१२. शान्तिपर्व
१२.२९४.१करालजनक उवाच

१२.२९४.२नानात्वैकत्वमित्युक्तं त्वयैतदृषिसत्तम
पश्यामि चाभिसंदिग्धमेतयोर्वै निदर्शनम्

१२.२९४.३तथाप्रबुद्धबुद्धाभ्यां बुध्यमानस्य चानघ
स्थूलबुद्ध्या न पश्यामि तत्त्वमेतन्न संशयः

१२.२९४.४अक्षरक्षरयोरुक्तं त्वया यदपि कारणम्
तदप्यस्थिरबुद्धित्वात्प्रनष्टमिव मेऽनघ

१२.२९४.५तदेतच्छ्रोतुमिच्छामि नानात्वैकत्वदर्शनम्
बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः

१२.२९४.६विद्याविद्ये च भगवन्नक्षरं क्षरमेव च
सांख्यं योगं च कार्त्स्न्येन पृथक्चैवापृथक्च ह

१२.२९४.७वसिष्ठ उवाच

१२.२९४.८हन्त ते संप्रवक्ष्यामि यदेतदनुपृच्छसि
योगकृत्यं महाराज पृथगेव शृणुष्व मे

१२.२९४.९योगकृत्यं तु योगानां ध्यानमेव परं बलम्
तच्चापि द्विविधं ध्यानमाहुर्वेदविदो जनाः

१२.२९४.१०एकाग्रता च मनसः प्राणायामस्तथैव च
प्राणायामस्तु सगुणो निर्गुणो मनसस्तथा

१२.२९४.११मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप
त्रिकालं नाभियुञ्जीत शेषं युञ्जीत तत्परः

१२.२९४.१२इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः
दशद्वादशभिर्वापि चतुर्विंशात्परं ततः

१२.२९४.१३तं चोदनाभिर्मतिमानात्मानं चोदयेदथ
तिष्ठन्तमजरं तं तु यत्तदुक्तं मनीषिभिः

१२.२९४.१४तैश्चात्मा सततं ज्ञेय इत्येवमनुशुश्रुम
द्रव्यं ह्यहीनमनसो नान्यथेति विनिश्चयः

१२.२९४.१५विमुक्तः सर्वसङ्गेभ्यो लघ्वाहारो जितेन्द्रियः
पूर्वरात्रे परे चैव धारयेत मनोऽऽत्मनि

१२.२९४.१६स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर
मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः

१२.२९४.१७स्थाणुवच्चाप्यकम्पः स्याद्गिरिवच्चापि निश्चलः
बुधा विधिविधानज्ञास्तदा युक्तं प्रचक्षते

१२.२९४.१८न शृणोति न चाघ्राति न रस्यति न पश्यति
न च स्पर्शं विजानाति न संकल्पयते मनः

१२.२९४.१९न चाभिमन्यते किंचिन्न च बुध्यति काष्ठवत्
तदा प्रकृतिमापन्नं युक्तमाहुर्मनीषिणः

१२.२९४.२०निवाते च यथा दीप्यन्दीपस्तद्वत्स दृश्यते
निरिङ्गश्चाचलश्चोर्ध्वं न तिर्यग्गतिमाप्नुयात्

१२.२९४.२१तदा तमनुपश्येत यस्मिन्दृष्टे तु कथ्यते
हृदयस्थोऽन्तरात्मेति ज्ञेयो ज्ञस्तात मद्विधैः

१२.२९४.२२विधूम इव सप्तार्चिरादित्य इव रश्मिमान्
वैद्युतोऽग्निरिवाकाशे दृश्यतेऽऽत्मा तथात्मनि

१२.२९४.२३यं पश्यन्ति महात्मानो धृतिमन्तो मनीषिणः
ब्राह्मणा ब्रह्मयोनिष्ठा ह्ययोनिममृतात्मकम्

१२.२९४.२४तदेवाहुरणुभ्योऽणु तन्महद्भ्यो महत्तरम्
तदन्तः सर्वभूतेषु ध्रुवं तिष्ठन्न दृश्यते

१२.२९४.२५बुद्धिद्रव्येण दृश्येत मनोदीपेन लोककृत्
महतस्तमसस्तात पारे तिष्ठन्नतामसः

१२.२९४.२६स तमोनुद इत्युक्तस्तत्त्वज्ञैर्वेदपारगैः
विमलो वितमस्कश्च निर्लिङ्गोऽलिङ्गसंज्ञितः

१२.२९४.२७योगमेतद्धि योगानां मन्ये योगस्य लक्षणम्
एवं पश्यं प्रपश्यन्ति आत्मानमजरं परम्

