१२. शान्तिपर्व
१२.२८३.१पराशर उवाच

१२.२८३.२प्रतिग्रहागता विप्रे क्षत्रिये शस्त्रनिर्जिताः
वैश्ये न्यायार्जिताश्चैव शूद्रे शुश्रूषयार्जिताः
स्वल्पाप्यर्थाः प्रशस्यन्ते धर्मस्यार्थे महाफलाः

१२.२८३.३नित्यं त्रयाणां वर्णानां शूद्रः शुश्रूषुरुच्यते
क्षत्रधर्मा वैश्यधर्मा नावृत्तिः पतति द्विजः
शूद्रकर्मा यदा तु स्यात्तदा पतति वै द्विजः

१२.२८३.४वाणिज्यं पाशुपाल्यं च तथा शिल्पोपजीवनम्
शूद्रस्यापि विधीयन्ते यदा वृत्तिर्न जायते

१२.२८३.५रङ्गावतरणं चैव तथा रूपोपजीवनम्
मद्यमांसोपजीव्यं च विक्रयो लोहचर्मणोः

१२.२८३.६अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम्
कृतपूर्विणस्तु त्यजतो महान्धर्म इति श्रुतिः

१२.२८३.७संसिद्धः पुरुषो लोके यदाचरति पापकम्
मदेनाभिप्लुतमनास्तच्च नग्राह्यमुच्यते

१२.२८३.८श्रूयन्ते हि पुराणे वै प्रजा धिग्दण्डशासनाः
दान्ता धर्मप्रधानाश्च न्यायधर्मानुवर्तकाः

१२.२८३.९धर्म एव सदा नॄणामिह राजन्प्रशस्यते
धर्मवृद्धा गुणानेव सेवन्ते हि नरा भुवि

१२.२८३.१०तं धर्ममसुरास्तात नामृष्यन्त जनाधिप
विवर्धमानाः क्रमशस्तत्र तेऽन्वाविशन्प्रजाः

१२.२८३.११तेषां दर्पः समभवत्प्रजानां धर्मनाशनः
दर्पात्मनां ततः क्रोधः पुनस्तेषामजायत

१२.२८३.१२ततः क्रोधाभिभूतानां वृत्तं लज्जासमन्वितम्
ह्रीश्चैवाप्यनशद्राजंस्ततो मोहो व्यजायत

१२.२८३.१३ततो मोहपरीतास्ते नापश्यन्त यथा पुरा
परस्परावमर्देन वर्तयन्ति यथासुखम्

१२.२८३.१४तान्प्राप्य तु स धिग्दण्डो नकारणमतोऽभवत्
ततोऽभ्यगच्छन्देवांश्च ब्राह्मणांश्चावमन्य ह

१२.२८३.१५एतस्मिन्नेव काले तु देवा देववरं शिवम्
अगच्छञ्शरणं वीरं बहुरूपं गणाधिपम्

१२.२८३.१६तेन स्म ते गगनगाः सपुराः पातिताः क्षितौ
तिस्रोऽप्येकेन बाणेन देवाप्यायिततेजसा

१२.२८३.१७तेषामधिपतिस्त्वासीद्भीमो भीमपराक्रमः
देवतानां भयकरः स हतः शूलपाणिना

१२.२८३.१८तस्मिन्हतेऽथ स्वं भावं प्रत्यपद्यन्त मानवाः
प्रावर्तन्त च वेदा वै शास्त्राणि च यथा पुरा

१२.२८३.१९ततोऽभ्यषिञ्चन्राज्येन देवानां दिवि वासवम्
सप्तर्षयश्चान्वयुञ्जन्नराणां दण्डधारणे

१२.२८३.२०सप्तर्षीणामथोर्ध्वं च विपृथुर्नाम पार्थिवः
राजानः क्षत्रियाश्चैव मण्डलेषु पृथक्पृथक्

१२.२८३.२१महाकुलेषु ये जाता वृत्ताः पूर्वतराश्च ये
तेषामथासुरो भावो हृदयान्नापसर्पति

१२.२८३.२२तस्मात्तेनैव भावेन सानुषङ्गेन पार्थिवाः
आसुराण्येव कर्माणि न्यषेवन्भीमविक्रमाः

१२.२८३.२३प्रत्यतिष्ठंश्च तेष्वेव तान्येव स्थापयन्ति च
भजन्ते तानि चाद्यापि ये बालिशतमा नराः

१२.२८३.२४तस्मादहं ब्रवीमि त्वां राजन्संचिन्त्य शास्त्रतः
संसिद्धाधिगमं कुर्यात्कर्म हिंसात्मकं त्यजेत्

१२.२८३.२५न संकरेण द्रविणं विचिन्वीत विचक्षणः
धर्मार्थं न्यायमुत्सृज्य न तत्कल्याणमुच्यते

१२.२८३.२६स त्वमेवंविधो दान्तः क्षत्रियः प्रियबान्धवः
प्रजा भृत्यांश्च पुत्रांश्च स्वधर्मेणानुपालय

१२.२८३.२७इष्टानिष्टसमायोगो वैरं सौहार्दमेव च
अथ जातिसहस्राणि बहूनि परिवर्तते

१२.२८३.२८तस्माद्गुणेषु रज्येथा मा दोषेषु कदाचन
निर्गुणो यो हि दुर्बुद्धिरात्मनः सोऽरिरुच्यते

१२.२८३.२९मानुषेषु महाराज धर्माधर्मौ प्रवर्ततः
न तथान्येषु भूतेषु मनुष्यरहितेष्विह

१२.२८३.३०धर्मशीलो नरो विद्वानीहकोऽनीहकोऽपि वा
आत्मभूतः सदा लोके चरेद्भूतान्यहिंसयन्

१२.२८३.३१यदा व्यपेतहृल्लेखं मनो भवति तस्य वै
नानृतं चैव भवति तदा कल्याणमृच्छति