१२. शान्तिपर्व
१२.३२६.१भीष्म उवाच

१२.३२६.२एवं स्तुतः स भगवान्गुह्यैस्तथ्यैश्च नामभिः
तं मुनिं दर्शयामास नारदं विश्वरूपधृक्

१२.३२६.३किंचिच्चन्द्रविशुद्धात्मा किंचिच्चन्द्राद्विशेषवान्
कृशानुवर्णः किंचिच्च किंचिद्धिष्ण्याकृतिः प्रभुः

१२.३२६.४शुकपत्रवर्णः किंचिच्च किंचित्स्फटिकसप्रभः
नीलाञ्जनचयप्रख्यो जातरूपप्रभः क्वचित्

१२.३२६.५प्रवालाङ्कुरवर्णश्च श्वेतवर्णः क्वचिद्बभौ
क्वचित्सुवर्णवर्णाभो वैडूर्यसदृशः क्वचित्

१२.३२६.६नीलवैडूर्यसदृश इन्द्रनीलनिभः क्वचित्
मयूरग्रीववर्णाभो मुक्ताहारनिभः क्वचित्

१२.३२६.७एतान्वर्णान्बहुविधान्रूपे बिभ्रत्सनातनः
सहस्रनयनः श्रीमाञ्शतशीर्षः सहस्रपात्

१२.३२६.८सहस्रोदरबाहुश्च अव्यक्त इति च क्वचित्
ओंकारमुद्गिरन्वक्त्रात्सावित्रीं च तदन्वयाम्

१२.३२६.९शेषेभ्यश्चैव वक्त्रेभ्यश्चतुर्वेदोद्गतं वसु
आरण्यकं जगौ देवो हरिर्नारायणो वशी

१२.३२६.१०वेदीं कमण्डलुं दर्भान्मणिरूपानथोपलान्
अजिनं दण्डकाष्ठं च ज्वलितं च हुताशनम्
धारयामास देवेशो हस्तैर्यज्ञपतिस्तदा

१२.३२६.११तं प्रसन्नं प्रसन्नात्मा नारदो द्विजसत्तमः
वाग्यतः प्रयतो भूत्वा ववन्दे परमेश्वरम्
तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः

१२.३२६.१२एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः
इमं देशमनुप्राप्ता मम दर्शनलालसाः

१२.३२६.१३न च मां ते ददृशिरे न च द्रक्ष्यति कश्चन
ऋते ह्येकान्तिकश्रेष्ठात्त्वं चैवैकान्तिको मतः

१२.३२६.१४ममैतास्तनवः श्रेष्ठा जाता धर्मगृहे द्विज
तास्त्वं भजस्व सततं साधयस्व यथागतम्

१२.३२६.१५वृणीष्व च वरं विप्र मत्तस्त्वं यमिहेच्छसि
प्रसन्नोऽहं तवाद्येह विश्वमूर्तिरिहाव्ययः

१२.३२६.१६नारद उवाच

१२.३२६.१७अद्य मे तपसो देव यमस्य नियमस्य च
सद्यः फलमवाप्तं वै दृष्टो यद्भगवान्मया

१२.३२६.१८वर एष ममात्यन्तं दृष्टस्त्वं यत्सनातनः
भगवान्विश्वदृक्सिंहः सर्वमूर्तिर्महाप्रभुः

१२.३२६.१९भीष्म उवाच

१२.३२६.२०एवं संदर्शयित्वा तु नारदं परमेष्ठिजम्
उवाच वचनं भूयो गच्छ नारद माचिरम्

१२.३२६.२१इमे ह्यनिन्द्रियाहारा मद्भक्ताश्चन्द्रवर्चसः
एकाग्राश्चिन्तयेयुर्मां नैषां विघ्नो भवेदिति

१२.३२६.२२सिद्धाश्चैते महाभागाः पुरा ह्येकान्तिनोऽभवन्
तमोरजोविनिर्मुक्ता मां प्रवेक्ष्यन्त्यसंशयम्

