१२.२८६.१पराशर उवाच
१२.२८६.२पिता सखायो गुरवः स्त्रियश्च; न निर्गुणा नाम भवन्ति लोके
अनन्यभक्ताः प्रियवादिनश्च; हिताश्च वश्याश्च तथैव राजन्
१२.२८६.३पिता परं दैवतं मानवानां; मातुर्विशिष्टं पितरं वदन्ति
ज्ञानस्य लाभं परमं वदन्ति; जितेन्द्रियार्थाः परमाप्नुवन्ति
१२.२८६.४रणाजिरे यत्र शराग्निसंस्तरे; नृपात्मजो घातमवाप्य दह्यते
प्रयाति लोकानमरैः सुदुर्लभा;न्निषेवते स्वर्गफलं यथासुखम्
१२.२८६.५श्रान्तं भीतं भ्रष्टशस्त्रं रुदन्तं; पराङ्मुखं परिबर्हैश्च हीनम्
अनुद्यतं रोगिणं याचमानं; न वै हिंस्याद्बालवृद्धौ च राजन्
१२.२८६.६परिबर्हैः सुसंपन्नमुद्यतं तुल्यतां गतम्
अतिक्रमेत नृपतिः संग्रामे क्षत्रियात्मजम्
१२.२८६.७तुल्यादिह वधः श्रेयान्विशिष्टाच्चेति निश्चयः
निहीनात्कातराच्चैव नृपाणां गर्हितो वधः
१२.२८६.८पापात्पापसमाचारान्निहीनाच्च नराधिप
पाप एव वधः प्रोक्तो नरकायेति निश्चयः
१२.२८६.९न कश्चित्त्राति वै राजन्दिष्टान्तवशमागतम्
सावशेषायुषं चापि कश्चिदेवापकर्षति
१२.२८६.१०स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत्
हिंसात्मकानि कर्माणि नायुरिच्छेत्परायुषा
१२.२८६.११गृहस्थानां तु सर्वेषां विनाशमभिकाङ्क्षताम्
निधनं शोभनं तात पुलिनेषु क्रियावताम्
१२.२८६.१२आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति
नाकारणात्तद्भवति कारणैरुपपादितम्
१२.२८६.१३तथा शरीरं भवति देहाद्येनोपपादितम्
अध्वानं गतकश्चायं प्राप्तश्चायं गृहाद्गृहम्
१२.२८६.१४द्वितीयं कारणं तत्र नान्यत्किंचन विद्यते
तद्देहं देहिनां युक्तं मोक्षभूतेषु वर्तते
१२.२८६.१५सिरास्नाय्वस्थिसंघातं बीभत्सामेध्यसंकुलम्
भूतानामिन्द्रियाणां च गुणानां च समागमम्
१२.२८६.१६त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः
गुणैरपि परिक्षीणं शरीरं मर्त्यतां गतम्
१२.२८६.१७शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम्
भूतैः प्रकृतिमापन्नैस्ततो भूमौ निमज्जति
१२.२८६.१८भावितं कर्मयोगेन जायते तत्र तत्र ह
इदं शरीरं वैदेह म्रियते यत्र तत्र ह
तत्स्वभावोऽपरो दृष्टो विसर्गः कर्मणस्तथा
१२.२८६.१९न जायते तु नृपते कंचित्कालमयं पुनः
परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान्
१२.२८६.२०स पुनर्जायते राजन्प्राप्येहायतनं नृप
मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः
१२.२८६.२१द्विविधानां च भूतानां जङ्गमाः परमा नृप
जङ्गमानामपि तथा द्विपदाः परमा मताः
द्विपदानामपि तथा द्विजा वै परमाः स्मृताः
१२.२८६.२२द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः
प्राज्ञानामात्मसंबुद्धाः संबुद्धानाममानिनः
१२.२८६.२३जातमन्वेति मरणं नृणामिति विनिश्चयः
अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः
१२.२८६.२४आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत्
नक्षत्रे च मुहूर्ते च पुण्ये राजन्स पुण्यकृत्
१२.२८६.२५अयोजयित्वा क्लेशेन जनं प्लाव्य च दुष्कृतम्
मृत्युनाप्राकृतेनेह कर्म कृत्वात्मशक्तितः
१२.२८६.२६विषमुद्बन्धनं दाहो दस्युहस्तात्तथा वधः
दंष्ट्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते
१२.२८६.२७न चैभिः पुण्यकर्माणो युज्यन्ते नाभिसंधिजैः
एवंविधैश्च बहुभिरपरैः प्राकृतैरपि
१२.२८६.२८ऊर्ध्वं हित्वा प्रतिष्ठन्ते प्राणाः पुण्यकृतां नृप
मध्यतो मध्यपुण्यानामधो दुष्कृतकर्मणाम्
१२.२८६.२९एकः शत्रुर्न द्वितीयोऽस्ति शत्रु;रज्ञानतुल्यः पुरुषस्य राजन्
येनावृतः कुरुते संप्रयुक्तो; घोराणि कर्माणि सुदारुणानि
१२.२८६.३०प्रबोधनार्थं श्रुतिधर्मयुक्तं; वृद्धानुपास्यं च भवेत यस्य
प्रयत्नसाध्यो हि स राजपुत्र; प्रज्ञाशरेणोन्मथितः परैति
१२.२८६.३१अधीत्य वेदांस्तपसा ब्रह्मचारी; यज्ञाञ्शक्त्या संनिसृज्येह पञ्च
वनं गच्छेत्पुरुषो धर्मकामः; श्रेयश्चित्वा स्थापयित्वा स्ववंशम्
१२.२८६.३२उपभोगैरपि त्यक्तं नात्मानमवसादयेत्
चण्डालत्वेऽपि मानुष्यं सर्वथा तात दुर्लभम्
१२.२८६.३३इयं हि योनिः प्रथमा यां प्राप्य जगतीपते
आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः
१२.२८६.३४कथं न विप्रणश्येम योनितोऽस्या इति प्रभो
कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामाण्यदर्शनात्
१२.२८६.३५यो दुर्लभतरं प्राप्य मानुष्यमिह वै नरः
धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते
१२.२८६.३६यस्तु प्रीतिपुरोगेण चक्षुषा तात पश्यति
दीपोपमानि भूतानि यावदर्चिर्न नश्यति
१२.२८६.३७सान्त्वेनानुप्रदानेन प्रियवादेन चाप्युत
समदुःखसुखो भूत्वा स परत्र महीयते
१२.२८६.३८दानं त्यागः शोभना मूर्तिरद्भ्यो; भूयः प्लाव्यं तपसा वै शरीरम्
सरस्वतीनैमिषपुष्करेषु; ये चाप्यन्ये पुण्यदेशाः पृथिव्याम्
१२.२८६.३९गृहेषु येषामसवः पतन्ति; तेषामथो निर्हरणं प्रशस्तम्
यानेन वै प्रापणं च श्मशाने; शौचेन नूनं विधिना चैव दाहः
१२.२८६.४०इष्टिः पुष्टिर्यजनं याजनं च; दानं पुण्यानां कर्मणां च प्रयोगः
शक्त्या पित्र्यं यच्च किंचित्प्रशस्तं; सर्वाण्यात्मार्थे मानवो यः करोति
१२.२८६.४१धर्मशास्त्राणि वेदाश्च षडङ्गानि नराधिप
श्रेयसोऽर्थे विधीयन्ते नरस्याक्लिष्टकर्मणः
१२.२८६.४२भीष्म उवाच
१२.२८६.४३एतद्वै सर्वमाख्यातं मुनिना सुमहात्मना
विदेहराजाय पुरा श्रेयसोऽर्थे नराधिप