१२. शान्तिपर्व
१२.३०८.१युधिष्ठिर उवाच

१२.३०८.२अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम
कः प्राप्तो विनयं बुद्ध्या मोक्षतत्त्वं वदस्व मे

१२.३०८.३संन्यस्यते यथात्मायं संन्यस्तात्मा यथा च यः
परं मोक्षस्य यच्चापि तन्मे ब्रूहि पितामह

१२.३०८.४भीष्म उवाच

१२.३०८.५अत्राप्युदाहरन्तीममितिहासं पुरातनम्
जनकस्य च संवादं सुलभायाश्च भारत

१२.३०८.६संन्यासफलिकः कश्चिद्बभूव नृपतिः पुरा
मैथिलो जनको नाम धर्मध्वज इति श्रुतः

१२.३०८.७स वेदे मोक्षशास्त्रे च स्वे च शास्त्रे कृतागमः
इन्द्रियाणि समाधाय शशास वसुधामिमाम्

१२.३०८.८तस्य वेदविदः प्राज्ञाः श्रुत्वा तां साधुवृत्तताम्
लोकेषु स्पृहयन्त्यन्ये पुरुषाः पुरुषेश्वर

१२.३०८.९अथ धर्मयुगे तस्मिन्योगधर्ममनुष्ठिता
महीमनुचचारैका सुलभा नाम भिक्षुकी

१२.३०८.१०तया जगदिदं सर्वमटन्त्या मिथिलेश्वरः
तत्र तत्र श्रुतो मोक्षे कथ्यमानस्त्रिदण्डिभिः

१२.३०८.११सा सुसूक्ष्मां कथां श्रुत्वा तथ्यं नेति ससंशया
दर्शने जातसंकल्पा जनकस्य बभूव ह

१२.३०८.१२ततः सा विप्रहायाथ पूर्वरूपं हि योगतः
अबिभ्रदनवद्याङ्गी रूपमन्यदनुत्तमम्

१२.३०८.१३चक्षुर्निमेषमात्रेण लघ्वस्त्रगतिगामिनी
विदेहानां पुरीं सुभ्रूर्जगाम कमलेक्षणा

१२.३०८.१४सा प्राप्य मिथिलां रम्यां समृद्धजनसंकुलाम्
भैक्षचर्यापदेशेन ददर्श मिथिलेश्वरम्

१२.३०८.१५राजा तस्याः परं दृष्ट्वा सौकुमार्यं वपुस्तथा
केयं कस्य कुतो वेति बभूवागतविस्मयः

१२.३०८.१६ततोऽस्याः स्वागतं कृत्वा व्यादिश्य च वरासनम्
पूजितां पादशौचेन वरान्नेनाप्यतर्पयत्

१२.३०८.१७अथ भुक्तवती प्रीता राजानं मन्त्रिभिर्वृतम्
सर्वभाष्यविदां मध्ये चोदयामास भिक्षुकी

१२.३०८.१८सुलभा त्वस्य धर्मेषु मुक्तो नेति ससंशया
सत्त्वं सत्त्वेन योगज्ञा प्रविवेश महीपते

१२.३०८.१९नेत्राभ्यां नेत्रयोरस्य रश्मीन्संयोज्य रश्मिभिः
सा स्म संचोदयिष्यन्तं योगबन्धैर्बबन्ध ह

१२.३०८.२०जनकोऽप्युत्स्मयन्राजा भावमस्या विशेषयन्
प्रतिजग्राह भावेन भावमस्या नृपोत्तमः

१२.३०८.२१तदेकस्मिन्नधिष्ठाने संवादः श्रूयतामयम्
छत्रादिषु विमुक्तस्य मुक्तायाश्च त्रिदण्डके

१२.३०८.२२भगवत्याः क्व चर्येयं कृता क्व च गमिष्यसि
कस्य च त्वं कुतो वेति पप्रच्छैनां महीपतिः

१२.३०८.२३श्रुते वयसि जातौ च सद्भावो नाधिगम्यते
एष्वर्थेषूत्तरं तस्मात्प्रवेद्यं सत्समागमे

१२.३०८.२४छत्रादिषु विशेषेषु मुक्तं मां विद्धि सर्वशः
स त्वां संमन्तुमिच्छामि मानार्हासि मता हि मे

१२.३०८.२५यस्माच्चैतन्मया प्राप्तं ज्ञानं वैशेषिकं पुरा
यस्य नान्यः प्रवक्तास्ति मोक्षे तमपि मे शृणु

१२.३०८.२६पाराशर्यसगोत्रस्य वृद्धस्य सुमहात्मनः
भिक्षोः पञ्चशिखस्याहं शिष्यः परमसंमतः

