१२.२९१.१युधिष्ठिर उवाच
१२.२९१.२किं तदक्षरमित्युक्तं यस्मान्नावर्तते पुनः
किं च तत्क्षरमित्युक्तं यस्मादावर्तते पुनः
१२.२९१.३अक्षरक्षरयोर्व्यक्तिमिच्छाम्यरिनिषूदन
उपलब्धुं महाबाहो तत्त्वेन कुरुनन्दन
१२.२९१.४त्वं हि ज्ञाननिधिर्विप्रैरुच्यसे वेदपारगैः
ऋषिभिश्च महाभागैर्यतिभिश्च महात्मभिः
१२.२९१.५शेषमल्पं दिनानां ते दक्षिणायनभास्करे
आवृत्ते भगवत्यर्के गन्तासि परमां गतिम्
१२.२९१.६त्वयि प्रतिगते श्रेयः कुतः श्रोष्यामहे वयम्
कुरुवंशप्रदीपस्त्वं ज्ञानद्रव्येण दीप्यसे
१२.२९१.७तदेतच्छ्रोतुमिच्छामि त्वत्तः कुरुकुलोद्वह
न तृप्यामीह राजेन्द्र शृण्वन्नमृतमीदृशम्
१२.२९१.८भीष्म उवाच
१२.२९१.९अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्
वसिष्ठस्य च संवादं करालजनकस्य च
१२.२९१.१०वसिष्ठं श्रेष्ठमासीनमृषीणां भास्करद्युतिम्
पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम्
१२.२९१.११परमध्यात्मकुशलमध्यात्मगतिनिश्चयम्
मैत्रावरुणिमासीनमभिवाद्य कृताञ्जलिः
१२.२९१.१२स्वक्षरं प्रश्रितं वाक्यं मधुरं चाप्यनुल्बणम्
पप्रच्छर्षिवरं राजा करालजनकः पुरा
१२.२९१.१३भगवञ्श्रोतुमिच्छामि परं ब्रह्म सनातनम्
यस्मान्न पुनरावृत्तिमाप्नुवन्ति मनीषिणः
१२.२९१.१४यच्च तत्क्षरमित्युक्तं यत्रेदं क्षरते जगत्
यच्चाक्षरमिति प्रोक्तं शिवं क्षेम्यमनामयम्
१२.२९१.१५वसिष्ठ उवाच
१२.२९१.१६श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत्
यन्न क्षरति पूर्वेण यावत्कालेन चाप्यथ
१२.२९१.१७युगं द्वादशसाहस्रं कल्पं विद्धि चतुर्गुणम्
दशकल्पशतावृत्तं तदहर्ब्राह्ममुच्यते
रात्रिश्चैतावती राजन्यस्यान्ते प्रतिबुध्यते
१२.२९१.१८सृजत्यनन्तकर्माणं महान्तं भूतमग्रजम्
मूर्तिमन्तममूर्तात्मा विश्वं शंभुः स्वयंभुवः
अणिमा लघिमा प्राप्तिरीशानं ज्योतिरव्ययम्
१२.२९१.१९सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम्
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति
१२.२९१.२०हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतः
महानिति च योगेषु विरिञ्च इति चाप्युत
१२.२९१.२१सांख्ये च पठ्यते शास्त्रे नामभिर्बहुधात्मकः
विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः
१२.२९१.२२वृतं नैकात्मकं येन कृत्स्नं त्रैलोक्यमात्मना
तथैव बहुरूपत्वाद्विश्वरूप इति स्मृतः
१२.२९१.२३एष वै विक्रियापन्नः सृजत्यात्मानमात्मना
अहंकारं महातेजाः प्रजापतिमहंकृतम्
१२.२९१.२४अव्यक्ताद्व्यक्तमुत्पन्नं विद्यासर्गं वदन्ति तम्
महान्तं चाप्यहंकारमविद्यासर्गमेव च
१२.२९१.२५अविधिश्च विधिश्चैव समुत्पन्नौ तथैकतः
विद्याविद्येति विख्याते श्रुतिशास्त्रार्थचिन्तकैः
१२.२९१.२६भूतसर्गमहंकारात्तृतीयं विद्धि पार्थिव
अहंकारेषु भूतेषु चतुर्थं विद्धि वैकृतम्
