१२.४.१नारद उवाच
१२.४.२कर्णस्तु समवाप्यैतदस्त्रं भार्गवनन्दनात्
दुर्योधनेन सहितो मुमुदे भरतर्षभ
१२.४.३ततः कदाचिद्राजानः समाजग्मुः स्वयंवरे
कलिङ्गविषये राजन्राज्ञश्चित्राङ्गदस्य च
१२.४.४श्रीमद्राजपुरं नाम नगरं तत्र भारत
राजानः शतशस्तत्र कन्यार्थं समुपागमन्
१२.४.५श्रुत्वा दुर्योधनस्तत्र समेतान्सर्वपार्थिवान्
रथेन काञ्चनाङ्गेन कर्णेन सहितो ययौ
१२.४.६ततः स्वयंवरे तस्मिन्संप्रवृत्ते महोत्सवे
समापेतुर्नृपतयः कन्यार्थे नृपसत्तम
१२.४.७शिशुपालो जरासंधो भीष्मको वक्र एव च
कपोतरोमा नीलश्च रुक्मी च दृढविक्रमः
१२.४.८सृगालश्च महाराज स्त्रीराज्याधिपतिश्च यः
अशोकः शतधन्वा च भोजो वीरश्च नामतः
१२.४.९एते चान्ये च बहवो दक्षिणां दिशमाश्रिताः
म्लेच्छाचार्याश्च राजानः प्राच्योदीच्याश्च भारत
१२.४.१०काञ्चनाङ्गदिनः सर्वे बद्धजाम्बूनदस्रजः
सर्वे भास्वरदेहाश्च व्याघ्रा इव मदोत्कटाः
१२.४.११ततः समुपविष्टेषु तेषु राजसु भारत
विवेश रङ्गं सा कन्या धात्रीवर्षधरान्विता
१२.४.१२ततः संश्राव्यमाणेषु राज्ञां नामसु भारत
अत्यक्रामद्धार्तराष्ट्रं सा कन्या वरवर्णिनी
१२.४.१३दुर्योधनस्तु कौरव्यो नामर्षयत लङ्घनम्
प्रत्यषेधच्च तां कन्यामसत्कृत्य नराधिपान्
१२.४.१४स वीर्यमदमत्तत्वाद्भीष्मद्रोणावुपाश्रितः
रथमारोप्य तां कन्यामाजुहाव नराधिपान्
१२.४.१५तमन्वयाद्रथी खड्गी भद्धगोधाङ्गुलित्रवान्
कर्णः शस्त्रभृतां श्रेष्ठः पृष्ठतः पुरुषर्षभ
१२.४.१६ततो विमर्दः सुमहान्राज्ञामासीद्युधिष्ठिर
संनह्यतां तनुत्राणि रथान्योजयतामपि
१२.४.१७तेऽभ्यधावन्त संक्रुद्धाः कर्णदुर्योधनावुभौ
शरवर्षाणि मुञ्चन्तो मेघाः पर्वतयोरिव
१२.४.१८कर्णस्तेषामापततामेकैकेन क्षुरेण ह
धनूंषि सशरावापान्यपातयत भूतले
१२.४.१९ततो विधनुषः कांश्चित्कांश्चिदुद्यतकार्मुकान्
कांश्चिदुद्वहतो बाणान्रथशक्तिगदास्तथा
१२.४.२०लाघवादाकुलीकृत्य कर्णः प्रहरतां वरः
हतसूतांश्च भूयिष्ठानवजिग्ये नराधिपान्
१२.४.२१ते स्वयं त्वरयन्तोऽश्वान्याहि याहीति वादिनः
व्यपेयुस्ते रणं हित्वा राजानो भग्नमानसाः
१२.४.२२दुर्योधनस्तु कर्णेन पाल्यमानोऽभ्ययात्तदा
हृष्टः कन्यामुपादाय नगरं नागसाह्वयम्