१२.३०८.२७सांख्यज्ञाने तथा योगे महीपालविधौ तथा
त्रिविधे मोक्षधर्मेऽस्मिन्गताध्वा छिन्नसंशयः

१२.३०८.२८स यथाशास्त्रदृष्टेन मार्गेणेह परिव्रजन्
वार्षिकांश्चतुरो मासान्पुरा मयि सुखोषितः

१२.३०८.२९तेनाहं सांख्यमुख्येन सुदृष्टार्थेन तत्त्वतः
श्रावितस्त्रिविधं मोक्षं न च राज्याद्विचालितः

१२.३०८.३०सोऽहं तामखिलां वृत्तिं त्रिविधां मोक्षसंहिताम्
मुक्तरागश्चराम्येकः पदे परमके स्थितः

१२.३०८.३१वैराग्यं पुनरेतस्य मोक्षस्य परमो विधिः
ज्ञानादेव च वैराग्यं जायते येन मुच्यते

१२.३०८.३२ज्ञानेन कुरुते यत्नं यत्नेन प्राप्यते महत्
महद्द्वंद्वप्रमोक्षाय सा सिद्धिर्या वयोतिगा

१२.३०८.३३सेयं परमिका बुद्धिः प्राप्ता निर्द्वंद्वता मया
इहैव गतमोहेन चरता मुक्तसङ्गिना

१२.३०८.३४यथा क्षेत्रं मृदूभूतमद्भिराप्लावितं तथा
जनयत्यङ्कुरं कर्म नृणां तद्वत्पुनर्भवम्

१२.३०८.३५यथा चोत्तापितं बीजं कपाले यत्र तत्र वा
प्राप्याप्यङ्कुरहेतुत्वमबीजत्वान्न जायते

१२.३०८.३६तद्वद्भगवता तेन शिखाप्रोक्तेन भिक्षुणा
ज्ञानं कृतमबीजं मे विषयेषु न जायते

१२.३०८.३७नाभिषज्जति कस्मिंश्चिन्नानर्थे न परिग्रहे
नाभिरज्यति चैतेषु व्यर्थत्वाद्रागदोषयोः

१२.३०८.३८यश्च मे दक्षिणं बाहुं चन्दनेन समुक्षयेत्
सव्यं वास्या च यस्तक्षेत्समावेतावुभौ मम

१२.३०८.३९सुखी सोऽहमवाप्तार्थः समलोष्टाश्मकाञ्चनः
मुक्तसङ्गः स्थितो राज्ये विशिष्टोऽन्यैस्त्रिदण्डिभिः

१२.३०८.४०मोक्षे हि त्रिविधा निष्ठा दृष्टा पूर्वैर्महर्षिभिः
ज्ञानं लोकोत्तरं यच्च सर्वत्यागश्च कर्मणाम्

१२.३०८.४१ज्ञाननिष्ठां वदन्त्येके मोक्षशास्त्रविदो जनाः
कर्मनिष्ठां तथैवान्ये यतयः सूक्ष्मदर्शिनः

१२.३०८.४२प्रहायोभयमप्येतज्ज्ञानं कर्म च केवलम्
तृतीयेयं समाख्याता निष्ठा तेन महात्मना

१२.३०८.४३यमे च नियमे चैव द्वेषे कामे परिग्रहे
माने दम्भे तथा स्नेहे सदृशास्ते कुटुम्बिभिः

१२.३०८.४४त्रिदण्डादिषु यद्यस्ति मोक्षो ज्ञानेन केनचित्
छत्रादिषु कथं न स्यात्तुल्यहेतौ परिग्रहे

१२.३०८.४५येन येन हि यस्यार्थः कारणेनेह कस्यचित्
तत्तदालम्बते द्रव्यं सर्वः स्वे स्वे परिग्रहे

१२.३०८.४६दोषदर्शी तु गार्हस्थ्ये यो व्रजत्याश्रमान्तरम्
उत्सृजन्परिगृह्णंश्च सोऽपि सङ्गान्न मुच्यते

१२.३०८.४७आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मनि
राजर्षिभिक्षुकाचार्या मुच्यन्ते केन हेतुना

१२.३०८.४८अथ सत्याधिपत्येऽपि ज्ञानेनैवेह केवलम्
मुच्यन्ते किं न मुच्यन्ते पदे परमके स्थिताः

१२.३०८.४९काषायधारणं मौण्ड्यं त्रिविष्टब्धः कमण्डलुः
लिङ्गान्यत्यर्थमेतानि न मोक्षायेति मे मतिः

१२.३०८.५०यदि सत्यपि लिङ्गेऽस्मिञ्ज्ञानमेवात्र कारणम्
निर्मोक्षायेह दुःखस्य लिङ्गमात्रं निरर्थकम्