१२.३२६.२३न दृश्यश्चक्षुषा योऽसौ न स्पृश्यः स्पर्शनेन च
न घ्रेयश्चैव गन्धेन रसेन च विवर्जितः

१२.३२६.२४सत्त्वं रजस्तमश्चैव न गुणास्तं भजन्ति वै
यश्च सर्वगतः साक्षी लोकस्यात्मेति कथ्यते

१२.३२६.२५भूतग्रामशरीरेषु नश्यत्सु न विनश्यति
अजो नित्यः शाश्वतश्च निर्गुणो निष्कलस्तथा

१२.३२६.२६द्विर्द्वादशेभ्यस्तत्त्वेभ्यः ख्यातो यः पञ्चविंशकः
पुरुषो निष्क्रियश्चैव ज्ञानदृश्यश्च कथ्यते

१२.३२६.२७यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तम
स वासुदेवो विज्ञेयः परमात्मा सनातनः

१२.३२६.२८पश्य देवस्य माहात्म्यं महिमानं च नारद
शुभाशुभैः कर्मभिर्यो न लिप्यति कदाचन

१२.३२६.२९सत्त्वं रजस्तमश्चैव गुणानेतान्प्रचक्षते
एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च

१२.३२६.३०एतान्गुणांस्तु क्षेत्रज्ञो भुङ्क्ते नैभिः स भुज्यते
निर्गुणो गुणभुक्चैव गुणस्रष्टा गुणाधिकः

१२.३२६.३१जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते
ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते

१२.३२६.३२खे वायुः प्रलयं याति मनस्याकाशमेव च
मनो हि परमं भूतं तदव्यक्ते प्रलीयते

१२.३२६.३३अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिये संप्रलीयते
नास्ति तस्मात्परतरं पुरुषाद्वै सनातनात्

१२.३२६.३४नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम्
ऋते तमेकं पुरुषं वासुदेवं सनातनम्
सर्वभूतात्मभूतो हि वासुदेवो महाबलः

१२.३२६.३५पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
ते समेता महात्मानः शरीरमिति संज्ञितम्

१२.३२६.३६तदाविशति यो ब्रह्मन्नदृश्यो लघुविक्रमः
उत्पन्न एव भवति शरीरं चेष्टयन्प्रभुः

१२.३२६.३७न विना धातुसंघातं शरीरं भवति क्वचित्
न च जीवं विना ब्रह्मन्धातवश्चेष्टयन्त्युत

१२.३२६.३८स जीवः परिसंख्यातः शेषः संकर्षणः प्रभुः
तस्मात्सनत्कुमारत्वं यो लभेत स्वकर्मणा

१२.३२६.३९यस्मिंश्च सर्वभूतानि प्रलयं यान्ति संक्षये
स मनः सर्वभूतानां प्रद्युम्नः परिपठ्यते

१२.३२६.४०तस्मात्प्रसूतो यः कर्ता कार्यं कारणमेव च
यस्मात्सर्वं प्रभवति जगत्स्थावरजङ्गमम्
सोऽनिरुद्धः स ईशानो व्यक्तिः सा सर्वकर्मसु

१२.३२६.४१यो वासुदेवो भगवान्क्षेत्रज्ञो निर्गुणात्मकः
ज्ञेयः स एव भगवाञ्जीवः संकर्षणः प्रभुः

१२.३२६.४२संकर्षणाच्च प्रद्युम्नो मनोभूतः स उच्यते
प्रद्युम्नाद्योऽनिरुद्धस्तु सोऽहंकारो महेश्वरः

१२.३२६.४३मत्तः सर्वं संभवति जगत्स्थावरजङ्गमम्
अक्षरं च क्षरं चैव सच्चासच्चैव नारद

१२.३२६.४४मां प्रविश्य भवन्तीह मुक्ता भक्तास्तु ये मम
अहं हि पुरुषो ज्ञेयो निष्क्रियः पञ्चविंशकः

१२.३२६.४५निर्गुणो निष्कलश्चैव निर्द्वंद्वो निष्परिग्रहः
एतत्त्वया न विज्ञेयं रूपवानिति दृश्यते
इच्छन्मुहूर्तान्नश्येयमीशोऽहं जगतो गुरुः

