१२.२८७.१भीष्म उवाच
१२.२८७.२पुनरेव तु पप्रच्छ जनको मिथिलाधिपः
पराशरं महात्मानं धर्मे परमनिश्चयम्
१२.२८७.३किं श्रेयः का गतिर्ब्रह्मन्किं कृतं न विनश्यति
क्व गतो न निवर्तेत तन्मे ब्रूहि महामुने
१२.२८७.४पराशर उवाच
१२.२८७.५असङ्गः श्रेयसो मूलं ज्ञानं ज्ञानगतिः परा
चीर्णं तपो न प्रणश्येद्वापः क्षेत्रे न नश्यति
१२.२८७.६छित्त्वाधर्ममयं पाशं यदा धर्मेऽभिरज्यते
दत्त्वाभयकृतं दानं तदा सिद्धिमवाप्नुयात्
१२.२८७.७यो ददाति सहस्राणि गवामश्वशतानि च
अभयं सर्वभूतेभ्यस्तद्दानमतिवर्तते
१२.२८७.८वसन्विषयमध्येऽपि न वसत्येव बुद्धिमान्
संवसत्येव दुर्बुद्धिरसत्सु विषयेष्वपि
१२.२८७.९नाधर्मः श्लिष्यते प्राज्ञमापः पुष्करपर्णवत्
अप्राज्ञमधिकं पापं श्लिष्यते जतु काष्ठवत्
१२.२८७.१०नाधर्मः कारणापेक्षी कर्तारमभिमुञ्चति
कर्ता खलु यथाकालं तत्सर्वमभिपद्यते
न भिद्यन्ते कृतात्मान आत्मप्रत्ययदर्शिनः
१२.२८७.११बुद्धिकर्मेन्द्रियाणां हि प्रमत्तो यो न बुध्यते
शुभाशुभेषु सक्तात्मा प्राप्नोति सुमहद्भयम्
१२.२८७.१२वीतरागो जितक्रोधः सम्यग्भवति यः सदा
विषये वर्तमानोऽपि न स पापेन युज्यते
१२.२८७.१३मर्यादायां धर्मसेतुर्निबद्धो नैव सीदति
पुष्टस्रोत इवायत्तः स्फीतो भवति संचयः
१२.२८७.१४यथा भानुगतं तेजो मणिः शुद्धः समाधिना
आदत्ते राजशार्दूल तथा योगः प्रवर्तते
१२.२८७.१५यथा तिलानामिह पुष्पसंश्रया;त्पृथक्पृथग्याति गुणोऽतिसौम्यताम्
तथा नराणां भुवि भावितात्मनां; यथाश्रयं सत्त्वगुणः प्रवर्तते
१२.२८७.१६जहाति दारानिहते न संपदः; सदश्वयानं विविधाश्च याः क्रियाः
त्रिविष्टपे जातमतिर्यदा नर;स्तदास्य बुद्धिर्विषयेषु भिद्यते
१२.२८७.१७प्रसक्तबुद्धिर्विषयेषु यो नरो; यो बुध्यते ह्यात्महितं कदा च न
स सर्वभावानुगतेन चेतसा; नृपामिषेणेव झषो विकृष्यते
१२.२८७.१८संघातवान्मर्त्यलोकः परस्परमपाश्रितः
कदलीगर्भनिःसारो नौरिवाप्सु निमज्जति
१२.२८७.१९न धर्मकालः पुरुषस्य निश्चितो; न चापि मृत्युः पुरुषं प्रतीक्षते
क्रिया हि धर्मस्य सदैव शोभना; यदा नरो मृत्युमुखेऽभिवर्तते
१२.२८७.२०यथान्धः स्वगृहे युक्तो ह्यभ्यासादेव गच्छति
तथा युक्तेन मनसा प्राज्ञो गच्छति तां गतिम्
१२.२८७.२१मरणं जन्मनि प्रोक्तं जन्म वै मरणाश्रितम्
अविद्वान्मोक्षधर्मेषु बद्धो भ्रमति चक्रवत्
१२.२८७.२२यथा मृणालोऽनुगतमाशु मुञ्चति कर्दमम्
तथात्मा पुरुषस्येह मनसा परिमुच्यते
मनः प्रणयतेऽऽत्मानं स एनमभियुञ्जति
१२.२८७.२३परार्थे वर्तमानस्तु स्वकार्यं योऽभिमन्यते
इन्द्रियार्थेषु सक्तः सन्स्वकार्यात्परिहीयते
१२.२८७.२४अधस्तिर्यग्गतिं चैव स्वर्गे चैव परां गतिम्
प्राप्नोति स्वकृतैरात्मा प्राज्ञस्येहेतरस्य च
१२.२८७.२५मृन्मये भाजने पक्वे यथा वै न्यस्यते द्रवः