१२.३०८.५१अथ वा दुःखशैथिल्यं वीक्ष्य लिङ्गे कृता मतिः
किं तदेवार्थसामान्यं छत्रादिषु न लक्ष्यते

१२.३०८.५२आकिंचन्ये न मोक्षोऽस्ति कैंचन्ये नास्ति बन्धनम्
कैंचन्ये चेतरे चैव जन्तुर्ज्ञानेन मुच्यते

१२.३०८.५३तस्माद्धर्मार्थकामेषु तथा राज्यपरिग्रहे
बन्धनायतनेष्वेषु विद्ध्यबन्धे पदे स्थितम्

१२.३०८.५४राज्यैश्वर्यमयः पाशः स्नेहायतनबन्धनः
मोक्षाश्मनिशितेनेह छिन्नस्त्यागासिना मया

१२.३०८.५५सोऽहमेवंगतो मुक्तो जातास्थस्त्वयि भिक्षुकि
अयथार्थो हि ते वर्णो वक्ष्यामि शृणु तन्मम

१२.३०८.५६सौकुमार्यं तथा रूपं वपुरग्र्यं तथा वयः
तवैतानि समस्तानि नियमश्चेति संशयः

१२.३०८.५७यच्चाप्यननुरूपं ते लिङ्गस्यास्य विचेष्टितम्
मुक्तोऽयं स्यान्न वेत्यस्माद्धर्षितो मत्परिग्रहः

१२.३०८.५८न च कामसमायुक्ते मुक्तेऽप्यस्ति त्रिदण्डकम्
न रक्ष्यते त्वया चेदं न मुक्तस्यास्ति गोपना

१२.३०८.५९मत्पक्षसंश्रयाच्चायं शृणु यस्ते व्यतिक्रमः
आश्रयन्त्याः स्वभावेन मम पूर्वपरिग्रहम्

१२.३०८.६०प्रवेशस्ते कृतः केन मम राष्ट्रे पुरे तथा
कस्य वा संनिसर्गात्त्वं प्रविष्टा हृदयं मम

१२.३०८.६१वर्णप्रवरमुख्यासि ब्राह्मणी क्षत्रियो ह्यहम्
नावयोरेकयोगोऽस्ति मा कृथा वर्णसंकरम्

१२.३०८.६२वर्तसे मोक्षधर्मेषु गार्हस्थ्ये त्वहमाश्रमे
अयं चापि सुकष्टस्ते द्वितीयोऽऽश्रमसंकरः

१२.३०८.६३सगोत्रां वासगोत्रां वा न वेद त्वां न वेत्थ माम्
सगोत्रमाविशन्त्यास्ते तृतीयो गोत्रसंकरः

१२.३०८.६४अथ जीवति ते भर्ता प्रोषितोऽप्यथ वा क्वचित्
अगम्या परभार्येति चतुर्थो धर्मसंकरः

१२.३०८.६५सा त्वमेतान्यकार्याणि कार्यापेक्षा व्यवस्यसि
अविज्ञानेन वा युक्ता मिथ्याज्ञानेन वा पुनः

१२.३०८.६६अथ वापि स्वतन्त्रासि स्वदोषेणेह केनचित्
यदि किंचिच्छ्रुतं तेऽस्ति सर्वं कृतमनर्थकम्

१२.३०८.६७इदमन्यत्तृतीयं ते भावस्पर्शविघातकम्
दुष्टाया लक्ष्यते लिङ्गं प्रवक्तव्यं प्रकाशितम्

१२.३०८.६८न मय्येवाभिसंधिस्ते जयैषिण्या जये कृतः
येयं मत्परिषत्कृत्स्ना जेतुमिच्छसि तामपि

१२.३०८.६९तथा ह्येवं पुनश्च त्वं दृष्टिं स्वां प्रतिमुञ्चसि
मत्पक्षप्रतिघाताय स्वपक्षोद्भावनाय च

१२.३०८.७०सा स्वेनामर्षजेन त्वमृद्धिमोहेन मोहिता
भूयः सृजसि योगास्त्रं विषामृतमिवैकधा

१२.३०८.७१इच्छतोर्हि द्वयोर्लाभः स्त्रीपुंसोरमृतोपमः
अलाभश्चाप्यरक्तस्य सोऽत्र दोषो विषोपमः

१२.३०८.७२मा स्प्राक्षीः साधु जानीष्व स्वशास्त्रमनुपालय
कृतेयं हि विजिज्ञासा मुक्तो नेति त्वया मम
एतत्सर्वं प्रतिच्छन्नं मयि नार्हसि गूहितुम्

१२.३०८.७३सा यदि त्वं स्वकार्येण यद्यन्यस्य महीपतेः
तत्त्वं सत्रप्रतिच्छन्ना मयि नार्हसि गूहितुम्

