१२.३१८.१नारद उवाच
१२.३१८.२सुखदुःखविपर्यासो यदा समुपपद्यते
नैनं प्रज्ञा सुनीतं वा त्रायते नापि पौरुषम्
१२.३१८.३स्वभावाद्यत्नमातिष्ठेद्यत्नवान्नावसीदति
जरामरणरोगेभ्यः प्रियमात्मानमुद्धरेत्
१२.३१८.४रुजन्ति हि शरीराणि रोगाः शारीरमानसाः
सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः
१२.३१८.५व्याधितस्य विवित्साभिस्त्रस्यतो जीवितैषिणः
अवशस्य विनाशाय शरीरमपकृष्यते
१२.३१८.६स्रवन्ति न निवर्तन्ते स्रोतांसि सरितामिव
आयुरादाय मर्त्यानां रात्र्यहानि पुनः पुनः
१२.३१८.७व्यत्ययो ह्ययमत्यन्तं पक्षयोः शुक्लकृष्णयोः
जातं मर्त्यं जरयति निमेषं नावतिष्ठते
१२.३१८.८सुखदुःखानि भूतानामजरो जरयन्नसौ
आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च
१२.३१८.९अदृष्टपूर्वानादाय भावानपरिशङ्कितान्
इष्टानिष्टान्मनुष्याणामस्तं गच्छन्ति रात्रयः
१२.३१८.१०यो यमिच्छेद्यथाकामं कामानां तत्तदाप्नुयात्
यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम्
१२.३१८.११संयताश्च हि दक्षाश्च मतिमन्तश्च मानवाः
दृश्यन्ते निष्फलाः सन्तः प्रहीणाश्च स्वकर्मभिः
१२.३१८.१२अपरे बालिशाः सन्तो निर्गुणाः पुरुषाधमाः
आशीर्भिरप्यसंयुक्ता दृश्यन्ते सर्वकामिनः
१२.३१८.१३भूतानामपरः कश्चिद्धिंसायां सततोत्थितः
वञ्चनायां च लोकस्य स सुखेष्वेव जीर्यते
१२.३१८.१४अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठति
कश्चित्कर्मानुसृत्यान्यो न प्राप्यमधिगच्छति
१२.३१८.१५अपराधं समाचक्ष्व पुरुषस्य स्वभावतः
शुक्रमन्यत्र संभूतं पुनरन्यत्र गच्छति
१२.३१८.१६तस्य योनौ प्रसक्तस्य गर्भो भवति वा न वा
आम्रपुष्पोपमा यस्य निवृत्तिरुपलभ्यते
१२.३१८.१७केषांचित्पुत्रकामानामनुसंतानमिच्छताम्
सिद्धौ प्रयतमानानां नैवाण्डमुपजायते
१२.३१८.१८गर्भाच्चोद्विजमानानां क्रुद्धादाशीविषादिव
आयुष्माञ्जायते पुत्रः कथं प्रेतः पितैव सः
१२.३१८.१९देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः
दश मासान्परिधृता जायन्ते कुलपांसनाः
१२.३१८.२०अपरे धनधान्यानि भोगांश्च पितृसंचितान्
विपुलानभिजायन्ते लब्धास्तैरेव मङ्गलैः
१२.३१८.२१अन्योन्यं समभिप्रेत्य मैथुनस्य समागमे
उपद्रव इवाविष्टो योनिं गर्भः प्रपद्यते
१२.३१८.२२शीर्णं परशरीरेण निच्छवीकं शरीरिणम्
प्राणिनां प्राणसंरोधे मांसश्लेष्मविचेष्टितम्
१२.३१८.२३निर्दग्धं परदेहेन परदेहं चलाचलम्
विनश्यन्तं विनाशान्ते नावि नावमिवाहितम्
१२.३१८.२४संगत्या जठरे न्यस्तं रेतोबिन्दुमचेतनम्
केन यत्नेन जीवन्तं गर्भं त्वमिह पश्यसि
१२.३१८.२५अन्नपानानि जीर्यन्ते यत्र भक्षाश्च भक्षिताः
तस्मिन्नेवोदरे गर्भः किं नान्नमिव जीर्यते
१२.३१८.२६गर्भमूत्रपुरीषाणां स्वभावनियता गतिः
धारणे वा विसर्गे वा न कर्तुर्विद्यते वशः
१२.३१८.२७स्रवन्ति ह्युदराद्गर्भा जायमानास्तथापरे
आगमेन सहान्येषां विनाश उपपद्यते
१२.३१८.२८एतस्माद्योनिसंबन्धाद्यो जीवन्परिमुच्यते
प्रजां च लभते कांचित्पुनर्द्वंद्वेषु मज्जति
१२.३१८.२९शतस्य सहजातस्य सप्तमीं दशमीं दशाम्
प्राप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः
१२.३१८.३०नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः
व्याधिभिश्च विमथ्यन्ते व्यालैः क्षुद्रमृगा इव
१२.३१८.३१व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलं धनम्
वेदनां नापकर्षन्ति यतमानाश्चिकित्सकाः
१२.३१८.३२ते चापि निपुणा वैद्याः कुशलाः संभृतौषधाः
व्याधिभिः परिकृष्यन्ते मृगा व्याधैरिवार्दिताः
१२.३१८.३३ते पिबन्तः कषायांश्च सर्पींषि विविधानि च
दृश्यन्ते जरया भग्ना नागा नागैरिवोत्तमैः
