१२.२९३.१वसिष्ठ उवाच
१२.२९३.२एवमप्रतिबुद्धत्वादबुद्धजनसेवनात्
सर्गकोटिसहस्राणि पतनान्तानि गच्छति
१२.२९३.३धाम्ना धामसहस्राणि मरणान्तानि गच्छति
तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च
१२.२९३.४चन्द्रमा इव कोशानां पुनस्तत्र सहस्रशः
लीयतेऽप्रतिबुद्धत्वादेवमेष ह्यबुद्धिमान्
१२.२९३.५कलाः पञ्चदशा योनिस्तद्धाम इति पठ्यते
नित्यमेतद्विजानीहि सोमः षोडशमी कला
१२.२९३.६कलायां जायतेऽजस्रं पुनः पुनरबुद्धिमान्
धाम तस्योपयुञ्जन्ति भूय एव तु जायते
१२.२९३.७षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम्
न तूपयुज्यते देवैर्देवानुपयुनक्ति सा
१२.२९३.८एवं तां क्षपयित्वा हि जायते नृपसत्तम
सा ह्यस्य प्रकृतिर्दृष्टा तत्क्षयान्मोक्ष उच्यते
१२.२९३.९तदेवं षोडशकलं देहमव्यक्तसंज्ञकम्
ममायमिति मन्वानस्तत्रैव परिवर्तते
१२.२९३.१०पञ्चविंशस्तथैवात्मा तस्यैवा प्रतिबोधनात्
विमलस्य विशुद्धस्य शुद्धानिलनिषेवणात्
१२.२९३.११अशुद्ध एव शुद्धात्मा तादृग्भवति पार्थिव
अबुद्धसेवनाच्चापि बुद्धोऽप्यबुधतां व्रजेत्
१२.२९३.१२तथैवाप्रतिबुद्धोऽपि ज्ञेयो नृपतिसत्तम
प्रकृतेस्त्रिगुणायास्तु सेवनात्प्राकृतो भवेत्
१२.२९३.१३करालजनक उवाच
१२.२९३.१४अक्षरक्षरयोरेष द्वयोः संबन्ध इष्यते
स्त्रीपुंसोर्वापि भगवन्संबन्धस्तद्वदुच्यते
१२.२९३.१५ऋते न पुरुषेणेह स्त्री गर्भं धारयत्युत
ऋते स्त्रियं न पुरुषो रूपं निर्वर्तयेत्तथा
१२.२९३.१६अन्योन्यस्याभिसंबन्धादन्योन्यगुणसंश्रयात्
रूपं निर्वर्तयत्येतदेवं सर्वासु योनिषु
१२.२९३.१७रत्यर्थमभिसंरोधादन्योन्यगुणसंश्रयात्
ऋतौ निर्वर्तते रूपं तद्वक्ष्यामि निदर्शनम्
१२.२९३.१८ये गुणाः पुरुषस्येह ये च मातृगुणास्तथा
अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज
१२.२९३.१९त्वङ्मांसं शोणितं चैव मातृजान्यपि शुश्रुम
एवमेतद्द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते
१२.२९३.२०प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते
वेदशास्त्रप्रमाणं च प्रमाणं तत्सनातनम्
१२.२९३.२१एवमेवाभिसंबद्धौ नित्यं प्रकृतिपूरुषौ
पश्यामि भगवंस्तस्मान्मोक्षधर्मो न विद्यते
१२.२९३.२२अथ वानन्तरकृतं किंचिदेव निदर्शनम्
तन्ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वथा
१२.२९३.२३मोक्षकामा वयं चापि काङ्क्षामो यदनामयम्
अदेहमजरं दिव्यमतीन्द्रियमनीश्वरम्
१२.२९३.२४वसिष्ठ उवाच
१२.२९३.२५यदेतदुक्तं भवता वेदशास्त्रनिदर्शनम्
एवमेतद्यथा चैतन्न गृह्णाति तथा भवान्
१२.२९३.२६धार्यते हि त्वया ग्रन्थ उभयोर्वेदशास्त्रयोः
न तु ग्रन्थस्य तत्त्वज्ञो यथावत्त्वं नरेश्वर
१२.२९३.२७यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः
न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा
१२.२९३.२८भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः
यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा
१२.२९३.२९ग्रन्थस्यार्थं च पृष्टः संस्तादृशो वक्तुमर्हति
यथा तत्त्वाभिगमनादर्थं तस्य स विन्दति
१२.२९३.३०यस्तु संसत्सु कथयेद्ग्रन्थार्थं स्थूलबुद्धिमान्
स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात्
१२.२९३.३१निर्णयं चापि छिद्रात्मा न तं वक्ष्यति तत्त्वतः
सोपहासात्मतामेति यस्माच्चैवात्मवानपि
१२.२९३.३२तस्मात्त्वं शृणु राजेन्द्र यथैतदनुदृश्यते
याथातथ्येन सांख्येषु योगेषु च महात्मसु
१२.२९३.३३यदेव योगाः पश्यन्ति सांख्यैस्तदनुगम्यते
एकं सांख्यं च योगं च यः पश्यति स बुद्धिमान्
१२.२९३.३४त्वङ्मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च
एतदैन्द्रियकं तात यद्भवानिदमाह वै
१२.२९३.३५द्रव्याद्द्रव्यस्य निष्पत्तिरिन्द्रियादिन्द्रियं तथा
देहाद्देहमवाप्नोति बीजाद्बीजं तथैव च
१२.२९३.३६निरिन्द्रियस्याबीजस्य निर्द्रव्यस्यास्य देहिनः
कथं गुणा भविष्यन्ति निर्गुणत्वान्महात्मनः
१२.२९३.३७गुणा गुणेषु जायन्ते तत्रैव निविशन्ति च
एवं गुणाः प्रकृतितो जायन्ते च न सन्ति च
१२.२९३.३८त्वङ्मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च
अष्टौ तान्यथ शुक्रेण जानीहि प्राकृतानि वै
१२.२९३.३९पुमांश्चैवापुमांश्चैव त्रैलिङ्ग्यं प्राकृतं स्मृतम्
नैव पुमान्पुमांश्चैव स लिङ्गीत्यभिधीयते
१२.२९३.४०अलिङ्गा प्रकृतिर्लिङ्गैरुपलभ्यति सात्मजैः
यथा पुष्पफलैर्नित्यमृतवो मूर्तयस्तथा
१२.२९३.४१एवमप्यनुमानेन ह्यलिङ्गमुपलभ्यते
पञ्चविंशतिमस्तात लिङ्गेष्वनियतात्मकः
१२.२९३.४२अनादिनिधनोऽनन्तः सर्वदर्शी निरामयः
केवलं त्वभिमानित्वाद्गुणेष्वगुण उच्यते
१२.२९३.४३गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः
तस्मादेवं विजानन्ति ये जना गुणदर्शिनः
१२.२९३.४४यदा त्वेष गुणान्सर्वान्प्राकृतानभिमन्यते
तदा स गुणवानेव परमेणानुपश्यति
१२.२९३.४५यत्तद्बुद्धेः परं प्राहुः सांख्या योगाश्च सर्वशः
बुध्यमानं महाप्राज्ञमबुद्धपरिवर्जनात्
१२.२९३.४६अप्रबुद्धमथाव्यक्तं सगुणं प्राहुरीश्वरम्
निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च
१२.२९३.४७प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाः
सांख्ययोगे च कुशला बुध्यन्ते परमैषिणः
१२.२९३.४८यदा प्रबुद्धास्त्वव्यक्तमवस्थाजन्मभीरवः
बुध्यमानं प्रबुध्यन्ति गमयन्ति समं तदा
१२.२९३.४९एतन्निदर्शनं सम्यगसम्यगनुदर्शनम्
बुध्यमानाप्रबुद्धाभ्यां पृथक्पृथगरिंदम
१२.२९३.५०परस्परेणैतदुक्तं क्षराक्षरनिदर्शनम्
एकत्वमक्षरं प्राहुर्नानात्वं क्षरमुच्यते
१२.२९३.५१पञ्चविंशतिनिष्ठोऽयं यदासम्यक्प्रवर्तते
एकत्वं दर्शनं चास्य नानात्वं चाप्यदर्शनम्
१२.२९३.५२तत्त्वनिस्तत्त्वयोरेतत्पृथगेव निदर्शनम्
पञ्चविंशतिसर्गं तु तत्त्वमाहुर्मनीषिणः
१२.२९३.५३निस्तत्त्वं पञ्चविंशस्य परमाहुर्निदर्शनम्
वर्गस्य वर्गमाचारं तत्त्वं तत्त्वात्सनातनम्