१२.३०८.७४न राजानं मृषा गच्छेन्न द्विजातिं कथंचन
न स्त्रियं स्त्रीगुणोपेतां हन्युर्ह्येते मृषागताः

१२.३०८.७५राज्ञां हि बलमैश्वर्यं ब्रह्म ब्रह्मविदां बलम्
रूपयौवनसौभाग्यं स्त्रीणां बलमनुत्तमम्

१२.३०८.७६अत एतैर्बलैरेते बलिनः स्वार्थमिच्छता
आर्जवेनाभिगन्तव्या विनाशाय ह्यनार्जवम्

१२.३०८.७७सा त्वं जातिं श्रुतं वृत्तं भावं प्रकृतिमात्मनः
कृत्यमागमने चैव वक्तुमर्हसि तत्त्वतः

१२.३०८.७८इत्येतैरसुखैर्वाक्यैरयुक्तैरसमञ्जसैः
प्रत्यादिष्टा नरेन्द्रेण सुलभा न व्यकम्पत

१२.३०८.७९उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना
ततश्चारुतरं वाक्यं प्रचक्रामाथ भाषितुम्

१२.३०८.८०नवभिर्नवभिश्चैव दोषैर्वाग्बुद्धिदूषणैः
अपेतमुपपन्नार्थमष्टादशगुणान्वितम्

१२.३०८.८१सौक्ष्म्यं संख्याक्रमौ चोभौ निर्णयः सप्रयोजनः
पञ्चैतान्यर्थजातानि वाक्यमित्युच्यते नृप

१२.३०८.८२एषामेकैकशोऽर्थानां सौक्ष्म्यादीनां सुलक्षणम्
शृणु संसार्यमाणानां पदार्थैः पदवाक्यतः

१२.३०८.८३ज्ञानं ज्ञेयेषु भिन्नेषु यथाभेदेन वर्तते
तत्रातिशयिनी बुद्धिस्तत्सौक्ष्म्यमिति वर्तते

१२.३०८.८४दोषाणां च गुणानां च प्रमाणं प्रविभागशः
कंचिदर्थमभिप्रेत्य सा संख्येत्युपधार्यताम्

१२.३०८.८५इदं पूर्वमिदं पश्चाद्वक्तव्यं यद्विवक्षितम्
क्रमयोगं तमप्याहुर्वाक्यं वाक्यविदो जनाः

१२.३०८.८६धर्मार्थकाममोक्षेषु प्रतिज्ञाय विशेषतः
इदं तदिति वाक्यान्ते प्रोच्यते स विनिर्णयः

१२.३०८.८७इच्छाद्वेषभवैर्दुःखैः प्रकर्षो यत्र जायते
तत्र या नृपते वृत्तिस्तत्प्रयोजनमिष्यते

१२.३०८.८८तान्येतानि यथोक्तानि सौक्ष्म्यादीनि जनाधिप
एकार्थसमवेतानि वाक्यं मम निशामय

१२.३०८.८९उपेतार्थमभिन्नार्थं नापवृत्तं न चाधिकम्
नाश्लक्ष्णं न च संदिग्धं वक्ष्यामि परमं तव

१२.३०८.९०न गुर्वक्षरसंबद्धं पराङ्मुखमुखं न च
नानृतं न त्रिवर्गेण विरुद्धं नाप्यसंस्कृतम्

१२.३०८.९१न न्यूनं कष्टशब्दं वा व्युत्क्रमाभिहितं न च
न शेषं नानुकल्पेन निष्कारणमहेतुकम्

१२.३०८.९२कामात्क्रोधाद्भयाल्लोभाद्दैन्यादानार्यकात्तथा
ह्रीतोऽनुक्रोशतो मानान्न वक्ष्यामि कथंचन

१२.३०८.९३वक्ता श्रोता च वाक्यं च यदा त्वविकलं नृप
सममेति विवक्षायां तदा सोऽर्थः प्रकाशते

१२.३०८.९४वक्तव्ये तु यदा वक्ता श्रोतारमवमन्यते
स्वार्थमाह परार्थं वा तदा वाक्यं न रोहति

१२.३०८.९५अथ यः स्वार्थमुत्सृज्य परार्थं प्राह मानवः
विशङ्का जायते तस्मिन्वाक्यं तदपि दोषवत्

१२.३०८.९६यस्तु वक्ता द्वयोरर्थमविरुद्धं प्रभाषते
श्रोतुश्चैवात्मनश्चैव स वक्ता नेतरो नृप

१२.३०८.९७तदर्थवदिदं वाक्यमुपेतं वाक्यसंपदा
अविक्षिप्तमना राजन्नेकाग्रः श्रोतुमर्हसि

१२.३०८.९८कासि कस्य कुतो वेति त्वयाहमभिचोदिता
तत्रोत्तरमिदं वाक्यं राजन्नेकमनाः शृणु

