१२.२७९.१युधिष्ठिर उवाच
१२.२७९.२अतः परं महाबाहो यच्छ्रेयस्तद्वदस्व मे
न तृप्याम्यमृतस्येव वचसस्ते पितामह
१२.२७९.३किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम
श्रेयः परमवाप्नोति प्रेत्य चेह च तद्वद
१२.२७९.४भीष्म उवाच
१२.२७९.५अत्र ते वर्तयिष्यामि यथा पूर्वं महायशाः
पराशरं महात्मानं पप्रच्छ जनको नृपः
१२.२७९.६किं श्रेयः सर्वभूतानामस्मिँल्लोके परत्र च
यद्भवेत्प्रतिपत्तव्यं तद्भवान्प्रब्रवीतु मे
१२.२७९.७ततः स तपसा युक्तः सर्वधर्मविधानवित्
नृपायानुग्रहमना मुनिर्वाक्यमथाब्रवीत्
१२.२७९.८धर्म एव कृतः श्रेयानिह लोके परत्र च
तस्माद्धि परमं नास्ति यथा प्राहुर्मनीषिणः
१२.२७९.९प्रतिपद्य नरो धर्मं स्वर्गलोके महीयते
धर्मात्मकः कर्मविधिर्देहिनां नृपसत्तम
तस्मिन्नाश्रमिणः सन्तः स्वकर्माणीह कुर्वते
१२.२७९.१०चतुर्विधा हि लोकस्य यात्रा तात विधीयते
मर्त्या यत्रावतिष्ठन्ते सा च कामात्प्रवर्तते
१२.२७९.११सुकृतासुकृतं कर्म निषेव्य विविधैः क्रमैः
दशार्धप्रविभक्तानां भूतानां बहुधा गतिः
१२.२७९.१२सौवर्णं राजतं वापि यथा भाण्डं निषिच्यते
तथा निषिच्यते जन्तुः पूर्वकर्मवशानुगः
१२.२७९.१३नाबीजाज्जायते किंचिन्नाकृत्वा सुखमेधते
सुकृती विन्दति सुखं प्राप्य देहक्षयं नरः
१२.२७९.१४दैवं तात न पश्यामि नास्ति दैवस्य साधनम्
स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः
१२.२७९.१५प्रेत्य जातिकृतं कर्म न स्मरन्ति सदा जनाः
ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम्
१२.२७९.१६लोकयात्राश्रयश्चैव शब्दो वेदाश्रयः कृतः
शान्त्यर्थं मनसस्तात नैतद्वृद्धानुशासनम्
१२.२७९.१७चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्
कुरुते यादृशं कर्म तादृशं प्रतिपद्यते
१२.२७९.१८निरन्तरं च मिश्रं च फलते कर्म पार्थिव
कल्याणं यदि वा पापं न तु नाशोऽस्य विद्यते
१२.२७९.१९कदाचित्सुकृतं तात कूटस्थमिव तिष्ठति
मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते
१२.२७९.२०ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते
सुकृतक्षयाद्दुष्कृतं च तद्विद्धि मनुजाधिप
१२.२७९.२१दमः क्षमा धृतिस्तेजः संतोषः सत्यवादिता
ह्रीरहिंसाव्यसनिता दाक्ष्यं चेति सुखावहाः
१२.२७९.२२दुष्कृते सुकृते वापि न जन्तुरयतो भवेत्
नित्यं मनःसमाधाने प्रयतेत विचक्षणः
१२.२७९.२३नायं परस्य सुकृतं दुष्कृतं वापि सेवते
करोति यादृशं कर्म तादृशं प्रतिपद्यते
१२.२७९.२४सुखदुःखे समाधाय पुमानन्येन गच्छति
अन्येनैव जनः सर्वः संगतो यश्च पार्थिव
१२.२७९.२५परेषां यदसूयेत न तत्कुर्यात्स्वयं नरः
यो ह्यसूयुस्तथायुक्तः सोऽवहासं नियच्छति
१२.२७९.२६भीरू राजन्यो ब्राह्मणः सर्वभक्षो; वैश्योऽनीहावान्हीनवर्णोऽलसश्च
विद्वांश्चाशीलो वृत्तहीनः कुलीनः; सत्याद्भ्रष्टो ब्राह्मणः स्त्री च दुष्टा
१२.२७९.२७रागी मुक्तः पचमानोऽऽत्महेतो;र्मूर्खो वक्ता नृपहीनं च राष्ट्रम्
एते सर्वे शोच्यतां यान्ति राज;न्यश्चायुक्तः स्नेहहीनः प्रजासु