतः
मां भोः प्रक्षिप होत्रे त्वं गच्छ स्वर्गमतन्द्रितः
१२.२६४.१२ततस्तु यज्ञे सावित्री साक्षात्तं संन्यमन्त्रयत्
निमन्त्रयन्ती प्रत्युक्ता न हन्यां सहवासिनम्
१२.२६४.१३एवमुक्ता निवृत्ता सा प्रविष्टा यज्ञपावकम्
किं नु दुश्चरितं यज्ञे दिदृक्षुः सा रसातलम्
१२.२६४.१४सा तु बद्धाञ्जलिं सत्यमयाचद्धरिणं पुनः
सत्येन संपरिष्वज्य संदिष्टो गम्यतामिति
१२.२६४.१५ततः स हरिणो गत्वा पदान्यष्टौ न्यवर्तत
साधु हिंसय मां सत्य हतो यास्यामि सद्गतिम्
१२.२६४.१६पश्य ह्यप्सरसो दिव्या मया दत्तेन चक्षुषा
विमानानि विचित्राणि गन्धर्वाणां महात्मनाम्
१२.२६४.१७ततः सुरुचिरं दृष्ट्वा स्पृहालग्नेन चक्षुषा
मृगमालोक्य हिंसायां स्वर्गवासं समर्थयत्
१२.२६४.१८स तु धर्मो मृगो भूत्वा बहुवर्षोषितो वने
तस्य निष्कृतिमाधत्त न ह्यसौ यज्ञसंविधिः
१२.२६४.१९तस्य तेन तु भावेन मृगहिंसात्मनस्तदा
तपो महत्समुच्छिन्नं तस्माद्धिंसा न यज्ञिया
१२.२६४.२०ततस्तं भगवान्धर्मो यज्ञं याजयत स्वयम्
समाधानं च भार्याया लेभे स तपसा परम्
१२.२६४.२१अहिंसा सकलो धर्मो हिंसा यज्ञेऽसमाहिता
सत्यं तेऽहं प्रवक्ष्यामि यो धर्मः सत्यवादिनाम्