तथा शरीरं तपसा तप्तं विषयमश्नुते
१२.२८७.२६विषयानश्नुते यस्तु न स भोक्ष्यत्यसंशयम्
यस्तु भोगांस्त्यजेदात्मा स वै भोक्तुं व्यवस्यति
१२.२८७.२७नीहारेण हि संवीतः शिश्नोदरपरायणः
जात्यन्ध इव पन्थानमावृतात्मा न बुध्यते
१२.२८७.२८वणिग्यथा समुद्राद्वै यथार्थं लभते धनम्
तथा मर्त्यार्णवे जन्तोः कर्मविज्ञानतो गतिः
१२.२८७.२९अहोरात्रमये लोके जरारूपेण संचरन्
मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा
१२.२८७.३०स्वयं कृतानि कर्माणि जातो जन्तुः प्रपद्यते
नाकृतं लभते कश्चित्किंचिदत्र प्रियाप्रियम्
१२.२८७.३१शयानं यान्तमासीनं प्रवृत्तं विषयेषु च
शुभाशुभानि कर्माणि प्रपद्यन्ते नरं सदा
१२.२८७.३२न ह्यन्यत्तीरमासाद्य पुनस्तर्तुं व्यवस्यति
दुर्लभो दृश्यते ह्यस्य विनिपातो महार्णवे
१२.२८७.३३यथा भारावसक्ता हि नौर्महाम्भसि तन्तुना
तथा मनोऽभियोगाद्वै शरीरं प्रतिकर्षति
१२.२८७.३४यथा समुद्रमभितः संस्यूताः सरितोऽपराः
तथाद्या प्रकृतिर्योगादभिसंस्यूयते सदा
१२.२८७.३५स्नेहपाशैर्बहुविधैरासक्तमनसो नराः
प्रकृतिस्था विषीदन्ति जले सैकतवेश्मवत्
१२.२८७.३६शरीरगृहसंस्थस्य शौचतीर्थस्य देहिनः
बुद्धिमार्गप्रयातस्य सुखं त्विह परत्र च
१२.२८७.३७विस्तराः क्लेशसंयुक्ताः संक्षेपास्तु सुखावहाः
परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः
१२.२८७.३८संकल्पजो मित्रवर्गो ज्ञातयः कारणात्मकाः
भार्या दासाश्च पुत्राश्च स्वमर्थमनुयुञ्जते
१२.२८७.३९न माता न पिता किंचित्कस्यचित्प्रतिपद्यते
दानपथ्योदनो जन्तुः स्वकर्मफलमश्नुते
१२.२८७.४०माता पुत्रः पिता भ्राता भार्या मित्रजनस्तथा
अष्टापदपदस्थाने त्वक्षमुद्रेव न्यस्यते
१२.२८७.४१सर्वाणि कर्माणि पुरा कृतानि; शुभाशुभान्यात्मनो यान्ति जन्तोः
उपस्थितं कर्मफलं विदित्वा; बुद्धिं तथा चोदयतेऽन्तरात्मा
१२.२८७.४२व्यवसायं समाश्रित्य सहायान्योऽधिगच्छति
न तस्य कश्चिदारम्भः कदाचिदवसीदति
१२.२८७.४३अद्वैधमनसं युक्तं शूरं धीरं विपश्चितम्
न श्रीः संत्यजते नित्यमादित्यमिव रश्मयः
१२.२८७.४४आस्तिक्यव्यवसायाभ्यामुपायाद्विस्मयाद्धिया
यमारभत्यनिन्द्यात्मा न सोऽर्थः परिसीदति
१२.२८७.४५सर्वः स्वानि शुभाशुभानि नियतं कर्माणि जन्तुः स्वयं; गर्भात्संप्रतिपद्यते तदुभयं यत्तेन पूर्वं कृतम्
मृत्युश्चापरिहारवान्समगतिः कालेन विच्छेदिता; दारोश्चूर्णमिवाश्मसारविहितं कर्मान्तिकं प्रापयेत्
१२.२८७.४६स्वरूपतामात्मकृतं च विस्तरं; कुलान्वयं द्रव्यसमृद्धिसंचयम्
नरो हि सर्वो लभते यथाकृतं; शुभाशुभेनात्मकृतेन कर्मणा
१२.२८७.४७भीष्म उवाच
१२.२८७.४८इत्युक्तो जनको राजन्यथातथ्यं मनीषिणा
श्रुत्वा धर्मविदां श्रेष्ठः परां मुदमवाप ह