१२.२९५.१वसिष्ठ उवाच
१२.२९५.२सांख्यदर्शनमेतावदुक्तं ते नृपसत्तम
विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः
१२.२९५.३अविद्यामाहुरव्यक्तं सर्गप्रलयधर्मि वै
सर्गप्रलयनिर्मुक्तं विद्यां वै पञ्चविंशकम्
१२.२९५.४परस्परमविद्यां वै तन्निबोधानुपूर्वशः
यथोक्तमृषिभिस्तात सांख्यस्यास्य निदर्शनम्
१२.२९५.५कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम्
बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम्
१२.२९५.६विशेषाणां मनस्तेषां विद्यामाहुर्मनीषिणः
मनसः पञ्चभूतानि विद्या इत्यभिचक्षते
१२.२९५.७अहंकारस्तु भूतानां पञ्चानां नात्र संशयः
अहंकारस्य च तथा बुद्धिर्विद्या नरेश्वर
१२.२९५.८बुद्धेः प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरम्
विद्या ज्ञेया नरश्रेष्ठ विधिश्च परमः स्मृतः
१२.२९५.९अव्यक्तस्य परं प्राहुर्विद्यां वै पञ्चविंशकम्
सर्वस्य सर्वमित्युक्तं ज्ञेयं ज्ञानस्य पार्थिव
१२.२९५.१०ज्ञानमव्यक्तमित्युक्तं ज्ञेयं वै पञ्चविंशकम्
तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशकः
१२.२९५.११विद्याविद्यार्थतत्त्वेन मयोक्तं ते विशेषतः
अक्षरं च क्षरं चैव यदुक्तं तन्निबोध मे
१२.२९५.१२उभावेतौ क्षरावुक्तावुभावेतौ च नक्षरौ
कारणं तु प्रवक्ष्यामि यथा ख्यातौ तु तत्त्वतः
१२.२९५.१३अनादिनिधनावेतावुभावेवेश्वरौ मतौ
तत्त्वसंज्ञावुभावेतौ प्रोच्येते ज्ञानचिन्तकैः
१२.२९५.१४सर्गप्रलयधर्मित्वादव्यक्तं प्राहुरक्षरम्
तदेतद्गुणसर्गाय विकुर्वाणं पुनः पुनः
१२.२९५.१५गुणानां महदादीनामुत्पद्यति परस्परम्
अधिष्ठानात्क्षेत्रमाहुरेतत्तत्पञ्चविंशकम्
१२.२९५.१६यदा तु गुणजालं तदव्यक्तात्मनि संक्षिपेत्
तदा सह गुणैस्तैस्तु पञ्चविंशो विलीयते
१२.२९५.१७गुणा गुणेषु लीयन्ते तदैका प्रकृतिर्भवेत्
क्षेत्रज्ञोऽपि यदा तात तत्क्षेत्रे संप्रलीयते
१२.२९५.१८तदाक्षरत्वं प्रकृतिर्गच्छते गुणसंज्ञिता
निर्गुणत्वं च वैदेह गुणेषु प्रतिवर्तनात्
१२.२९५.१९एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षये
प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुम
१२.२९५.२०क्षरो भवत्येष यदा तदा गुणवतीमथ
प्रकृतिं त्वभिजानाति निर्गुणत्वं तथात्मनः
१२.२९५.२१तदा विशुद्धो भवति प्रकृतेः परिवर्जनात्
अन्योऽहमन्येयमिति यदा बुध्यति बुद्धिमान्
१२.२९५.२२तदैषोऽन्यत्वतामेति न च मिश्रत्वमाव्रजेत्
प्रकृत्या चैव राजेन्द्र नमिश्रोऽन्यश्च दृश्यते
१२.२९५.२३यदा तु गुणजालं तत्प्राकृतं विजुगुप्सते
पश्यते चापरं पश्यं तदा पश्यन्न संज्वरेत्
१२.२९५.२४किं मया कृतमेतावद्योऽहं कालमिमं जनम्
मत्स्यो जालं ह्यविज्ञानादनुवर्तितवांस्तथा
