१२.३०४.१याज्ञवल्क्य उवाच
१२.३०४.२सांख्यज्ञानं मया प्रोक्तं योगज्ञानं निबोध मे
यथाश्रुतं यथादृष्टं तत्त्वेन नृपसत्तम
१२.३०४.३नास्ति सांख्यसमं ज्ञानं नास्ति योगसमं बलम्
तावुभावेकचर्यौ तु उभावनिधनौ स्मृतौ
१२.३०४.४पृथक्पृथक्तु पश्यन्ति येऽल्पबुद्धिरता नराः
वयं तु राजन्पश्याम एकमेव तु निश्चयात्
१२.३०४.५यदेव योगाः पश्यन्ति तत्सांख्यैरपि दृश्यते
एकं सांख्यं च योगं च यः पश्यति स तत्त्ववित्
१२.३०४.६रुद्रप्रधानानपरान्विद्धि योगान्परंतप
तेनैव चाथ देहेन विचरन्ति दिशो दश
१२.३०४.७यावद्धि प्रलयस्तात सूक्ष्मेणाष्टगुणेन वै
योगेन लोकान्विचरन्सुखं संन्यस्य चानघ
१२.३०४.८वेदेषु चाष्टगुणितं योगमाहुर्मनीषिणः
सूक्ष्ममष्टगुणं प्राहुर्नेतरं नृपसत्तम
१२.३०४.९द्विगुणं योगकृत्यं तु योगानां प्राहुरुत्तमम्
सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम्
१२.३०४.१०धारणा चैव मनसः प्राणायामश्च पार्थिव
प्राणायामो हि सगुणो निर्गुणं धारणं मनः
१२.३०४.११यत्र दृश्येत मुञ्चन्वै प्राणान्मैथिलसत्तम
वाताधिक्यं भवत्येव तस्माद्धि न समाचरेत्
१२.३०४.१२निशायाः प्रथमे यामे चोदना द्वादश स्मृताः
मध्ये सुप्त्वा परे यामे द्वादशैव तु चोदनाः
१२.३०४.१३तदेवमुपशान्तेन दान्तेनैकान्तशीलिना
आत्मारामेण बुद्धेन योक्तव्योऽऽत्मा न संशयः
१२.३०४.१४पञ्चानामिन्द्रियाणां तु दोषानाक्षिप्य पञ्चधा
शब्दं स्पर्शं तथा रूपं रसं गन्धं तथैव च
१२.३०४.१५प्रतिभामपवर्गं च प्रतिसंहृत्य मैथिल
इन्द्रियग्राममखिलं मनस्यभिनिवेश्य ह
१२.३०४.१६मनस्तथैवाहंकारे प्रतिष्ठाप्य नराधिप
अहंकारं तथा बुद्धौ बुद्धिं च प्रकृतावपि
१२.३०४.१७एवं हि परिसंख्याय ततो ध्यायेत केवलम्
विरजस्कमलं नित्यमनन्तं शुद्धमव्रणम्
१२.३०४.१८तस्थुषं पुरुषं सत्त्वमभेद्यमजरामरम्
शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाव्ययम्
१२.३०४.१९युक्तस्य तु महाराज लक्षणान्युपधारयेत्
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत्
१२.३०४.२०निवाते तु यथा दीपो ज्वलेत्स्नेहसमन्वितः
निश्चलोर्ध्वशिखस्तद्वद्युक्तमाहुर्मनीषिणः
१२.३०४.२१पाषाण इव मेघोत्थैर्यथा बिन्दुभिराहतः
नालं चालयितुं शक्यस्तथा युक्तस्य लक्षणम्
१२.३०४.२२शङ्खदुन्दुभिनिर्घोषैर्विविधैर्गीतवादितैः
क्रियमाणैर्न कम्पेत युक्तस्यैतन्निदर्शनम्
१२.३०४.२३तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः
सोपानमारुहेद्भीतस्तर्ज्यमानोऽसिपाणिभिः
१२.३०४.२४संयतात्मा भयात्तेषां न पात्राद्बिन्दुमुत्सृजेत्
तथैवोत्तरमाणस्य एकाग्रमनसस्तथा
१२.३०४.२५स्थिरत्वादिन्द्रियाणां तु निश्चलत्वात्तथैव च
एवं युक्तस्य तु मुनेर्लक्षणान्युपधारयेत्
१२.३०४.२६स युक्तः पश्यति ब्रह्म यत्तत्परममव्ययम्
महतस्तमसो मध्ये स्थितं ज्वलनसंनिभम्
१२.३०४.२७एतेन केवलं याति त्यक्त्वा देहमसाक्षिकम्
कालेन महता राजञ्श्रुतिरेषा सनातनी
१२.३०४.२८एतद्धि योगं योगानां किमन्यद्योगलक्षणम्
विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः