१२.३०९.१युधिष्ठिर उवाच
१२.३०९.२कथं निर्वेदमापन्नः शुको वैयासकिः पुरा
एतदिच्छामि कौरव्य श्रोतुं कौतूहलं हि मे
१२.३०९.३भीष्म उवाच
१२.३०९.४प्राकृतेन सुवृत्तेन चरन्तमकुतोभयम्
अध्याप्य कृत्स्नं स्वाध्यायमन्वशाद्वै पिता सुतम्
१२.३०९.५धर्मं पुत्र निषेवस्व सुतीक्ष्णौ हि हिमातपौ
क्षुत्पिपासे च वायुं च जय नित्यं जितेन्द्रियः
१२.३०९.६सत्यमार्जवमक्रोधमनसूयां दमं तपः
अहिंसां चानृशंस्यं च विधिवत्परिपालय
१२.३०९.७सत्ये तिष्ठ रतो धर्मे हित्वा सर्वमनार्जवम्
देवतातिथिशेषेण यात्रां प्राणस्य संश्रय
१२.३०९.८फेनपात्रोपमे देहे जीवे शकुनिवत्स्थिते
अनित्ये प्रियसंवासे कथं स्वपिषि पुत्रक
१२.३०९.९अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु
अन्तरं लिप्समानेषु बालस्त्वं नावबुध्यसे
१२.३०९.१०गण्यमानेषु वर्षेषु क्षीयमाणे तथायुषि
जीविते शिष्यमाणे च किमुत्थाय न धावसि
१२.३०९.११ऐहलौकिकमीहन्ते मांसशोणितवर्धनम्
पारलौकिककार्येषु प्रसुप्ता भृशनास्तिकाः
१२.३०९.१२धर्माय येऽभ्यसूयन्ति बुद्धिमोहान्विता नराः
अपथा गच्छतां तेषामनुयातापि पीड्यते
१२.३०९.१३ये तु तुष्टाः सुनियताः सत्यागमपरायणाः
धर्म्यं पन्थानमारूढास्तानुपास्स्व च पृच्छ च
१२.३०९.१४उपधार्य मतं तेषां वृद्धानां धर्मदर्शिनाम्
नियच्छ परया बुद्ध्या चित्तमुत्पथगामि वै
१२.३०९.१५अद्यकालिकया बुद्ध्या दूरे श्व इति निर्भयाः
सर्वभक्षा न पश्यन्ति कर्मभूमिं विचेतसः
१२.३०९.१६धर्मनिःश्रेणिमास्थाय किंचित्किंचित्समारुह
कोशकारवदात्मानं वेष्टयन्नावबुध्यसे
१२.३०९.१७नास्तिकं भिन्नमर्यादं कूलपातमिवास्थिरम्
वामतः कुरु विस्रब्धो नरं वेणुमिवोद्धतम्
१२.३०९.१८कामं क्रोधं च मृत्युं च पञ्चेन्द्रियजलां नदीम्
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर
१२.३०९.१९मृत्युनाभ्याहते लोके जरया परिपीडिते
अमोघासु पतन्तीषु धर्मयानेन संतर
१२.३०९.२०तिष्ठन्तं च शयानं च मृत्युरन्वेषते यदा
निर्वृतिं लभसे कस्मादकस्मान्मृत्युनाशितः
१२.३०९.२१संचिन्वानकमेवैनं कामानामवितृप्तकम्
वृकीवोरणमासाद्य मृत्युरादाय गच्छति
१२.३०९.२२क्रमशः संचितशिखो धर्मबुद्धिमयो महान्
अन्धकारे प्रवेष्टव्ये दीपो यत्नेन धार्यताम्
१२.३०९.२३संपतन्देहजालानि कदाचिदिह मानुषे
ब्राह्मण्यं लभते जन्तुस्तत्पुत्र परिपालय
१२.३०९.२४ब्राह्मणस्य हि देहोऽयं न कामार्थाय जायते
इह क्लेशाय तपसे प्रेत्य त्वनुपमं सुखम्
१२.३०९.२५ब्राह्मण्यं बहुभिरवाप्यते तपोभि;स्तल्लब्ध्वा न परिपणेन हेडितव्यम्
स्वाध्याये तपसि दमे च नित्ययुक्तः; क्षेमार्थी कुशलपरः सदा यतस्व
