१२. शान्तिपर्व
१२.२८२.१पराशर उवाच

१२.२८२.२वृत्तिः सकाशाद्वर्णेभ्यस्त्रिभ्यो हीनस्य शोभना
प्रीत्योपनीता निर्दिष्टा धर्मिष्ठान्कुरुते सदा

१२.२८२.३वृत्तिश्चेन्नास्ति शूद्रस्य पितृपैतामही ध्रुवा
न वृत्तिं परतो मार्गेच्छुश्रूषां तु प्रयोजयेत्

१२.२८२.४सद्भिस्तु सह संसर्गः शोभते धर्मदर्शिभिः
नित्यं सर्वास्ववस्थासु नासद्भिरिति मे मतिः

१२.२८२.५यथोदयगिरौ द्रव्यं संनिकर्षेण दीप्यते
तथा सत्संनिकर्षेण हीनवर्णोऽपि दीप्यते

१२.२८२.६यादृशेन हि वर्णेन भाव्यते शुक्लमम्बरम्
तादृशं कुरुते रूपमेतदेवमवैहि मे

१२.२८२.७तस्माद्गुणेषु रज्येथा मा दोषेषु कदाचन
अनित्यमिह मर्त्यानां जीवितं हि चलाचलम्

१२.२८२.८सुखे वा यदि वा दुःखे वर्तमानो विचक्षणः
यश्चिनोति शुभान्येव स भद्राणीह पश्यति

१२.२८२.९धर्मादपेतं यत्कर्म यद्यपि स्यान्महाफलम्
न तत्सेवेत मेधावी न तद्धितमिहोच्यते

१२.२८२.१०यो हृत्वा गोसहस्राणि नृपो दद्यादरक्षिता
स शब्दमात्रफलभाग्राजा भवति तस्करः

१२.२८२.११स्वयंभूरसृजच्चाग्रे धातारं लोकपूजितम्
धातासृजत्पुत्रमेकं प्रजानां धारणे रतम्

१२.२८२.१२तमर्चयित्वा वैश्यस्तु कुर्यादत्यर्थमृद्धिमत्
रक्षितव्यं तु राजन्यैरुपयोज्यं द्विजातिभिः

१२.२८२.१३अजिह्मैरशठक्रोधैर्हव्यकव्यप्रयोक्तृभिः
शूद्रैर्निर्मार्जनं कार्यमेवं धर्मो न नश्यति

१२.२८२.१४अप्रनष्टे ततो धर्मे भवन्ति सुखिताः प्रजाः
सुखेन तासां राजेन्द्र मोदन्ते दिवि देवताः

१२.२८२.१५तस्माद्यो रक्षति नृपः स धर्मेणाभिपूज्यते
अधीते चापि यो विप्रो वैश्यो यश्चार्जने रतः

१२.२८२.१६यश्च शुश्रूषते शूद्रः सततं नियतेन्द्रियः
अतोऽन्यथा मनुष्येन्द्र स्वधर्मात्परिहीयते

१२.२८२.१७प्राणसंतापनिर्दिष्टाः काकिण्योऽपि महाफलाः
न्यायेनोपार्जिता दत्ताः किमुतान्याः सहस्रशः

१२.२८२.१८सत्कृत्य तु द्विजातिभ्यो यो ददाति नराधिप
यादृशं तादृशं नित्यमश्नाति फलमूर्जितम्

१२.२८२.१९अभिगम्य दत्तं तुष्ट्या यद्धन्यमाहुरभिष्टुतम्
याचितेन तु यद्दत्तं तदाहुर्मध्यमं बुधाः

१२.२८२.२०अवज्ञया दीयते यत्तथैवाश्रद्धयापि च
तदाहुरधमं दानं मुनयः सत्यवादिनः

१२.२८२.२१अतिक्रमे मज्जमानो विविधेन नरः सदा
तथा प्रयत्नं कुर्वीत यथा मुच्येत संशयात्

१२.२८२.२२दमेन शोभते विप्रः क्षत्रियो विजयेन तु
धनेन वैश्यः शूद्रस्तु नित्यं दाक्ष्येण शोभते