१२.३१७.१नारद उवाच
१२.३१७.२अशोकं शोकनाशार्थं शास्त्रं शान्तिकरं शिवम्
निशम्य लभते बुद्धिं तां लब्ध्वा सुखमेधते
१२.३१७.३शोकस्थानसहस्राणि भयस्थानशतानि च
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्
१२.३१७.४तस्मादनिष्टनाशार्थमितिहासं निबोध मे
तिष्ठते चेद्वशे बुद्धिर्लभते शोकनाशनम्
१२.३१७.५अनिष्टसंप्रयोगाच्च विप्रयोगात्प्रियस्य च
मनुष्या मानसैर्दुःखैर्युज्यन्ते अल्पबुद्धयः
१२.३१७.६द्रव्येषु समतीतेषु ये गुणास्तान्न चिन्तयेत्
ताननाद्रियमाणस्य स्नेहबन्धः प्रमुच्यते
१२.३१७.७दोषदर्शी भवेत्तत्र यत्र रागः प्रवर्तते
अनिष्टवद्धितं पश्येत्तथा क्षिप्रं विरज्यते
१२.३१७.८नार्थो न धर्मो न यशो योऽतीतमनुशोचति
अप्यभावेन युज्येत तच्चास्य न निवर्तते
१२.३१७.९गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते
१२.३१७.१०मृतं वा यदि वा नष्टं योऽतीतमनुशोचति
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते
१२.३१७.११नाश्रु कुर्वन्ति ये बुद्ध्या दृष्ट्वा लोकेषु संततिम्
सम्यक्प्रपश्यतः सर्वं नाश्रुकर्मोपपद्यते
१२.३१७.१२दुःखोपघाते शारीरे मानसे वाप्युपस्थिते
यस्मिन्न शक्यते कर्तुं यत्नस्तन्नानुचिन्तयेत्
१२.३१७.१३भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत्
चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते
१२.३१७.१४प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः
एतद्विज्ञानसामर्थ्यं न बालैः समतामियात्
१२.३१७.१५अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः
आरोग्यं प्रियसंवासो गृध्येत्तत्र न पण्डितः
१२.३१७.१६न जानपदिकं दुःखमेकः शोचितुमर्हति
अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम्
१२.३१७.१७सुखाद्बहुतरं दुःखं जीविते नात्र संशयः
स्निग्धत्वं चेन्द्रियार्थेषु मोहान्मरणमप्रियम्
१२.३१७.१८परित्यजति यो दुःखं सुखं वाप्युभयं नरः
अभ्येति ब्रह्म सोऽत्यन्तं न तं शोचन्ति पण्डिताः
१२.३१७.१९दुःखमर्था हि त्यज्यन्ते पालने न च ते सुखाः
दुःखेन चाधिगम्यन्ते नाशमेषां न चिन्तयेत्
१२.३१७.२०अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः
अतृप्ता यान्ति विध्वंसं संतोषं यान्ति पण्डिताः
१२.३१७.२१सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्
१२.३१७.२२अन्तो नास्ति पिपासायास्तुष्टिस्तु परमं सुखम्
तस्मात्संतोषमेवेह धनं पश्यन्ति पण्डिताः
१२.३१७.२३निमेषमात्रमपि हि वयो गच्छन्न तिष्ठति
स्वशरीरेष्वनित्येषु नित्यं किमनुचिन्तयेत्
१२.३१७.२४भूतेष्वभावं संचिन्त्य ये बुद्ध्वा तमसः परम्
न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम्
१२.३१७.२५संचिन्वानकमेवैनं कामानामवितृप्तकम्
व्याघ्रः पशुमिवासाद्य मृत्युरादाय गच्छति
१२.३१७.२६अथाप्युपायं संपश्येद्दुःखस्य परिमोक्षणे
अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत्
१२.३१७.२७शब्दे स्पर्शे च रूपे च गन्धेषु च रसेषु च
नोपभोगात्परं किंचिद्धनिनो वाधनस्य वा
१२.३१७.२८प्राक्संप्रयोगाद्भूतानां नास्ति दुःखमनामयम्
विप्रयोगात्तु सर्वस्य न शोचेत्प्रकृतिस्थितः
१२.३१७.२९धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा
चक्षुःश्रोत्रे च मनसा मनो वाचं च विद्यया
१२.३१७.३०प्रणयं प्रतिसंहृत्य संस्तुतेष्वितरेषु च
विचरेदसमुन्नद्धः स सुखी स च पण्डितः
१२.३१७.३१अध्यात्मरतिरासीनो निरपेक्षो निरामिषः
आत्मनैव सहायेन यश्चरेत्स सुखी भवेत्