१२.३२६.४६माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद
सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि
मयैतत्कथितं सम्यक्तव मूर्तिचतुष्टयम्

१२.३२६.४७सिद्धा ह्येते महाभागा नरा ह्येकान्तिनोऽभवन्
तमोरजोभ्यां निर्मुक्ताः प्रवेक्ष्यन्ति च मां मुने

१२.३२६.४८अहं कर्ता च कार्यं च कारणं चापि नारद
अहं हि जीवसंज्ञो वै मयि जीवः समाहितः
मैवं ते बुद्धिरत्राभूद्दृष्टो जीवो मयेति च

१२.३२६.४९अहं सर्वत्रगो ब्रह्मन्भूतग्रामान्तरात्मकः
भूतग्रामशरीरेषु नश्यत्सु न नशाम्यहम्

१२.३२६.५०हिरण्यगर्भो लोकादिश्चतुर्वक्त्रो निरुक्तगः
ब्रह्मा सनातनो देवो मम बह्वर्थचिन्तकः

१२.३२६.५१पश्यैकादश मे रुद्रान्दक्षिणं पार्श्वमास्थितान्
द्वादशैव तथादित्यान्वामं पार्श्वं समास्थितान्

१२.३२६.५२अग्रतश्चैव मे पश्य वसूनष्टौ सुरोत्तमान्
नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः

१२.३२६.५३सर्वान्प्रजापतीन्पश्य पश्य सप्त ऋषीनपि
वेदान्यज्ञांश्च शतशः पश्यामृतमथौषधीः

१२.३२६.५४तपांसि नियमांश्चैव यमानपि पृथग्विधान्
तथाष्टगुणमैश्वर्यमेकस्थं पश्य मूर्तिमत्

१२.३२६.५५श्रियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनीम्
वेदानां मातरं पश्य मत्स्थां देवीं सरस्वतीम्

१२.३२६.५६ध्रुवं च ज्योतिषां श्रेष्ठं पश्य नारद खेचरम्
अम्भोधरान्समुद्रांश्च सरांसि सरितस्तथा

१२.३२६.५७मूर्तिमन्तः पितृगणांश्चतुरः पश्य सत्तम
त्रींश्चैवेमान्गुणान्पश्य मत्स्थान्मूर्तिविवर्जितान्

१२.३२६.५८देवकार्यादपि मुने पितृकार्यं विशिष्यते
देवानां च पितॄणां च पिता ह्येकोऽहमादितः

१२.३२६.५९अहं हयशिरो भूत्वा समुद्रे पश्चिमोत्तरे
पिबामि सुहुतं हव्यं कव्यं च श्रद्धयान्वितम्

१२.३२६.६०मया सृष्टः पुरा ब्रह्मा मद्यज्ञमयजत्स्वयम्
ततस्तस्मै वरान्प्रीतो ददावहमनुत्तमान्

१२.३२६.६१मत्पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वमेव च
अहंकारकृतं चैव नाम पर्यायवाचकम्

१२.३२६.६२त्वया कृतां च मर्यादां नातिक्राम्यति कश्चन
त्वं चैव वरदो ब्रह्मन्वरेप्सूनां भविष्यसि

१२.३२६.६३सुरासुरगणानां च ऋषीणां च तपोधन
पितॄणां च महाभाग सततं संशितव्रत
विविधानां च भूतानां त्वमुपास्यो भविष्यसि

१२.३२६.६४प्रादुर्भावगतश्चाहं सुरकार्येषु नित्यदा
अनुशास्यस्त्वया ब्रह्मन्नियोज्यश्च सुतो यथा

१२.३२६.६५एतांश्चान्यांश्च रुचिरान्ब्रह्मणेऽमिततेजसे
अहं दत्त्वा वरान्प्रीतो निवृत्तिपरमोऽभवम्

१२.३२६.६६निर्वाणं सर्वधर्माणां निवृत्तिः परमा स्मृता
तस्मान्निवृत्तिमापन्नश्चरेत्सर्वाङ्गनिर्वृतः

