१२.२९७.१भीष्म उवाच
१२.२९७.२मृगयां विचरन्कश्चिद्विजने जनकात्मजः
वने ददर्श विप्रेन्द्रमृषिं वंशधरं भृगोः
१२.२९७.३तमासीनमुपासीनः प्रणम्य शिरसा मुनिम्
पश्चादनुमतस्तेन पप्रच्छ वसुमानिदम्
१२.२९७.४भगवन्किमिदं श्रेयः प्रेत्य वापीह वा भवेत्
पुरुषस्याध्रुवे देहे कामस्य वशवर्तिनः
१२.२९७.५सत्कृत्य परिपृष्टः सन्सुमहात्मा महातपाः
निजगाद ततस्तस्मै श्रेयस्करमिदं वचः
१२.२९७.६मनसोऽप्रतिकूलानि प्रेत्य चेह च वाञ्छसि
भूतानां प्रतिकूलेभ्यो निवर्तस्व यतेन्द्रियः
१२.२९७.७धर्मः सतां हितः पुंसां धर्मश्चैवाश्रयः सताम्
धर्माल्लोकास्त्रयस्तात प्रवृत्ताः सचराचराः
१२.२९७.८स्वादुकामुक कामानां वैतृष्ण्यं किं न गच्छसि
मधु पश्यसि दुर्बुद्धे प्रपातं नानुपश्यसि
१२.२९७.९यथा ज्ञाने परिचयः कर्तव्यस्तत्फलार्थिना
तथा धर्मे परिचयः कर्तव्यस्तत्फलार्थिना
१२.२९७.१०असता धर्मकामेन विशुद्धं कर्म दुष्करम्
सता तु धर्मकामेन सुकरं कर्म दुष्करम्
१२.२९७.११वने ग्राम्यसुखाचारो यथा ग्राम्यस्तथैव सः
ग्रामे वनसुखाचारो यथा वनचरस्तथा
१२.२९७.१२मनोवाक्कर्मके धर्मे कुरु श्रद्धां समाहितः
निवृत्तौ वा प्रवृत्तौ वा संप्रधार्य गुणागुणान्
१२.२९७.१३नित्यं च बहु दातव्यं साधुभ्यश्चानसूयता
प्रार्थितं व्रतशौचाभ्यां सत्कृतं देशकालयोः
१२.२९७.१४शुभेन विधिना लब्धमर्हाय प्रतिपादयेत्
क्रोधमुत्सृज्य दत्त्वा च नानुतप्येन्न कीर्तयेत्
१२.२९७.१५अनृशंसः शुचिर्दान्तः सत्यवागार्जवे स्थितः
योनिकर्मविशुद्धश्च पात्रं स्याद्वेदविद्द्विजः
१२.२९७.१६सत्कृता चैकपत्नी च जात्या योनिरिहेष्यते
ऋग्यजुःसामगो विद्वान्षट्कर्मा पात्रमुच्यते
१२.२९७.१७स एव धर्मः सोऽधर्मस्तं तं प्रतिनरं भवेत्
पात्रकर्मविशेषेण देशकालाववेक्ष्य च
१२.२९७.१८लीलयाल्पं यथा गात्रात्प्रमृज्याद्रजसः पुमान्
बहुयत्नेन महता पापनिर्हरणं तथा
१२.२९७.१९विरिक्तस्य यथा सम्यग्घृतं भवति भेषजम्
तथा निर्हृतदोषस्य प्रेत्यधर्मः सुखावहः
१२.२९७.२०मानसं सर्वभूतेषु वर्तते वै शुभाशुभे
अशुभेभ्यः समाक्षिप्य शुभेष्वेवावतारयेत्
१२.२९७.२१सर्वं सर्वेण सर्वत्र क्रियमाणं च पूजय
स्वधर्मे यत्र रागस्ते कामं धर्मो विधीयताम्
१२.२९७.२२अधृतात्मन्धृतौ तिष्ठ दुर्बुद्धे बुद्धिमान्भव
अप्रशान्त प्रशाम्य त्वमप्राज्ञ प्राज्ञवच्चर
१२.२९७.२३तेजसा शक्यते प्राप्तुमुपायसहचारिणा
इह च प्रेत्य च श्रेयस्तस्य मूलं धृतिः परा
१२.२९७.२४राजर्षिरधृतिः स्वर्गात्पतितो हि महाभिषः
ययातिः क्षीणपुण्यश्च धृत्या लोकानवाप्तवान्
१२.२९७.२५तपस्विनां धर्मवतां विदुषां चोपसेवनात्
प्राप्स्यसे विपुलां बुद्धिं तथा श्रेयोऽभिपत्स्यसे
१२.२९७.२६स तु स्वभावसंपन्नस्तच्छ्रुत्वा मुनिभाषितम्
विनिवर्त्य मनः कामाद्धर्मे बुद्धिं चकार ह