१२.३०९.२६अव्यक्तप्रकृतिरयं कलाशरीरः; सूक्ष्मात्मा क्षणत्रुटिशो निमेषरोमा
ऋत्वास्यः समबलशुक्लकृष्णनेत्रो; मासाङ्गो द्रवति वयोहयो नराणाम्
१२.३०९.२७तं दृष्ट्वा प्रसृतमजस्रमुग्रवेगं; गच्छन्तं सततमिहाव्यपेक्षमाणम्
चक्षुस्ते यदि न परप्रणेतृनेयं; धर्मे ते भवतु मनः परं निशम्य
१२.३०९.२८येऽमी तु प्रचलितधर्मकामवृत्ताः; क्रोशन्तः सततमनिष्टसंप्रयोगाः
क्लिश्यन्ते परिगतवेदनाशरीरा; बह्वीभिः सुभृशमधर्मवासनाभिः
१२.३०९.२९राजा धर्मपरः सदा शुभगोप्ता; समीक्ष्य सुकृतिनां दधाति लोकान्
बहुविधमपि चरतः प्रदिशति; सुखमनुपगतं निरवद्यम्
१२.३०९.३०श्वानो भीषणायोमुखानि वयांसि; वडगृध्रकुलपक्षिणां च संघाः
नरां कदने रुधिरपा गुरुवचन;नुदमुपरतं विशसन्ति
१२.३०९.३१मर्यादा नियताः स्वयंभुवा य इहेमाः; प्रभिनत्ति दशगुणा मनोनुगत्वात्
निवसति भृशमसुखं पितृविषय;विपिनमवगाह्य स पापः
१२.३०९.३२यो लुब्धः सुभृशं प्रियानृतश्च मनुष्यः; सततनिकृतिवञ्चनारतिः स्यात्
उपनिधिभिरसुखकृत्स परमनिरयगो; भृशमसुखमनुभवति दुष्कृतकर्मा
१२.३०९.३३उष्णां वैतरणीं महानदी;मवगाढोऽसिपत्रवनभिन्नगात्रः
परशुवनशयो निपतितो; वसति च महानिरये भृशार्तः
१२.३०९.३४महापदानि कत्थसे न चाप्यवेक्षसे परम्
चिरस्य मृत्युकारिकामनागतां न बुध्यसे
१२.३०९.३५प्रयास्यतां किमास्यते समुत्थितं महद्भयम्
अतिप्रमाथि दारुणं सुखस्य संविधीयताम्
१२.३०९.३६पुरा मृतः प्रणीयसे यमस्य मृत्युशासनात्
तदन्तिकाय दारुणैः प्रयत्नमार्जवे कुरु
१२.३०९.३७पुरा समूलबान्धवं प्रभुर्हरत्यदुःखवित्
तवेह जीवितं यमो न चास्ति तस्य वारकः
१२.३०९.३८पुरा विवाति मारुतो यमस्य यः पुरःसरः
पुरैक एव नीयसे कुरुष्व सांपरायिकम्
१२.३०९.३९पुरा सहिक्क एव ते प्रवाति मारुतोऽन्तकः
पुरा च विभ्रमन्ति ते दिशो महाभयागमे
१२.३०९.४०स्मृतिश्च संनिरुध्यते पुरा तवेह पुत्रक
समाकुलस्य गच्छतः समाधिमुत्तमं कुरु
१२.३०९.४१कृताकृते शुभाशुभे प्रमादकर्मविप्लुते
स्मरन्पुरा न तप्यसे निधत्स्व केवलं निधिम्
१२.३०९.४२पुरा जरा कलेवरं विजर्जरीकरोति ते
बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम्
१२.३०९.४३पुरा शरीरमन्तको भिनत्ति रोगसायकैः
प्रसह्य जीवितक्षये तपो महत्समाचर
१२.३०९.४४पुरा वृका भयंकरा मनुष्यदेहगोचराः
अभिद्रवन्ति सर्वतो यतस्व पुण्यशीलने
१२.३०९.४५पुरान्धकारमेककोऽनुपश्यसि त्वरस्व वै
पुरा हिरण्मयान्नगान्निरीक्षसेऽद्रिमूर्धनि
१२.३०९.४६पुरा कुसंगतानि ते सुहृन्मुखाश्च शत्रवः
विचालयन्ति दर्शनाद्घटस्व पुत्र यत्परम्
१२.३०९.४७धनस्य यस्य राजतो भयं न चास्ति चौरतः
मृतं च यन्न मुञ्चति समर्जयस्व तद्धनम्