१२.३१८.३४के वा भुवि चिकित्सन्ते रोगार्तान्मृगपक्षिणः
श्वापदानि दरिद्रांश्च प्रायो नार्ता भवन्ति ते
१२.३१८.३५घोरानपि दुराधर्षान्नृपतीनुग्रतेजसः
आक्रम्य रोग आदत्ते पशून्पशुपचो यथा
१२.३१८.३६इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम्
स्रोतसा सहसा क्षिप्तं ह्रियमाणं बलीयसा
१२.३१८.३७न धनेन न राज्येन नोग्रेण तपसा तथा
स्वभावा व्यतिवर्तन्ते ये नियुक्ताः शरीरिषु
१२.३१८.३८न म्रियेरन्न जीर्येरन्सर्वे स्युः सर्वकामिकाः
नाप्रियं प्रतिपश्येयुरुत्थानस्य फलं प्रति
१२.३१८.३९उपर्युपरि लोकस्य सर्वो भवितुमिच्छति
यतते च यथाशक्ति न च तद्वर्तते तथा
१२.३१८.४०ऐश्वर्यमदमत्तांश्च मत्तान्मद्यमदेन च
अप्रमत्ताः शठाः क्रूरा विक्रान्ताः पर्युपासते
१२.३१८.४१क्लेशाः प्रतिनिवर्तन्ते केषांचिदसमीक्षिताः
स्वं स्वं च पुनरन्येषां न किंचिदभिगम्यते
१२.३१८.४२महच्च फलवैषम्यं दृश्यते कर्मसंधिषु
वहन्ति शिबिकामन्ये यान्त्यन्ये शिबिकागताः
१२.३१८.४३सर्वेषामृद्धिकामानामन्ये रथपुरःसराः
मनुजाश्च शतस्त्रीकाः शतशो विधवाः स्त्रियः
१२.३१८.४४द्वंद्वारामेषु भूतेषु गच्छन्त्येकैकशो नराः
इदमन्यत्परं पश्य मात्र मोहं करिष्यसि
१२.३१८.४५त्यज धर्ममधर्मं च उभे सत्यानृते त्यज
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज
१२.३१८.४६एतत्ते परमं गुह्यमाख्यातमृषिसत्तम
येन देवाः परित्यज्य मर्त्यलोकं दिवं गताः
१२.३१८.४७भीष्म उवाच
१२.३१८.४८नारदस्य वचः श्रुत्वा शुकः परमबुद्धिमान्
संचिन्त्य मनसा धीरो निश्चयं नाध्यगच्छत
१२.३१८.४९पुत्रदारैर्महान्क्लेशो विद्याम्नाये महाञ्श्रमः
किं नु स्याच्छाश्वतं स्थानमल्पक्लेशं महोदयम्
१२.३१८.५०ततो मुहूर्तं संचिन्त्य निश्चितां गतिमात्मनः
परावरज्ञो धर्मस्य परां नैःश्रेयसीं गतिम्
१२.३१८.५१कथं त्वहमसंक्लिष्टो गच्छेयं परमां गतिम्
नावर्तेयं यथा भूयो योनिसंसारसागरे
१२.३१८.५२परं भावं हि काङ्क्षामि यत्र नावर्तते पुनः
सर्वसङ्गान्परित्यज्य निश्चितां मनसो गतिम्
१२.३१८.५३तत्र यास्यामि यत्रात्मा शमं मेऽधिगमिष्यति
अक्षयश्चाव्ययश्चैव यत्र स्थास्यामि शाश्वतः
१२.३१८.५४न तु योगमृते शक्या प्राप्तुं सा परमा गतिः
अवबन्धो हि मुक्तस्य कर्मभिर्नोपपद्यते
१२.३१८.५५तस्माद्योगं समास्थाय त्यक्त्वा गृहकलेवरम्
वायुभूतः प्रवेक्ष्यामि तेजोराशिं दिवाकरम्
१२.३१८.५६न ह्येष क्षयमाप्नोति सोमः सुरगणैर्यथा
कम्पितः पतते भूमिं पुनश्चैवाधिरोहति
क्षीयते हि सदा सोमः पुनश्चैवाभिपूर्यते
१२.३१८.५७रविस्तु संतापयति लोकान्रश्मिभिरुल्बणैः
सर्वतस्तेज आदत्ते नित्यमक्षयमण्डलः
१२.३१८.५८अतो मे रोचते गन्तुमादित्यं दीप्ततेजसम्
अत्र वत्स्यामि दुर्धर्षो निःसङ्गेनान्तरात्मना
१२.३१८.५९सूर्यस्य सदने चाहं निक्षिप्येदं कलेवरम्
ऋषिभिः सह यास्यामि सौरं तेजोऽतिदुःसहम्
१२.३१८.६०आपृच्छामि नगान्नागान्गिरीनुर्वीं दिशो दिवम्
देवदानवगन्धर्वान्पिशाचोरगराक्षसान्
१२.३१८.६१लोकेषु सर्वभूतानि प्रवेक्ष्यामि नसंशयः
पश्यन्तु योगवीर्यं मे सर्वे देवाः सहर्षिभिः
१२.३१८.६२अथानुज्ञाप्य तमृषिं नारदं लोकविश्रुतम्
तस्मादनुज्ञां संप्राप्य जगाम पितरं प्रति
१२.३१८.६३सोऽभिवाद्य महात्मानमृषिं द्वैपायनं मुनिम्
शुकः प्रदक्षिणीकृत्य कृष्णमापृष्टवान्मुनिः
१२.३१८.६४श्रुत्वा ऋषिस्तद्वचनं शुकस्य; प्रीतो महात्मा पुनराह चैनम्
भो भोः पुत्र स्थीयतां तावदद्य; यावच्चक्षुः प्रीणयामि त्वदर्थम्
१२.३१८.६५निरपेक्षः शुको भूत्वा निःस्नेहो मुक्तबन्धनः
मोक्षमेवानुसंचिन्त्य गमनाय मनो दधे
पितरं संपरित्यज्य जगाम द्विजसत्तमः