१२.३०८.९९यथा जतु च काष्ठं च पांसवश्चोदबिन्दुभिः
सुश्लिष्टानि तथा राजन्प्राणिनामिह संभवः

१२.३०८.१००शब्दः स्पर्शो रसो रूपं गन्धः पञ्चेन्द्रियाणि च
पृथगात्मा दशात्मानः संश्लिष्टा जतुकाष्ठवत्

१२.३०८.१०१न चैषां चोदना काचिदस्तीत्येष विनिश्चयः
एकैकस्येह विज्ञानं नास्त्यात्मनि तथा परे

१२.३०८.१०२न वेद चक्षुश्चक्षुष्ट्वं श्रोत्रं नात्मनि वर्तते
तथैव व्यभिचारेण न वर्तन्ते परस्परम्
संश्लिष्टा नाभिजायन्ते यथाप इह पांसवः

१२.३०८.१०३बाह्यानन्यानपेक्षन्ते गुणांस्तानपि मे शृणु
रूपं चक्षुः प्रकाशश्च दर्शने हेतवस्त्रयः
यथैवात्र तथान्येषु ज्ञानज्ञेयेषु हेतवः

१२.३०८.१०४ज्ञानज्ञेयान्तरे तस्मिन्मनो नामापरो गुणः
विचारयति येनायं निश्चये साध्वसाधुनी

१२.३०८.१०५द्वादशस्त्वपरस्तत्र बुद्धिर्नाम गुणः स्मृतः
येन संशयपूर्वेषु बोद्धव्येषु व्यवस्यति

१२.३०८.१०६अथ द्वादशके तस्मिन्सत्त्वं नामापरो गुणः
महासत्त्वोऽल्पसत्त्वो वा जन्तुर्येनानुमीयते

१२.३०८.१०७क्षेत्रज्ञ इति चाप्यन्यो गुणस्तत्र चतुर्दशः
ममायमिति येनायं मन्यते न च मन्यते

१२.३०८.१०८अथ पञ्चदशो राजन्गुणस्तत्रापरः स्मृतः
पृथक्कलासमूहस्य सामग्र्यं तदिहोच्यते

१२.३०८.१०९गुणस्त्वेवापरस्तत्र संघात इति षोडशः
आकृतिर्व्यक्तिरित्येतौ गुणौ यस्मिन्समाश्रितौ

१२.३०८.११०सुखदुःखे जरामृत्यू लाभालाभौ प्रियाप्रिये
इति चैकोनविंशोऽयं द्वंद्वयोग इति स्मृतः

१२.३०८.१११ऊर्ध्वमेकोनविंशत्याः कालो नामापरो गुणः
इतीमं विद्धि विंशत्या भूतानां प्रभवाप्ययम्

१२.३०८.११२विंशकश्चैष संघातो महाभूतानि पञ्च च
सदसद्भावयोगौ च गुणावन्यौ प्रकाशकौ

१२.३०८.११३इत्येवं विंशतिश्चैव गुणाः सप्त च ये स्मृताः
विधिः शुक्रं बलं चेति त्रय एते गुणाः परे

१२.३०८.११४एकविंशश्च दश च कलाः संख्यानतः स्मृताः
समग्रा यत्र वर्तन्ते तच्छरीरमिति स्मृतम्

१२.३०८.११५अव्यक्तं प्रकृतिं त्वासां कलानां कश्चिदिच्छति
व्यक्तं चासां तथैवान्यः स्थूलदर्शी प्रपश्यति

१२.३०८.११६अव्यक्तं यदि वा व्यक्तं द्वयीमथ चतुष्टयीम्
प्रकृतिं सर्वभूतानां पश्यन्त्यध्यात्मचिन्तकाः

१२.३०८.११७सेयं प्रकृतिरव्यक्ता कलाभिर्व्यक्ततां गता
अहं च त्वं च राजेन्द्र ये चाप्यन्ये शरीरिणः

१२.३०८.११८बिन्दुन्यासादयोऽवस्थाः शुक्रशोणितसंभवाः
यासामेव निपातेन कललं नाम जायते

१२.३०८.११९कललादर्बुदोत्पत्तिः पेशी चाप्यर्बुदोद्भवा
पेश्यास्त्वङ्गाभिनिर्वृत्तिर्नखरोमाणि चाङ्गतः

१२.३०८.१२०संपूर्णे नवमे मासे जन्तोर्जातस्य मैथिल
जायते नामरूपत्वं स्त्री पुमान्वेति लिङ्गतः

१२.३०८.१२१जातमात्रं तु तद्रूपं दृष्ट्वा ताम्रनखाङ्गुलि
कौमाररूपमापन्नं रूपतो नोपलभ्यते

