१२. शान्तिपर्व
१२.२६५.१युधिष्ठिर उवाच

१२.२६५.२कथं भवति पापात्मा कथं धर्मं करोति वा
केन निर्वेदमादत्ते मोक्षं वा केन गच्छति

१२.२६५.३भीष्म उवाच

१२.२६५.४विदिताः सर्वधर्मास्ते स्थित्यर्थमनुपृच्छसि
शृणु मोक्षं सनिर्वेदं पापं धर्मं च मूलतः

१२.२६५.५विज्ञानार्थं हि पञ्चानामिच्छा पूर्वं प्रवर्तते
प्राप्य ताञ्जायते कामो द्वेषो वा भरतर्षभ

१२.२६५.६ततस्तदर्थं यतते कर्म चारभते पुनः
इष्टानां रूपगन्धानामभ्यासं च चिकीर्षति

१२.२६५.७ततो रागः प्रभवति द्वेषश्च तदनन्तरम्
ततो लोभः प्रभवति मोहश्च तदनन्तरम्

१२.२६५.८लोभमोहाभिभूतस्य रागद्वेषान्वितस्य च
न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च

१२.२६५.९व्याजेन चरतो धर्ममर्थव्याजोऽपि रोचते
व्याजेन सिध्यमानेषु धनेषु कुरुनन्दन

१२.२६५.१०तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति
सुहृद्भिर्वार्यमाणोऽपि पण्डितैश्चापि भारत

१२.२६५.११उत्तरं न्यायसंबद्धं ब्रवीति विधियोजितम्
अधर्मस्त्रिविधस्तस्य वर्धते रागमोहजः

१२.२६५.१२पापं चिन्तयते चैव प्रब्रवीति करोति च
तस्याधर्मप्रवृत्तस्य दोषान्पश्यन्ति साधवः

१२.२६५.१३एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः
स नेह सुखमाप्नोति कुत एव परत्र वै

१२.२६५.१४एवं भवति पापात्मा धर्मात्मानं तु मे शृणु
यथा कुशलधर्मा स कुशलं प्रतिपद्यते

१२.२६५.१५य एतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति
कुशलः सुखदुःखानां साधूंश्चाप्युपसेवते

१२.२६५.१६तस्य साधुसमाचारादभ्यासाच्चैव वर्धते
प्रज्ञा धर्मे च रमते धर्मं चैवोपजीवति

१२.२६५.१७सोऽथ धर्मादवाप्तेषु धनेषु कुरुते मनः
तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै

१२.२६५.१८धर्मात्मा भवति ह्येवं मित्रं च लभते शुभम्
स मित्रधनलाभात्तु प्रेत्य चेह च नन्दति

१२.२६५.१९शब्दे स्पर्शे तथा रूपे रसे गन्धे च भारत
प्रभुत्वं लभते जन्तुर्धर्मस्यैतत्फलं विदुः

१२.२६५.२०स धर्मस्य फलं लब्ध्वा न तृप्यति युधिष्ठिर
अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा

१२.२६५.२१प्रज्ञाचक्षुर्यदा कामे दोषमेवानुपश्यति
विरज्यते तदा कामान्न च धर्मं विमुञ्चति

१२.२६५.२२सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम्
ततो मोक्षाय यतते नानुपायादुपायतः

१२.२६५.२३शनैर्निर्वेदमादत्ते पापं कर्म जहाति च
धर्मात्मा चैव भवति मोक्षं च लभते परम्

१२.२६५.२४एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि
पापं धर्मं तथा मोक्षं निर्वेदं चैव भारत

१२.२६५.२५तस्माद्धर्मे प्रवर्तेथाः सर्वावस्थं युधिष्ठिर
धर्मे स्थितानां कौन्तेय सिद्धिर्भवति शाश्वती