१२.३०९.४८न तत्र संविभज्यते स्वकर्मभिः परस्परम्
यदेव यस्य यौतकं तदेव तत्र सोऽश्नुते
१२.३०९.४९परत्र येन जीव्यते तदेव पुत्र दीयताम्
धनं यदक्षयं ध्रुवं समर्जयस्व तत्स्वयम्
१२.३०९.५०न यावदेव पच्यते महाजनस्य यावकम्
अपक्व एव यावके पुरा प्रणीयसे त्वर
१२.३०९.५१न मातृपितृबान्धवा न संस्तुतः प्रियो जनः
अनुव्रजन्ति संकटे व्रजन्तमेकपातिनम्
१२.३०९.५२यदेव कर्म केवलं स्वयं कृतं शुभाशुभम्
तदेव तस्य यौतकं भवत्यमुत्र गच्छतः
१२.३०९.५३हिरण्यरत्नसंचयाः शुभाशुभेन संचिताः
न तस्य देहसंक्षये भवन्ति कार्यसाधकाः
१२.३०९.५४परत्रगामिकस्य ते कृताकृतस्य कर्मणः
न साक्षिरात्मना समो नृणामिहास्ति कश्चन
१२.३०९.५५मनुष्यदेहशून्यकं भवत्यमुत्र गच्छतः
प्रपश्य बुद्धिचक्षुषा प्रदृश्यते हि सर्वतः
१२.३०९.५६इहाग्निसूर्यवायवः शरीरमाश्रितास्त्रयः
त एव तस्य साक्षिणो भवन्ति धर्मदर्शिनः
१२.३०९.५७यथानिशेषु सर्वतःस्पृशत्सु सर्वदारिषु
प्रकाशगूढवृत्तिषु स्वधर्ममेव पालय
१२.३०९.५८अनेकपारिपन्थिके विरूपरौद्ररक्षिते
स्वमेव कर्म रक्ष्यतां स्वकर्म तत्र गच्छति
१२.३०९.५९न तत्र संविभज्यते स्वकर्मणा परस्परम्
यथाकृतं स्वकर्मजं तदेव भुज्यते फलम्
१२.३०९.६०यथाप्सरोगणाः फलं सुखं महर्षिभिः सह
तथाप्नुवन्ति कर्मतो विमानकामगामिनः
१२.३०९.६१यथेह यत्कृतं शुभं विपाप्मभिः कृतात्मभिः
तदाप्नुवन्ति मानवास्तथा विशुद्धयोनयः
१२.३०९.६२प्रजापतेः सलोकतां बृहस्पतेः शतक्रतोः
व्रजन्ति ते परां गतिं गृहस्थधर्मसेतुभिः
१२.३०९.६३सहस्रशोऽप्यनेकशः प्रवक्तुमुत्सहामहे
अबुद्धिमोहनं पुनः प्रभुर्विना न यावकम्
१२.३०९.६४गता द्विरष्टवर्षता ध्रुवोऽसि पञ्चविंशकः
कुरुष्व धर्मसंचयं वयो हि तेऽतिवर्तते
१२.३०९.६५पुरा करोति सोऽन्तकः प्रमादगोमुखं दमम्
यथागृहीतमुत्थितं त्वरस्व धर्मपालने
१२.३०९.६६यदा त्वमेव पृष्ठतस्त्वमग्रतो गमिष्यसि
तथा गतिं गमिष्यतः किमात्मना परेण वा
१२.३०९.६७यदेकपातिनां सतां भवत्यमुत्र गच्छताम्
भयेषु सांपरायिकं निधत्स्व तं महानिधिम्
१२.३०९.६८सकूलमूलबान्धवं प्रभुर्हरत्यसङ्गवान्
न सन्ति यस्य वारकाः कुरुष्व धर्मसंनिधिम्
१२.३०९.६९इदं निदर्शनं मया तवेह पुत्र संमतम्
स्वदर्शनानुमानतः प्रवर्णितं कुरुष्व तत्
१२.३०९.७०दधाति यः स्वकर्मणा धनानि यस्य कस्यचित्
अबुद्धिमोहजैर्गुणैः शतैक एव युज्यते
१२.३०९.७१श्रुतं समर्थमस्तु ते प्रकुर्वतः शुभाः क्रियाः
तदेव तत्र दर्शनं कृतज्ञमर्थसंहितम्
१२.३०९.७२निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः
छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः
१२.३०९.७३किं ते धनेन किं बन्धुभिस्ते; किं ते पुत्रैः पुत्रक यो मरिष्यसि
आत्मानमन्विच्छ गुहां प्रविष्टं; पितामहास्ते क्व गताश्च सर्वे
१२.३०९.७४श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम्
को हि तद्वेद कस्याद्य मृत्युसेना निवेक्ष्यते
१२.३०९.७५अनुगम्य श्मशानान्तं निवर्तन्तीह बान्धवाः
अग्नौ प्रक्षिप्य पुरुषं ज्ञातयः सुहृदस्तथा
१२.३०९.७६नास्तिकान्निरनुक्रोशान्नरान्पापमतौ स्थितान्
वामतः कुरु विश्रब्धं परं प्रेप्सुरतन्द्रितः
१२.३०९.७७एवमभ्याहते लोके कालेनोपनिपीडिते
सुमहद्धैर्यमालम्ब्य धर्मं सर्वात्मना कुरु
१२.३०९.७८अथेमं दर्शनोपायं सम्यग्यो वेत्ति मानवः
सम्यक्स धर्मं कृत्वेह परत्र सुखमेधते
१२.३०९.७९न देहभेदे मरणं विजानतां; न च प्रणाशः स्वनुपालिते पथि
धर्मं हि यो वर्धयते स पण्डितो; य एव धर्माच्च्यवते स मुह्यति
१२.३०९.८०प्रयुक्तयोः कर्मपथि स्वकर्मणोः; फलं प्रयोक्ता लभते यथाविधि
निहीनकर्मा निरयं प्रपद्यते; त्रिविष्टपं गच्छति धर्मपारगः
१२.३०९.८१सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम्
तथात्मानं समादध्याद्भ्रश्येत न पुनर्यथा
१२.३०९.८२यस्य नोत्क्रामति मतिः स्वर्गमार्गानुसारिणी
तमाहुः पुण्यकर्माणमशोच्यं मित्रबान्धवैः
१२.३०९.८३यस्य नोपहता बुद्धिर्निश्चयेष्ववलम्बते
स्वर्गे कृतावकाशस्य तस्य नास्ति महद्भयम्
१२.३०९.८४तपोवनेषु ये जातास्तत्रैव निधनं गताः
तेषामल्पतरो धर्मः कामभोगमजानताम्
१२.३०९.८५यस्तु भोगान्परित्यज्य शरीरेण तपश्चरेत्
न तेन किंचिन्न प्राप्तं तन्मे बहुमतं फलम्
१२.३०९.८६मातापितृसहस्राणि पुत्रदारशतानि च
अनागतान्यतीतानि कस्य ते कस्य वा वयम्
१२.३०९.८७न तेषां भवता कार्यं न कार्यं तव तैरपि
स्वकृतैस्तानि यातानि भवांश्चैव गमिष्यति
१२.३०९.८८इह लोके हि धनिनः परोऽपि स्वजनायते
स्वजनस्तु दरिद्राणां जीवतामेव नश्यति
१२.३०९.८९संचिनोत्यशुभं कर्म कलत्रापेक्षया नरः
ततः क्लेशमवाप्नोति परत्रेह तथैव च
१२.३०९.९०पश्य त्वं छिद्रभूतं हि जीवलोकं स्वकर्मणा
तत्कुरुष्व तथा पुत्र कृत्स्नं यत्समुदाहृतम्
१२.३०९.९१तदेतत्संप्रदृश्यैव कर्मभूमिं प्रविश्य ताम्
शुभान्याचरितव्यानि परलोकमभीप्सता
१२.३०९.९२मासर्तुसंज्ञापरिवर्तकेन; सूर्याग्निना रात्रिदिवेन्धनेन
स्वकर्मनिष्ठाफलसाक्षिकेण; भूतानि कालः पचति प्रसह्य
१२.३०९.९३धनेन किं यन्न ददाति नाश्नुते; बलेन किं येन रिपून्न बाधते
श्रुतेन किं येन न धर्ममाचरे;त्किमात्मना यो न जितेन्द्रियो वशी
१२.३०९.९४इदं द्वैपायनवचो हितमुक्तं निशम्य तु
शुको गतः परित्यज्य पितरं मोक्षदेशिकम्