१२.३०८.१२२कौमाराद्यौवनं चापि स्थाविर्यं चापि यौवनात्
अनेन क्रमयोगेन पूर्वं पूर्वं न लभ्यते

१२.३०८.१२३कलानां पृथगर्थानां प्रतिभेदः क्षणे क्षणे
वर्तते सर्वभूतेषु सौक्ष्म्यात्तु न विभाव्यते

१२.३०८.१२४न चैषामप्ययो राजँल्लक्ष्यते प्रभवो न च
अवस्थायामवस्थायां दीपस्येवार्चिषो गतिः

१२.३०८.१२५तस्याप्येवंप्रभावस्य सदश्वस्येव धावतः
अजस्रं सर्वलोकस्य कः कुतो वा न वा कुतः

१२.३०८.१२६कस्येदं कस्य वा नेदं कुतो वेदं न वा कुतः
संबन्धः कोऽस्ति भूतानां स्वैरप्यवयवैरिह

१२.३०८.१२७यथादित्यान्मणेश्चैव वीरुद्भ्यश्चैव पावकः
भवत्येवं समुदयात्कलानामपि जन्तवः

१२.३०८.१२८आत्मन्येवात्मनात्मानं यथा त्वमनुपश्यसि
एवमेवात्मनात्मानमन्यस्मिन्किं न पश्यसि
यद्यात्मनि परस्मिंश्च समतामध्यवस्यसि

१२.३०८.१२९अथ मां कासि कस्येति किमर्थमनुपृच्छसि
इदं मे स्यादिदं नेति द्वंद्वैर्मुक्तस्य मैथिल
कासि कस्य कुतो वेति वचने किं प्रयोजनम्

१२.३०८.१३०रिपौ मित्रेऽथ मध्यस्थे विजये संधिविग्रहे
कृतवान्यो महीपाल किं तस्मिन्मुक्तलक्षणम्

१२.३०८.१३१त्रिवर्गे सप्तधा व्यक्तं यो न वेदेह कर्मसु
सङ्गवान्यस्त्रिवर्गे च किं तस्मिन्मुक्तलक्षणम्

१२.३०८.१३२प्रिये चैवाप्रिये चैव दुर्बले बलवत्यपि
यस्य नास्ति समं चक्षुः किं तस्मिन्मुक्तलक्षणम्

१२.३०८.१३३तदमुक्तस्य ते मोक्षे योऽभिमानो भवेन्नृप
सुहृद्भिः स निवार्यस्ते विचित्तस्येव भेषजैः

१२.३०८.१३४तानि तान्यनुसंदृश्य सङ्गस्थानान्यरिंदम
आत्मनात्मनि संपश्येत्किं तस्मिन्मुक्तलक्षणम्

१२.३०८.१३५इमान्यन्यानि सूक्ष्माणि मोक्षमाश्रित्य कानिचित्
चतुरङ्गप्रवृत्तानि सङ्गस्थानानि मे शृणु

१२.३०८.१३६य इमां पृथिवीं कृत्स्नामेकच्छत्रां प्रशास्ति ह
एकमेव स वै राजा पुरमध्यावसत्युत

१२.३०८.१३७तत्पुरे चैकमेवास्य गृहं यदधितिष्ठति
गृहे शयनमप्येकं निशायां यत्र लीयते

१२.३०८.१३८शय्यार्धं तस्य चाप्यत्र स्त्रीपूर्वमधितिष्ठति
तदनेन प्रसङ्गेन फलेनैवेह युज्यते

१२.३०८.१३९एवमेवोपभोगेषु भोजनाच्छादनेषु च
गुणेषु परिमेयेषु निग्रहानुग्रहौ प्रति

१२.३०८.१४०परतन्त्रः सदा राजा स्वल्पे सोऽपि प्रसज्जते
संधिविग्रहयोगे च कुतो राज्ञः स्वतन्त्रता

१२.३०८.१४१स्त्रीषु क्रीडाविहारेषु नित्यमस्यास्वतन्त्रता
मन्त्रे चामात्यसमितौ कुत एव स्वतन्त्रता

१२.३०८.१४२यदा त्वाज्ञापयत्यन्यांस्तदास्योक्ता स्वतन्त्रता
अवशः कार्यते तत्र तस्मिंस्तस्मिन्गुणे स्थितः

१२.३०८.१४३स्वप्तुकामो न लभते स्वप्तुं कार्यार्थिभिर्जनैः
शयने चाप्यनुज्ञातः सुप्त उत्थाप्यतेऽवशः

१२.३०८.१४४स्नाह्यालभ पिब प्राश जुहुध्यग्नीन्यजेति च
वदस्व शृणु चापीति विवशः कार्यते परैः

१२.३०८.१४५अभिगम्याभिगम्यैनं याचन्ते सततं नराः
न चाप्युत्सहते दातुं वित्तरक्षी महाजनात्

