१२. शान्तिपर्व
१२.३.१नारद उवाच

१२.३.२कर्णस्य बाहुवीर्येण प्रश्रयेण दमेन च
तुतोष भृगुशार्दूलो गुरुशुश्रूषया तथा

१२.३.३तस्मै स विधिवत्कृत्स्नं ब्रह्मास्त्रं सनिवर्तनम्
प्रोवाचाखिलमव्यग्रं तपस्वी सुतपस्विने

१२.३.४विदितास्त्रस्ततः कर्णो रममाणोऽऽश्रमे भृगोः
चकार वै धनुर्वेदे यत्नमद्भुतविक्रमः

१२.३.५ततः कदाचिद्रामस्तु चरन्नाश्रममन्तिकात्
कर्णेन सहितो धीमानुपवासेन कर्शितः

१२.३.६सुष्वाप जामदग्न्यो वै विस्रम्भोत्पन्नसौहृदः
कर्णस्योत्सङ्ग आधाय शिरः क्लान्तमना गुरुः

१२.३.७अथ कृमिः श्लेष्ममयो मांसशोणितभोजनः
दारुणो दारुणस्पर्शः कर्णस्याभ्याशमागमत्

१२.३.८स तस्योरुमथासाद्य बिभेद रुधिराशनः
न चैनमशकत्क्षेप्तुं हन्तुं वापि गुरोर्भयात्

१२.३.९संदश्यमानोऽपि तथा कृमिणा तेन भारत
गुरुप्रबोधशङ्की च तमुपैक्षत सूतजः

१२.३.१०कर्णस्तु वेदनां धैर्यादसह्यां विनिगृह्य ताम्
अकम्पन्नव्यथंश्चैव धारयामास भार्गवम्

१२.३.११यदा तु रुधिरेणाङ्गे परिस्पृष्टो भृगूद्वहः
तदाबुध्यत तेजस्वी संतप्तश्चेदमब्रवीत्

१२.३.१२अहोऽस्म्यशुचितां प्राप्तः किमिदं क्रियते त्वया
कथयस्व भयं त्यक्त्वा याथातथ्यमिदं मम

१२.३.१३तस्य कर्णस्तदाचष्ट कृमिणा परिभक्षणम्
ददर्श रामस्तं चापि कृमिं सूकरसंनिभम्

१२.३.१४अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिरिव संवृतम्
रोमभिः संनिरुद्धाङ्गमलर्कं नाम नामतः

१२.३.१५स दृष्टमात्रो रामेण कृमिः प्राणानवासृजत्
तस्मिन्नेवासृक्संक्लिन्ने तदद्भुतमिवाभवत्

१२.३.१६ततोऽन्तरिक्षे ददृशे विश्वरूपः करालवान्
राक्षसो लोहितग्रीवः कृष्णाङ्गो मेघवाहनः

१२.३.१७स रामं प्राञ्जलिर्भूत्वा बभाषे पूर्णमानसः
स्वस्ति ते भृगुशार्दूल गमिष्यामि यथागतम्

१२.३.१८मोक्षितो नरकादस्मि भवता मुनिसत्तम
भद्रं च तेऽस्तु नन्दिश्च प्रियं मे भवता कृतम्

१२.३.१९तमुवाच महाबाहुर्जामदग्न्यः प्रतापवान्
कस्त्वं कस्माच्च नरकं प्रतिपन्नो ब्रवीहि तत्

१२.३.२०सोऽब्रवीदहमासं प्राग्गृत्सो नाम महासुरः
पुरा देवयुगे तात भृगोस्तुल्यवया इव

१२.३.२१सोऽहं भृगोः सुदयितां भार्यामपहरं बलात्
महर्षेरभिशापेन कृमिभूतोऽपतं भुवि

१२.३.२२अब्रवीत्तु स मां क्रोधात्तव पूर्वपितामहः
मूत्रश्लेष्माशनः पाप निरयं प्रतिपत्स्यसे

१२.३.२३शापस्यान्तो भवेद्ब्रह्मन्नित्येवं तमथाब्रुवम्
भविता भार्गवे राम इति मामब्रवीद्भृगुः

१२.३.२४सोऽहमेतां गतिं प्राप्तो यथा नकुशलं तथा
त्वया साधो समागम्य विमुक्तः पापयोनितः

१२.३.२५एवमुक्त्वा नमस्कृत्य ययौ रामं महासुरः
रामः कर्णं तु सक्रोधमिदं वचनमब्रवीत्

१२.३.२६अतिदुःखमिदं मूढ न जातु ब्राह्मणः सहेत्
क्षत्रियस्यैव ते धैर्यं कामया सत्यमुच्यताम्

१२.३.२७तमुवाच ततः कर्णः शापभीतः प्रसादयन्
ब्रह्मक्षत्रान्तरे सूतं जातं मां विद्धि भार्गव

१२.३.२८राधेयः कर्ण इति मां प्रवदन्ति जना भुवि
प्रसादं कुरु मे ब्रह्मन्नस्त्रलुब्धस्य भार्गव

१२.३.२९पिता गुरुर्न संदेहो वेदविद्याप्रदः प्रभुः
अतो भार्गव इत्युक्तं मया गोत्रं तवान्तिके

१२.३.३०तमुवाच भृगुश्रेष्ठः सरोषः प्रहसन्निव
भूमौ निपतितं दीनं वेपमानं कृताञ्जलिम्

१२.३.३१यस्मान्मिथ्योपचरितो अस्त्रलोभादिह त्वया
तस्मादेतद्धि ते मूढ ब्रह्मास्त्रं प्रतिभास्यति

१२.३.३२अन्यत्र वधकालात्ते सदृशेन समेयुषः
अब्राह्मणे न हि ब्रह्म ध्रुवं तिष्ठेत्कदाचन

१२.३.३३गच्छेदानीं न ते स्थानमनृतस्येह विद्यते
न त्वया सदृशो युद्धे भविता क्षत्रियो भुवि

१२.३.३४एवमुक्तस्तु रामेण न्यायेनोपजगाम सः
दुर्योधनमुपागम्य कृतास्त्रोऽस्मीति चाब्रवीत्