१२.३२६.६७विद्यासहायवन्तं मामादित्यस्थं सनातनम्
कपिलं प्राहुराचार्याः सांख्यनिश्चितनिश्चयाः

१२.३२६.६८हिरण्यगर्भो भगवानेष छन्दसि सुष्टुतः
सोऽहं योगगतिर्ब्रह्मन्योगशास्त्रेषु शब्दितः

१२.३२६.६९एषोऽहं व्यक्तिमागम्य तिष्ठामि दिवि शाश्वतः
ततो युगसहस्रान्ते संहरिष्ये जगत्पुनः
कृत्वात्मस्थानि भूतानि स्थावराणि चराणि च

१२.३२६.७०एकाकी विद्यया सार्धं विहरिष्ये द्विजोत्तम
ततो भूयो जगत्सर्वं करिष्यामीह विद्यया

१२.३२६.७१अस्मन्मूर्तिश्चतुर्थी या सासृजच्छेषमव्ययम्
स हि संकर्षणः प्रोक्तः प्रद्युम्नं सोऽप्यजीजनत्

१२.३२६.७२प्रद्युम्नादनिरुद्धोऽहं सर्गो मम पुनः पुनः
अनिरुद्धात्तथा ब्रह्मा तत्रादिकमलोद्भवः

१२.३२६.७३ब्रह्मणः सर्वभूतानि चराणि स्थावराणि च
एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः

१२.३२६.७४यथा सूर्यस्य गगनादुदयास्तमयाविह
नष्टौ पुनर्बलात्काल आनयत्यमितद्युतिः
तथा बलादहं पृथ्वीं सर्वभूतहिताय वै

१२.३२६.७५सत्त्वैराक्रान्तसर्वाङ्गां नष्टां सागरमेखलाम्
आनयिष्यामि स्वं स्थानं वाराहं रूपमास्थितः

१२.३२६.७६हिरण्याक्षं हनिष्यामि दैतेयं बलगर्वितम्
नारसिंहं वपुः कृत्वा हिरण्यकशिपुं पुनः
सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम्

१२.३२६.७७विरोचनस्य बलवान्बलिः पुत्रो महासुरः
भविष्यति स शक्रं च स्वराज्याच्च्यावयिष्यति

१२.३२६.७८त्रैलोक्येऽपहृते तेन विमुखे च शचीपतौ
अदित्यां द्वादशः पुत्रः संभविष्यामि कश्यपात्

१२.३२६.७९ततो राज्यं प्रदास्यामि शक्रायामिततेजसे
देवताः स्थापयिष्यामि स्वेषु स्थानेषु नारद
बलिं चैव करिष्यामि पातालतलवासिनम्

१२.३२६.८०त्रेतायुगे भविष्यामि रामो भृगुकुलोद्वहः
क्षत्रं चोत्सादयिष्यामि समृद्धबलवाहनम्

१२.३२६.८१संधौ तु समनुप्राप्ते त्रेतायां द्वापरस्य च
रामो दाशरथिर्भूत्वा भविष्यामि जगत्पतिः

१२.३२६.८२त्रितोपघाताद्वैरूप्यमेकतोऽथ द्वितस्तथा
प्राप्स्यतो वानरत्वं हि प्रजापतिसुतावृषी

१२.३२६.८३तयोर्ये त्वन्वये जाता भविष्यन्ति वनौकसः
ते सहाया भविष्यन्ति सुरकार्ये मम द्विज

१२.३२६.८४ततो रक्षःपतिं घोरं पुलस्त्यकुलपांसनम्
हनिष्ये रावणं संख्ये सगणं लोककण्टकम्

१२.३२६.८५द्वापरस्य कलेश्चैव संधौ पर्यवसानिके
प्रादुर्भावः कंसहेतोर्मथुरायां भविष्यति

१२.३२६.८६तत्राहं दानवान्हत्वा सुबहून्देवकण्टकान्
कुशस्थलीं करिष्यामि निवासं द्वारकां पुरीम्