१२.३०८.१४६दाने कोशक्षयो ह्यस्य वैरं चाप्यप्रयच्छतः
क्षणेनास्योपवर्तन्ते दोषा वैराग्यकारकाः

१२.३०८.१४७प्राज्ञाञ्शूरांस्तथैवाढ्यानेकस्थानेऽपि शङ्कते
भयमप्यभये राज्ञो यैश्च नित्यमुपास्यते

१२.३०८.१४८यदा चैते प्रदुष्यन्ति राजन्ये कीर्तिता मया
तदैवास्य भयं तेभ्यो जायते पश्य यादृशम्

१२.३०८.१४९सर्वः स्वे स्वे गृहे राजा सर्वः स्वे स्वे गृहे गृही
निग्रहानुग्रहौ कुर्वंस्तुल्यो जनक राजभिः

१२.३०८.१५०पुत्रा दारास्तथैवात्मा कोशो मित्राणि संचयः
परैः साधारणा ह्येते तैस्तैरेवास्य हेतुभिः

१२.३०८.१५१हतो देशः पुरं दग्धं प्रधानः कुञ्जरो मृतः
लोकसाधारणेष्वेषु मिथ्याज्ञानेन तप्यते

१२.३०८.१५२अमुक्तो मानसैर्दुःखैरिच्छाद्वेषप्रियोद्भवैः
शिरोरोगादिभी रोगैस्तथैव विनिपातिभिः

१२.३०८.१५३द्वंद्वैस्तैस्तैरुपहतः सर्वतः परिशङ्कितः
बहुप्रत्यर्थिकं राज्यमुपास्ते गणयन्निशाः

१२.३०८.१५४तदल्पसुखमत्यर्थं बहुदुःखमसारवत्
को राज्यमभिपद्येत प्राप्य चोपशमं लभेत्

१२.३०८.१५५ममेदमिति यच्चेदं पुरं राष्ट्रं च मन्यसे
बलं कोशममात्यांश्च कस्यैतानि न वा नृप

१२.३०८.१५६मित्रामात्यं पुरं राष्ट्रं दण्डः कोशो महीपतिः
सप्ताङ्गश्चक्रसंघातो राज्यमित्युच्यते नृप

१२.३०८.१५७सप्ताङ्गस्यास्य राज्यस्य त्रिदण्डस्येव तिष्ठतः
अन्योन्यगुणयुक्तस्य कः केन गुणतोऽधिकः

१२.३०८.१५८तेषु तेषु हि कालेषु तत्तदङ्गं विशिष्यते
येन यत्सिध्यते कार्यं तत्प्राधान्याय कल्पते

१२.३०८.१५९सप्ताङ्गश्चापि संघातस्त्रयश्चान्ये नृपोत्तम
संभूय दशवर्गोऽयं भुङ्क्ते राज्यं हि राजवत्

१२.३०८.१६०यश्च राजा महोत्साहः क्षत्रधर्मरतो भवेत्
स तुष्येद्दशभागेन ततस्त्वन्यो दशावरैः

१२.३०८.१६१नास्त्यसाधारणो राजा नास्ति राज्यमराजकम्
राज्येऽसति कुतो धर्मो धर्मेऽसति कुतः परम्

१२.३०८.१६२योऽप्यत्र परमो धर्मः पवित्रं राजराज्ययोः
पृथिवी दक्षिणा यस्य सोऽश्वमेधो न विद्यते

१२.३०८.१६३साहमेतानि कर्माणि राज्यदुःखानि मैथिल
समर्था शतशो वक्तुमथ वापि सहस्रशः

१२.३०८.१६४स्वदेहे नाभिषङ्गो मे कुतः परपरिग्रहे
न मामेवंविधां मुक्तामीदृशं वक्तुमर्हसि

१२.३०८.१६५ननु नाम त्वया मोक्षः कृत्स्नः पञ्चशिखाच्छ्रुतः
सोपायः सोपनिषदः सोपासङ्गः सनिश्चयः

१२.३०८.१६६तस्य ते मुक्तसङ्गस्य पाशानाक्रम्य तिष्ठतः
छत्रादिषु विशेषेषु कथं सङ्गः पुनर्नृप

१२.३०८.१६७श्रुतं ते न श्रुतं मन्ये मिथ्या वापि श्रुतं श्रुतम्
अथ वा श्रुतसंकाशं श्रुतमन्यच्छ्रुतं त्वया

१२.३०८.१६८अथापीमासु संज्ञासु लौकिकीषु प्रतिष्ठसि
अभिषङ्गावरोधाभ्यां बद्धस्त्वं प्राकृतो यथा

१२.३०८.१६९सत्त्वेनानुप्रवेशो हि योऽयं त्वयि कृतो मया
किं तवापकृतं तत्र यदि मुक्तोऽसि सर्वतः

