१२.३२.१वैशंपायन उवाच
१२.३२.२तूष्णींभूतं तु राजानं शोचमानं युधिष्ठिरम्
तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनोऽब्रवीत्
१२.३२.३प्रजानां पालनं धर्मो राज्ञां राजीवलोचन
धर्मः प्रमाणं लोकस्य नित्यं धर्मानुवर्तनम्
१२.३२.४अनुतिष्ठस्व वै राजन्पितृपैतामहं पदम्
ब्राह्मणेषु च यो धर्मः स नित्यो वेदनिश्चितः
१२.३२.५तत्प्रमाणं प्रमाणानां शाश्वतं भरतर्षभ
तस्य धर्मस्य कृत्स्नस्य क्षत्रियः परिरक्षिता
१२.३२.६तथा यः प्रतिहन्त्यस्य शासनं विषये नरः
स बाहुभ्यां विनिग्राह्यो लोकयात्राविघातकः
१२.३२.७प्रमाणमप्रमाणं यः कुर्यान्मोहवशं गतः
भृत्यो वा यदि वा पुत्रस्तपस्वी वापि कश्चन
पापान्सर्वैरुपायैस्तान्नियच्छेद्घातयेत वा
१२.३२.८अतोऽन्यथा वर्तमानो राजा प्राप्नोति किल्बिषम्
धर्मं विनश्यमानं हि यो न रक्षेत्स धर्महा
१२.३२.९ते त्वया धर्महन्तारो निहताः सपदानुगाः
स्वधर्मे वर्तमानस्त्वं किं नु शोचसि पाण्डव
राजा हि हन्याद्दद्याच्च प्रजा रक्षेच्च धर्मतः
१२.३२.१०युधिष्ठिर उवाच
१२.३२.११न तेऽभिशङ्के वचनं यद्ब्रवीषि तपोधन
अपरोक्षो हि ते धर्मः सर्वधर्मभृतां वर
१२.३२.१२मया ह्यवध्या बहवो घातिता राज्यकारणात्
तान्यकार्याणि मे ब्रह्मन्दहन्ति च तपन्ति च
१२.३२.१३व्यास उवाच
१२.३२.१४ईश्वरो वा भवेत्कर्ता पुरुषो वापि भारत
हठो वा वर्तते लोके कर्मजं वा फलं स्मृतम्
१२.३२.१५ईश्वरेण नियुक्ता हि साध्वसाधु च पार्थिव
कुर्वन्ति पुरुषाः कर्म फलमीश्वरगामि तत्
१२.३२.१६यथा हि पुरुषश्छिन्द्याद्वृक्षं परशुना वने
छेत्तुरेव भवेत्पापं परशोर्न कथंचन
१२.३२.१७अथ वा तदुपादानात्प्राप्नुयुः कर्मणः फलम्
दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते
१२.३२.१८न चैतदिष्टं कौन्तेय यदन्येन फलं कृतम्
प्राप्नुयादिति तस्माच्च ईश्वरे तन्निवेशय
१२.३२.१९अथ वा पुरुषः कर्ता कर्मणोः शुभपापयोः
न परं विद्यते तस्मादेवमन्यच्छुभं कुरु
१२.३२.२०न हि कश्चित्क्वचिद्राजन्दिष्टात्प्रतिनिवर्तते
दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते
१२.३२.२१यदि वा मन्यसे राजन्हठे लोकं प्रतिष्ठितम्
एवमप्यशुभं कर्म न भूतं न भविष्यति
१२.३२.२२अथाभिपत्तिर्लोकस्य कर्तव्या शुभपापयोः
अभिपन्नतमं लोके राज्ञामुद्यतदण्डनम्
१२.३२.२३अथापि लोके कर्माणि समावर्तन्त भारत
शुभाशुभफलं चेमे प्राप्नुवन्तीति मे मतिः
१२.३२.२४एवं सत्यं शुभादेशं कर्मणस्तत्फलं ध्रुवम्
त्यज तद्राजशार्दूल मैवं शोके मनः कृथाः
१२.३२.२५स्वधर्मे वर्तमानस्य सापवादेऽपि भारत
एवमात्मपरित्यागस्तव राजन्न शोभनः
१२.३२.२६विहितानीह कौन्तेय प्रायश्चित्तानि कर्मिणाम्
शरीरवांस्तानि कुर्यादशरीरः पराभवेत्
१२.३२.२७तद्राजञ्जीवमानस्त्वं प्रायश्चित्तं चरिष्यसि
प्रायश्चित्तमकृत्वा तु प्रेत्य तप्तासि भारत