१२.२९४.२८योगदर्शनमेतावदुक्तं ते तत्त्वतो मया
सांख्यज्ञानं प्रवक्ष्यामि परिसंख्यानिदर्शनम्

१२.२९४.२९अव्यक्तमाहुः प्रकृतिं परां प्रकृतिवादिनः
तस्मान्महत्समुत्पन्नं द्वितीयं राजसत्तम

१२.२९४.३०अहंकारस्तु महतस्तृतीयमिति नः श्रुतम्
पञ्च भूतान्यहंकारादाहुः सांख्यानुदर्शिनः

१२.२९४.३१एताः प्रकृतयस्त्वष्टौ विकाराश्चापि षोडश
पञ्च चैव विशेषा वै तथा पञ्चेन्द्रियाणि च

१२.२९४.३२एतावदेव तत्त्वानां सांख्यमाहुर्मनीषिणः
सांख्ये विधिविधानज्ञा नित्यं सांख्यपथे रताः

१२.२९४.३३यस्माद्यदभिजायेत तत्तत्रैव प्रलीयते
लीयन्ते प्रतिलोमानि सृज्यन्ते चान्तरात्मना

१२.२९४.३४अनुलोमेन जायन्ते लीयन्ते प्रतिलोमतः
गुणा गुणेषु सततं सागरस्योर्मयो यथा

१२.२९४.३५सर्गप्रलय एतावान्प्रकृतेर्नृपसत्तम
एकत्वं प्रलये चास्य बहुत्वं च यदासृजत्
एवमेव च राजेन्द्र विज्ञेयं ज्ञेयचिन्तकैः

१२.२९४.३६अधिष्ठातारमव्यक्तमस्याप्येतन्निदर्शनम्
एकत्वं च बहुत्वं च प्रकृतेरनु तत्त्ववान्
एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात्

१२.२९४.३७बहुधात्मा प्रकुर्वीत प्रकृतिं प्रसवात्मिकाम्
तच्च क्षेत्रं महानात्मा पञ्चविंशोऽधितिष्ठति

१२.२९४.३८अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः
अधिष्ठानादधिष्ठाता क्षेत्राणामिति नः श्रुतम्

१२.२९४.३९क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते
अव्यक्तिके पुरे शेते पुरुषश्चेति कथ्यते

१२.२९४.४०अन्यदेव च क्षेत्रं स्यादन्यः क्षेत्रज्ञ उच्यते
क्षेत्रमव्यक्तमित्युक्तं ज्ञाता वै पञ्चविंशकः

१२.२९४.४१अन्यदेव च ज्ञानं स्यादन्यज्ज्ञेयं तदुच्यते
ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः

१२.२९४.४२अव्यक्तं क्षेत्रमित्युक्तं तथा सत्त्वं तथेश्वरम्
अनीश्वरमतत्त्वं च तत्त्वं तत्पञ्चविंशकम्

१२.२९४.४३सांख्यदर्शनमेतावत्परिसंख्यानदर्शनम्
सांख्यं प्रकुरुते चैव प्रकृतिं च प्रचक्षते

१२.२९४.४४तत्त्वानि च चतुर्विंशत्परिसंख्याय तत्त्वतः
सांख्याः सह प्रकृत्या तु निस्तत्त्वः पञ्चविंशकः

१२.२९४.४५पञ्चविंशोऽप्रबुद्धात्मा बुध्यमान इति स्मृतः
यदा तु बुध्यतेऽऽत्मानं तदा भवति केवलः

१२.२९४.४६सम्यग्दर्शनमेतावद्भाषितं तव तत्त्वतः
एवमेतद्विजानन्तः साम्यतां प्रतियान्त्युत

१२.२९४.४७सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा
गुणतत्त्वान्यथैतानि निर्गुणोऽन्यस्तथा भवेत्

१२.२९४.४८न त्वेवं वर्तमानानामावृत्तिर्विद्यते पुनः
विद्यतेऽक्षरभावत्वादपरस्परमव्ययम्

१२.२९४.४९पश्येरन्नेकमतयो न सम्यक्तेषु दर्शनम्
तेऽव्यक्तं प्रतिपद्यन्ते पुनः पुनररिंदम

१२.२९४.५०सर्वमेतद्विजानन्तो न सर्वस्य प्रबोधनात्
व्यक्तीभूता भविष्यन्ति व्यक्तस्य वशवर्तिनः

१२.२९४.५१सर्वमव्यक्तमित्युक्तमसर्वः पञ्चविंशकः
य एनमभिजानन्ति न भयं तेषु विद्यते