१२.२९१.२७वायुर्ज्योतिरथाकाशमापोऽथ पृथिवी तथा
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च
१२.२९१.२८एवं युगपदुत्पन्नं दशवर्गमसंशयम्
पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गमर्थवत्
१२.२९१.२९श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणमेव च पञ्चमम्
वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च
१२.२९१.३०बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च
संभूतानीह युगपन्मनसा सह पार्थिव
१२.२९१.३१एषा तत्त्वचतुर्विंशा सर्वाकृतिषु वर्तते
यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः
१२.२९१.३२एतद्देहं समाख्यातं त्रैलोक्ये सर्वदेहिषु
वेदितव्यं नरश्रेष्ठ सदेवनरदानवे
१२.२९१.३३सयक्षभूतगन्धर्वे सकिंनरमहोरगे
सचारणपिशाचे वै सदेवर्षिनिशाचरे
१२.२९१.३४सदंशकीटमशके सपूतिकृमिमूषके
शुनि श्वपाके वैणेये सचण्डाले सपुल्कसे
१२.२९१.३५हस्त्यश्वखरशार्दूले सवृक्षे गवि चैव ह
यच्च मूर्तिमयं किंचित्सर्वत्रैतन्निदर्शनम्
१२.२९१.३६जले भुवि तथाकाशे नान्यत्रेति विनिश्चयः
स्थानं देहवतामस्ति इत्येवमनुशुश्रुम
१२.२९१.३७कृत्स्नमेतावतस्तात क्षरते व्यक्तसंज्ञकम्
अहन्यहनि भूतात्मा ततः क्षर इति स्मृतः
१२.२९१.३८एतदक्षरमित्युक्तं क्षरतीदं यथा जगत्
जगन्मोहात्मकं प्राहुरव्यक्तं व्यक्तसंज्ञकम्
१२.२९१.३९महांश्चैवाग्रजो नित्यमेतत्क्षरनिदर्शनम्
कथितं ते महाराज यस्मान्नावर्तते पुनः
१२.२९१.४०पञ्चविंशतिमो विष्णुर्निस्तत्त्वस्तत्त्वसंज्ञकः
तत्त्वसंश्रयणादेतत्तत्त्वमाहुर्मनीषिणः
१२.२९१.४१यदमूर्त्यसृजद्व्यक्तं तत्तन्मूर्त्यधितिष्ठति
चतुर्विंशतिमो व्यक्तो ह्यमूर्तः पञ्चविंशकः
१२.२९१.४२स एव हृदि सर्वासु मूर्तिष्वातिष्ठतेऽऽत्मवान्
चेतयंश्चेतनो नित्यः सर्वमूर्तिरमूर्तिमान्
१२.२९१.४३सर्गप्रलयधर्मिण्या असर्गप्रलयात्मकः
गोचरे वर्तते नित्यं निर्गुणो गुणसंज्ञकः
१२.२९१.४४एवमेष महानात्मा सर्गप्रलयकोविदः
विकुर्वाणः प्रकृतिमानभिमन्यत्यबुद्धिमान्
१२.२९१.४५तमःसत्त्वरजोयुक्तस्तासु तास्विह योनिषु
लीयतेऽप्रतिबुद्धत्वादबुद्धजनसेवनात्
१२.२९१.४६सहवासो निवासात्मा नान्योऽहमिति मन्यते
योऽहं सोऽहमिति ह्युक्त्वा गुणाननु निवर्तते
१२.२९१.४७तमसा तामसान्भावान्विविधान्प्रतिपद्यते
रजसा राजसांश्चैव सात्त्विकान्सत्त्वसंश्रयात्
१२.२९१.४८शुक्ललोहितकृष्णानि रूपाण्येतानि त्रीणि तु
सर्वाण्येतानि रूपाणि जानीहि प्राकृतानि वै
१२.२९१.४९तामसा निरयं यान्ति राजसा मानुषांस्तथा
सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः
१२.२९१.५०निष्कैवल्येन पापेन तिर्यग्योनिमवाप्नुयात्
पुण्यपापेन मानुष्यं पुण्येनैकेन देवताः
१२.२९१.५१एवमव्यक्तविषयं क्षरमाहुर्मनीषिणः
पञ्चविंशतिमो योऽयं ज्ञानादेव प्रवर्तते