१२. शान्तिपर्व
१२.३०३.१याज्ञवल्क्य उवाच

१२.३०३.२न शक्यो निर्गुणस्तात गुणीकर्तुं विशां पते
गुणवांश्चाप्यगुणवान्यथातत्त्वं निबोध मे

१२.३०३.३गुणैर्हि गुणवानेव निर्गुणश्चागुणस्तथा
प्राहुरेवं महात्मानो मुनयस्तत्त्वदर्शिनः

१२.३०३.४गुणस्वभावस्त्वव्यक्तो गुणानेवाभिवर्तते
उपयुङ्क्ते च तानेव स चैवाज्ञः स्वभावतः

१२.३०३.५अव्यक्तस्तु न जानीते पुरुषो ज्ञः स्वभावतः
न मत्तः परमस्तीति नित्यमेवाभिमन्यते

१२.३०३.६अनेन कारणेनैतदव्यक्तं स्यादचेतनम्
नित्यत्वादक्षरत्वाच्च क्षराणां तत्त्वतोऽन्यथा

१२.३०३.७यदाज्ञानेन कुर्वीत गुणसर्गं पुनः पुनः
यदात्मानं न जानीते तदाव्यक्तमिहोच्यते

१२.३०३.८कर्तृत्वाच्चापि तत्त्वानां तत्त्वधर्मी तथोच्यते
कर्तृत्वाच्चैव योनीनां योनिधर्मा तथोच्यते

१२.३०३.९कर्तृत्वात्प्रकृतीनां तु तथा प्रकृतिधर्मिता
कर्तृत्वाच्चापि बीजानां बीजधर्मी तथोच्यते

१२.३०३.१०गुणानां प्रसवत्वाच्च तथा प्रसवधर्मवान्
कर्तृत्वात्प्रलयानां च तथा प्रलयधर्मिता

१२.३०३.११बीजत्वात्प्रकृतित्वाच्च प्रलयत्वात्तथैव च
उपेक्षकत्वादन्यत्वादभिमानाच्च केवलम्

१२.३०३.१२मन्यन्ते यतयः शुद्धा अध्यात्मविगतज्वराः
अनित्यं नित्यमव्यक्तमेवमेतद्धि शुश्रुम

१२.३०३.१३अव्यक्तैकत्वमित्याहुर्नानात्वं पुरुषस्तथा
सर्वभूतदयावन्तः केवलं ज्ञानमास्थिताः

१२.३०३.१४अन्यः स पुरुषोऽव्यक्तस्त्वध्रुवो ध्रुवसंज्ञकः
यथा मुञ्ज इषीकायास्तथैवैतद्धि जायते

१२.३०३.१५अन्यं च मशकं विद्यादन्यच्चोदुम्बरं तथा
न चोदुम्बरसंयोगैर्मशकस्तत्र लिप्यते

१२.३०३.१६अन्य एव तथा मत्स्यस्तथान्यदुदकं स्मृतम्
न चोदकस्य स्पर्शेन मत्स्यो लिप्यति सर्वशः

१२.३०३.१७अन्यो ह्यग्निरुखाप्यन्या नित्यमेवमवैहि भोः
न चोपलिप्यते सोऽग्निरुखासंस्पर्शनेन वै

१२.३०३.१८पुष्करं त्वन्यदेवात्र तथान्यदुदकं स्मृतम्
न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम्

१२.३०३.१९एतेषां सह संवासं विवासं चैव नित्यशः
यथा तथैनं पश्यन्ति न नित्यं प्राकृता जनाः

१२.३०३.२०ये त्वन्यथैव पश्यन्ति न सम्यक्तेषु दर्शनम्
ते व्यक्तं निरयं घोरं प्रविशन्ति पुनः पुनः

१२.३०३.२१सांख्यदर्शनमेतत्ते परिसंख्यातमुत्तमम्
एवं हि परिसंख्याय सांख्याः केवलतां गताः

१२.३०३.२२ये त्वन्ये तत्त्वकुशलास्तेषामेतन्निदर्शनम्
अतः परं प्रवक्ष्यामि योगानामपि दर्शनम्