१२. शान्तिपर्व
१२.२८०.१पराशर उवाच

१२.२८०.२मनोरथरथं प्राप्य इन्द्रियार्थहयं नरः
रश्मिभिर्ज्ञानसंभूतैर्यो गच्छति स बुद्धिमान्

१२.२८०.३सेवाश्रितेन मनसा वृत्तिहीनस्य शस्यते
द्विजातिहस्तान्निर्वृत्ता न तु तुल्यात्परस्परम्

१२.२८०.४आयुर्नसुलभं लब्ध्वा नावकर्षेद्विशां पते
उत्कर्षार्थं प्रयतते नरः पुण्येन कर्मणा

१२.२८०.५वर्णेभ्योऽपि परिभ्रष्टः स वै संमानमर्हति
न तु यः सत्क्रियां प्राप्य राजसं कर्म सेवते

१२.२८०.६वर्णोत्कर्षमवाप्नोति नरः पुण्येन कर्मणा
दुर्लभं तमलब्धा हि हन्यात्पापेन कर्मणा

१२.२८०.७अज्ञानाद्धि कृतं पापं तपसैवाभिनिर्णुदेत्
पापं हि कर्म फलति पापमेव स्वयं कृतम्
तस्मात्पापं न सेवेत कर्म दुःखफलोदयम्

१२.२८०.८पापानुबन्धं यत्कर्म यद्यपि स्यान्महाफलम्
न तत्सेवेत मेधावी शुचिः कुसलिलं यथा

१२.२८०.९किंकष्टमनुपश्यामि फलं पापस्य कर्मणः
प्रत्यापन्नस्य हि सतो नात्मा तावद्विरोचते

१२.२८०.१०प्रत्यापत्तिश्च यस्येह बालिशस्य न जायते
तस्यापि सुमहांस्तापः प्रस्थितस्योपजायते

१२.२८०.११विरक्तं शोध्यते वस्त्रं न तु कृष्णोपसंहितम्
प्रयत्नेन मनुष्येन्द्र पापमेवं निबोध मे

१२.२८०.१२स्वयं कृत्वा तु यः पापं शुभमेवानुतिष्ठति
प्रायश्चित्तं नरः कर्तुमुभयं सोऽश्नुते पृथक्

१२.२८०.१३अज्ञानात्तु कृतां हिंसामहिंसा व्यपकर्षति
ब्राह्मणाः शास्त्रनिर्देशादित्याहुर्ब्रह्मवादिनः

१२.२८०.१४तथा कामकृतं चास्य विहिंसैवापकर्षति
इत्याहुर्धर्मशास्त्रज्ञा ब्राह्मणा वेदपारगाः

१२.२८०.१५अहं तु तावत्पश्यामि कर्म यद्वर्तते कृतम्
गुणयुक्तं प्रकाशं च पापेनानुपसंहितम्

१२.२८०.१६यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम्
बुद्धियुक्तानि तानीह कृतानि मनसा सह

१२.२८०.१७भवत्यल्पफलं कर्म सेवितं नित्यमुल्बणम्
अबुद्धिपूर्वं धर्मज्ञ कृतमुग्रेण कर्मणा

१२.२८०.१८कृतानि यानि कर्माणि दैवतैर्मुनिभिस्तथा
नाचरेत्तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत्

१२.२८०.१९संचिन्त्य मनसा राजन्विदित्वा शक्तिमात्मनः
करोति यः शुभं कर्म स वै भद्राणि पश्यति

१२.२८०.२०नवे कपाले सलिलं संन्यस्तं हीयते यथा
नवेतरे तथाभावं प्राप्नोति सुखभावितम्

१२.२८०.२१सतोयेऽन्यत्तु यत्तोयं तस्मिन्नेव प्रसिच्यते
वृद्धे वृद्धिमवाप्नोति सलिले सलिलं यथा

१२.२८०.२२एवं कर्माणि यानीह बुद्धियुक्तानि भूपते
नसमानीह हीनानि तानि पुण्यतमान्यपि

१२.२८०.२३राज्ञा जेतव्याः सायुधाश्चोन्नताश्च; सम्यक्कर्तव्यं पालनं च प्रजानाम्
अग्निश्चेयो बहुभिश्चापि यज्ञै;रन्ते मध्ये वा वनमाश्रित्य स्थेयम्

१२.२८०.२४दमान्वितः पुरुषो धर्मशीलो; भूतानि चात्मानमिवानुपश्येत्
गरीयसः पूजयेदात्मशक्त्या; सत्येन शीलेन सुखं नरेन्द्र