१२.२९५.२५अहमेव हि संमोहादन्यमन्यं जनाज्जनम्
मत्स्यो यथोदकज्ञानादनुवर्तितवानिह
१२.२९५.२६मत्स्योऽन्यत्वं यथाज्ञानादुदकान्नाभिमन्यते
आत्मानं तद्वदज्ञानादन्यत्वं चैव वेद्म्यहम्
१२.२९५.२७ममास्तु धिगबुद्धस्य योऽहं मग्नमिमं पुनः
अनुवर्तितवान्मोहादन्यमन्यं जनाज्जनम्
१२.२९५.२८अयमत्र भवेद्बन्धुरनेन सह मोक्षणम्
साम्यमेकत्वमायातो यादृशस्तादृशस्त्वहम्
१२.२९५.२९तुल्यतामिह पश्यामि सदृशोऽहमनेन वै
अयं हि विमलो व्यक्तमहमीदृशकस्तथा
१२.२९५.३०योऽहमज्ञानसंमोहादज्ञया संप्रवृत्तवान्
ससङ्गयाहं निःसङ्गः स्थितः कालमिमं त्वहम्
१२.२९५.३१अनयाहं वशीभूतः कालमेतं न बुद्धवान्
उच्चमध्यमनीचानां तामहं कथमावसे
१२.२९५.३२समानयानया चेह सहवासमहं कथम्
गच्छाम्यबुद्धभावत्वादेषेदानीं स्थिरो भवे
१२.२९५.३३सहवासं न यास्यामि कालमेतद्धि वञ्चनात्
वञ्चितोऽस्म्यनया यद्धि निर्विकारो विकारया
१२.२९५.३४न चायमपराधोऽस्या अपराधो ह्ययं मम
योऽहमत्राभवं सक्तः पराङ्मुखमुपस्थितः
१२.२९५.३५ततोऽस्मि बहुरूपासु स्थितो मूर्तिष्वमूर्तिमान्
अमूर्तश्चापि मूर्तात्मा ममत्वेन प्रधर्षितः
१२.२९५.३६प्रकृतेरनयत्वेन तासु तास्विह योनिषु
निर्ममस्य ममत्वेन किं कृतं तासु तासु च
योनीषु वर्तमानेन नष्टसंज्ञेन चेतसा
१२.२९५.३७न ममात्रानया कार्यमहंकारकृतात्मया
आत्मानं बहुधा कृत्वा येयं भूयो युनक्ति माम्
इदानीमेष बुद्धोऽस्मि निर्ममो निरहंकृतः
१२.२९५.३८ममत्वमनया नित्यमहंकारकृतात्मकम्
अपेत्याहमिमां हित्वा संश्रयिष्ये निरामयम्
१२.२९५.३९अनेन साम्यं यास्यामि नानयाहमचेतसा
क्षमं मम सहानेन नैकत्वमनया सह
एवं परमसंबोधात्पञ्चविंशोऽनुबुद्धवान्
१२.२९५.४०अक्षरत्वं नियच्छेत त्यक्त्वा क्षरमनामयम्
अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा
निर्गुणं प्रथमं दृष्ट्वा तादृग्भवति मैथिल
१२.२९५.४१अक्षरक्षरयोरेतदुक्तं तव निदर्शनम्
मयेह ज्ञानसंपन्नं यथाश्रुतिनिदर्शनात्
१२.२९५.४२निःसंदिग्धं च सूक्ष्मं च विबुद्धं विमलं तथा
प्रवक्ष्यामि तु ते भूयस्तन्निबोध यथाश्रुतम्
१२.२९५.४३सांख्ययोगौ मया प्रोक्तौ शास्त्रद्वयनिदर्शनात्
यदेव शास्त्रं सांख्योक्तं योगदर्शनमेव तत्
१२.२९५.४४प्रबोधनकरं ज्ञानं सांख्यानामवनीपते
विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया
१२.२९५.४५बृहच्चैव हि तच्छास्त्रमित्याहुः कुशला जनाः
अस्मिंश्च शास्त्रे योगानां पुनर्दधि पुनः शरः
१२.२९५.४६पञ्चविंशात्परं तत्त्वं न पश्यति नराधिप
सांख्यानां तु परं तत्र यथावदनुवर्णितम्
१२.२९५.४७बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः
बुध्यमानं च बुद्धं च प्राहुर्योगनिदर्शनम्