१२. शान्तिपर्व
१२.३१०.१युधिष्ठिर उवाच

१२.३१०.२कथं व्यासस्य धर्मात्मा शुको जज्ञे महातपाः
सिद्धिं च परमां प्राप्तस्तन्मे ब्रूहि पितामह

१२.३१०.३कस्यां चोत्पादयामास शुकं व्यासस्तपोधनः
न ह्यस्य जननीं विद्म जन्म चाग्र्यं महात्मनः

१२.३१०.४कथं च बालस्य सतः सूक्ष्मज्ञाने गता मतिः
यथा नान्यस्य लोकेऽस्मिन्द्वितीयस्येह कस्यचित्

१२.३१०.५एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते
न हि मे तृप्तिरस्तीह शृण्वतोऽमृतमुत्तमम्

१२.३१०.६माहात्म्यमात्मयोगं च विज्ञानं च शुकस्य ह
यथावदानुपूर्व्येण तन्मे ब्रूहि पितामह

१२.३१०.७भीष्म उवाच

१२.३१०.८न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान्

१२.३१०.९तपोमूलमिदं सर्वं यन्मां पृच्छसि पाण्डव
तदिन्द्रियाणि संयम्य तपो भवति नान्यथा

१२.३१०.१०इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम्
संनियम्य तु तान्येव सिद्धिं प्राप्नोति मानवः

१२.३१०.११अश्वमेधसहस्रस्य वाजपेयशतस्य च
योगस्य कलया तात न तुल्यं विद्यते फलम्

१२.३१०.१२अत्र ते वर्तयिष्यामि जन्मयोगफलं यथा
शुकस्याग्र्यां गतिं चैव दुर्विदामकृतात्मभिः

१२.३१०.१३मेरुशृङ्गे किल पुरा कर्णिकारवनायुते
विजहार महादेवो भीमैर्भूतगणैर्वृतः

१२.३१०.१४शैलराजसुता चैव देवी तत्राभवत्पुरा
तत्र दिव्यं तपस्तेपे कृष्णद्वैपायनः प्रभुः

१२.३१०.१५योगेनात्मानमाविश्य योगधर्मपरायणः
धारयन्स तपस्तेपे पुत्रार्थं कुरुसत्तम

१२.३१०.१६अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चाभिभो
वीर्येण संमितः पुत्रो मम भूयादिति स्म ह

१२.३१०.१७संकल्पेनाथ सोऽनेन दुष्प्रापेणाकृतात्मभिः
वरयामास देवेशमास्थितस्तप उत्तमम्

१२.३१०.१८अतिष्ठन्मारुताहारः शतं किल समाः प्रभुः
आराधयन्महादेवं बहुरूपमुमापतिम्

१२.३१०.१९तत्र ब्रह्मर्षयश्चैव सर्वे देवर्षयस्तथा
लोकपालाश्च लोकेशं साध्याश्च वसुभिः सह

१२.३१०.२०आदित्याश्चैव रुद्राश्च दिवाकरनिशाकरौ
मरुतो मारुतश्चैव सागराः सरितस्तथा

१२.३१०.२१अश्विनौ देवगन्धर्वास्तथा नारदपर्वतौ
विश्वावसुश्च गन्धर्वः सिद्धाश्चाप्सरसां गणाः

१२.३१०.२२तत्र रुद्रो महादेवः कर्णिकारमयीं शुभाम्
धारयाणः स्रजं भाति ज्योत्स्नामिव निशाकरः

१२.३१०.२३तस्मिन्दिव्ये वने रम्ये देवदेवर्षिसंकुले
आस्थितः परमं योगमृषिः पुत्रार्थमुद्यतः

१२.३१०.२४न चास्य हीयते वर्णो न ग्लानिरुपजायते
त्रयाणामपि लोकानां तदद्भुतमिवाभवत्

१२.३१०.२५जटाश्च तेजसा तस्य वैश्वानरशिखोपमाः
प्रज्वलन्त्यः स्म दृश्यन्ते युक्तस्यामिततेजसः

१२.३१०.२६मार्कण्डेयो हि भगवानेतदाख्यातवान्मम
स देवचरितानीह कथयामास मे सदा

१२.३१०.२७ता एताद्यापि कृष्णस्य तपसा तेन दीपिताः
अग्निवर्णा जटास्तात प्रकाशन्ते महात्मनः

१२.३१०.२८एवंविधेन तपसा तस्य भक्त्या च भारत
महेश्वरः प्रसन्नात्मा चकार मनसा मतिम्

१२.३१०.२९उवाच चैनं भगवांस्त्र्यम्बकः प्रहसन्निव
एवंविधस्ते तनयो द्वैपायन भविष्यति

१२.३१०.३०यथा ह्यग्निर्यथा वायुर्यथा भूमिर्यथा जलम्
यथा च खं तथा शुद्धो भविष्यति सुतो महान्

१२.३१०.३१तद्भावभावी तद्बुद्धिस्तदात्मा तदपाश्रयः
तेजसावृत्य लोकांस्त्रीन्यशः प्राप्स्यति केवलम्