१२.३२६.८७वसानस्तत्र वै पुर्यामदितेर्विप्रियंकरम्
हनिष्ये नरकं भौमं मुरं पीठं च दानवम्

१२.३२६.८८प्राग्ज्योतिषपुरं रम्यं नानाधनसमन्वितम्
कुशस्थलीं नयिष्यामि हत्वा वै दानवोत्तमान्

१२.३२६.८९शंकरं च महासेनं बाणप्रियहितैषिणम्
पराजेष्याम्यथोद्युक्तौ देवलोकनमस्कृतौ

१२.३२६.९०ततः सुतं बलेर्जित्वा बाणं बाहुसहस्रिणम्
विनाशयिष्यामि ततः सर्वान्सौभनिवासिनः

१२.३२६.९१यः कालयवनः ख्यातो गर्गतेजोभिसंवृतः
भविष्यति वधस्तस्य मत्त एव द्विजोत्तम

१२.३२६.९२जरासंधश्च बलवान्सर्वराजविरोधकः
भविष्यत्यसुरः स्फीतो भूमिपालो गिरिव्रजे
मम बुद्धिपरिस्पन्दाद्वधस्तस्य भविष्यति

१२.३२६.९३समागतेषु बलिषु पृथिव्यां सर्वराजसु
वासविः सुसहायो वै मम ह्येको भविष्यति

१२.३२६.९४एवं लोका वदिष्यन्ति नरनारायणावृषी
उद्युक्तौ दहतः क्षत्रं लोककार्यार्थमीश्वरौ

१२.३२६.९५कृत्वा भारावतरणं वसुधाया यथेप्सितम्
सर्वसात्वतमुख्यानां द्वारकायाश्च सत्तम
करिष्ये प्रलयं घोरमात्मज्ञातिविनाशनम्

१२.३२६.९६कर्माण्यपरिमेयानि चतुर्मूर्तिधरो ह्यहम्
कृत्वा लोकान्गमिष्यामि स्वानहं ब्रह्मसत्कृतान्

१२.३२६.९७हंसो हयशिराश्चैव प्रादुर्भावा द्विजोत्तम
यदा वेदश्रुतिर्नष्टा मया प्रत्याहृता तदा
सवेदाः सश्रुतीकाश्च कृताः पूर्वं कृते युगे

१२.३२६.९८अतिक्रान्ताः पुराणेषु श्रुतास्ते यदि वा क्वचित्
अतिक्रान्ताश्च बहवः प्रादुर्भावा ममोत्तमाः
लोककार्याणि कृत्वा च पुनः स्वां प्रकृतिं गताः

१२.३२६.९९न ह्येतद्ब्रह्मणा प्राप्तमीदृशं मम दर्शनम्
यत्त्वया प्राप्तमद्येह एकान्तगतबुद्धिना

१२.३२६.१००एतत्ते सर्वमाख्यातं ब्रह्मन्भक्तिमतो मया
पुराणं च भविष्यं च सरहस्यं च सत्तम

१२.३२६.१०१एवं स भगवान्देवो विश्वमूर्तिधरोऽव्ययः
एतावदुक्त्वा वचनं तत्रैवान्तरधीयत

१२.३२६.१०२नारदोऽपि महातेजाः प्राप्यानुग्रहमीप्सितम्
नरनारायणौ द्रष्टुं प्राद्रवद्बदराश्रमम्

१२.३२६.१०३इदं महोपनिषदं चतुर्वेदसमन्वितम्
सांख्ययोगकृतं तेन पञ्चरात्रानुशब्दितम्

१२.३२६.१०४नारायणमुखोद्गीतं नारदोऽश्रावयत्पुनः
ब्रह्मणः सदने तात यथा दृष्टं यथा श्रुतम्

१२.३२६.१०५युधिष्ठिर उवाच

१२.३२६.१०६एतदाश्चर्यभूतं हि माहात्म्यं तस्य धीमतः
किं ब्रह्मा न विजानीते यतः शुश्राव नारदात्