१२.३०८.१७०नियमो ह्येष धर्मेषु यतीनां शून्यवासिता
शून्यमावासयन्त्या च मया किं कस्य दूषितम्

१२.३०८.१७१न पाणिभ्यां न बाहुभ्यां पादोरुभ्यां न चानघ
न गात्रावयवैरन्यैः स्पृशामि त्वा नराधिप

१२.३०८.१७२कुले महति जातेन ह्रीमता दीर्घदर्शिना
नैतत्सदसि वक्तव्यं सद्वासद्वा मिथः कृतम्

१२.३०८.१७३ब्राह्मणा गुरवश्चेमे तथामात्या गुरूत्तमाः
त्वं चाथ गुरुरप्येषामेवमन्योन्यगौरवम्

१२.३०८.१७४तदेवमनुसंदृश्य वाच्यावाच्यं परीक्षता
स्त्रीपुंसोः समवायोऽयं त्वया वाच्यो न संसदि

१२.३०८.१७५यथा पुष्करपर्णस्थं जलं तत्पर्णसंस्थितम्
तिष्ठत्यस्पृशती तद्वत्त्वयि वत्स्यामि मैथिल

१२.३०८.१७६यदि वाप्यस्पृशन्त्या मे स्पर्शं जानासि कंचन
ज्ञानं कृतमबीजं ते कथं तेनेह भिक्षुणा

१२.३०८.१७७स गार्हस्थ्याच्च्युतश्च त्वं मोक्षं नावाप्य दुर्विदम्
उभयोरन्तराले च वर्तसे मोक्षवातिकः

१२.३०८.१७८न हि मुक्तस्य मुक्तेन ज्ञस्यैकत्वपृथक्त्वयोः
भावाभावसमायोगे जायते वर्णसंकरः

१२.३०८.१७९वर्णाश्रमपृथक्त्वे च दृष्टार्थस्यापृथक्त्विनः
नान्यदन्यदिति ज्ञात्वा नान्यदन्यत्प्रवर्तते

१२.३०८.१८०पाणौ कुण्डं तथा कुण्डे पयः पयसि मक्षिकाः
आश्रिताश्रययोगेन पृथक्त्वेनाश्रया वयम्

१२.३०८.१८१न तु कुण्डे पयोभावः पयश्चापि न मक्षिकाः
स्वयमेवाश्रयन्त्येते भावा न तु पराश्रयम्

१२.३०८.१८२पृथक्त्वादाश्रमाणां च वर्णान्यत्वे तथैव च
परस्परपृथक्त्वाच्च कथं ते वर्णसंकरः

१२.३०८.१८३नास्मि वर्णोत्तमा जात्या न वैश्या नावरा तथा
तव राजन्सवर्णास्मि शुद्धयोनिरविप्लुता

१२.३०८.१८४प्रधानो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः
कुले तस्य समुत्पन्नां सुलभां नाम विद्धि माम्

१२.३०८.१८५द्रोणश्च शतशृङ्गश्च वक्रद्वारश्च पर्वतः
मम सत्रेषु पूर्वेषां चिता मघवता सह

१२.३०८.१८६साहं तस्मिन्कुले जाता भर्तर्यसति मद्विधे
विनीता मोक्षधर्मेषु चराम्येका मुनिव्रतम्

१२.३०८.१८७नास्मि सत्रप्रतिच्छन्ना न परस्वाभिमानिनी
न धर्मसंकरकरी स्वधर्मेऽस्मि धृतव्रता

१२.३०८.१८८नास्थिरा स्वप्रतिज्ञायां नासमीक्ष्यप्रवादिनी
नासमीक्ष्यागता चाहं त्वत्सकाशं जनाधिप

१२.३०८.१८९मोक्षे ते भावितां बुद्धिं श्रुत्वाहं कुशलैषिणी
तव मोक्षस्य चाप्यस्य जिज्ञासार्थमिहागता

१२.३०८.१९०न वर्गस्था ब्रवीम्येतत्स्वपक्षपरपक्षयोः
मुक्तो न मुच्यते यश्च शान्तो यश्च न शाम्यति

१२.३०८.१९१यथा शून्ये पुरागारे भिक्षुरेकां निशां वसेत्
तथा हि त्वच्छरीरेऽस्मिन्निमां वत्स्यामि शर्वरीम्

१२.३०८.१९२साहमासनदानेन वागातिथ्येन चार्चिता
सुप्ता सुशरणा प्रीता श्वो गमिष्यामि मैथिल

१२.३०८.१९३इत्येतानि स वाक्यानि हेतुमन्त्यर्थवन्ति च
श्रुत्वा नाधिजगौ राजा किंचिदन्यदतः परम्