१२.३२६.१०७पितामहो हि भगवांस्तस्माद्देवादनन्तरः
कथं स न विजानीयात्प्रभावममितौजसः

१२.३२६.१०८भीष्म उवाच

१२.३२६.१०९महाकल्पसहस्राणि महाकल्पशतानि च
समतीतानि राजेन्द्र सर्गाश्च प्रलयाश्च ह

१२.३२६.११०सर्गस्यादौ स्मृतो ब्रह्मा प्रजासर्गकरः प्रभुः
जानाति देवप्रवरं भूयश्चातोऽधिकं नृप
परमात्मानमीशानमात्मनः प्रभवं तथा

१२.३२६.१११ये त्वन्ये ब्रह्मसदने सिद्धसंघाः समागताः
तेभ्यस्तच्छ्रावयामास पुराणं वेदसंमितम्

१२.३२६.११२तेषां सकाशात्सूर्यश्च श्रुत्वा वै भावितात्मनाम्
आत्मानुगामिनां ब्रह्म श्रावयामास भारत

१२.३२६.११३षट्षष्टिर्हि सहस्राणि ऋषीणां भावितात्मनाम्
सूर्यस्य तपतो लोकान्निर्मिता ये पुरःसराः
तेषामकथयत्सूर्यः सर्वेषां भावितात्मनाम्

१२.३२६.११४सूर्यानुगामिभिस्तात ऋषिभिस्तैर्महात्मभिः
मेरौ समागता देवाः श्राविताश्चेदमुत्तमम्

१२.३२६.११५देवानां तु सकाशाद्वै ततः श्रुत्वासितो द्विजः
श्रावयामास राजेन्द्र पितॄणां मुनिसत्तमः

१२.३२६.११६मम चापि पिता तात कथयामास शंतनुः
ततो मयैतच्छ्रुत्वा च कीर्तितं तव भारत

१२.३२६.११७सुरैर्वा मुनिभिर्वापि पुराणं यैरिदं श्रुतम्
सर्वे ते परमात्मानं पूजयन्ति पुनः पुनः

१२.३२६.११८इदमाख्यानमार्षेयं पारंपर्यागतं नृप
नावासुदेवभक्ताय त्वया देयं कथंचन

१२.३२६.११९मत्तोऽन्यानि च ते राजन्नुपाख्यानशतानि वै
यानि श्रुतानि धर्म्याणि तेषां सारोऽयमुद्धृतः

१२.३२६.१२०सुरासुरैर्यथा राजन्निर्मथ्यामृतमुद्धृतम्
एवमेतत्पुरा विप्रैः कथामृतमिहोद्धृतम्

१२.३२६.१२१यश्चेदं पठते नित्यं यश्चेदं शृणुयान्नरः
एकान्तभावोपगत एकान्ते सुसमाहितः

१२.३२६.१२२प्राप्य श्वेतं महाद्वीपं भूत्वा चन्द्रप्रभो नरः
स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः

१२.३२६.१२३मुच्येदार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम्
जिज्ञासुर्लभते कामान्भक्तो भक्तगतिं व्रजेत्

१२.३२६.१२४त्वयापि सततं राजन्नभ्यर्च्यः पुरुषोत्तमः
स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः

१२.३२६.१२५ब्रह्मण्यदेवो भगवान्प्रीयतां ते सनातनः
युधिष्ठिर महाबाहो महाबाहुर्जनार्दनः

१२.३२६.१२६वैशंपायन उवाच

१२.३२६.१२७श्रुत्वैतदाख्यानवरं धर्मराड्जनमेजय
भ्रातरश्चास्य ते सर्वे नारायणपराभवन्

१२.३२६.१२८जितं भगवता तेन पुरुषेणेति भारत
नित्यं जप्यपरा भूत्वा सरस्वतीमुदीरयन्

१२.३२६.१२९यो ह्यस्माकं गुरुः श्रेष्ठः कृष्णद्वैपायनो मुनिः
स जगौ परमं जप्यं नारायणमुदीरयन्

१२.३२६.१३०गत्वान्तरिक्षात्सततं क्षीरोदममृताशयम्
पूजयित्वा च देवेशं पुनरायात्स्वमाश्रमम्