१२. शान्तिपर्व
१२.३२७.१जनमेजय उवाच

१२.३२७.२कथं स भगवान्देवो यज्ञेष्वग्रहरः प्रभुः
यज्ञधारी च सततं वेदवेदाङ्गवित्तथा

१२.३२७.३निवृत्तं चास्थितो धर्मं क्षेमी भागवतप्रियः
प्रवृत्तिधर्मान्विदधे स एव भगवान्प्रभुः

१२.३२७.४कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः
कथं निवृत्तिधर्माश्च कृता व्यावृत्तबुद्धयः

१२.३२७.५एतं नः संशयं विप्र छिन्धि गुह्यं सनातनम्
त्वया नारायणकथा श्रुता वै धर्मसंहिता

१२.३२७.६इमे सब्रह्मका लोकाः ससुरासुरमानवाः
क्रियास्वभ्युदयोक्तासु सक्ता दृश्यन्ति सर्वशः
मोक्षश्चोक्तस्त्वया ब्रह्मन्निर्वाणं परमं सुखम्

१२.३२७.७ये च मुक्ता भवन्तीह पुण्यपापविवर्जिताः
ते सहस्रार्चिषं देवं प्रविशन्तीति शुश्रुमः

१२.३२७.८अहो हि दुरनुष्ठेयो मोक्षधर्मः सनातनः
यं हित्वा देवताः सर्वा हव्यकव्यभुजोऽभवन्

१२.३२७.९किं नु ब्रह्मा च रुद्रश्च शक्रश्च बलभित्प्रभुः
सूर्यस्ताराधिपो वायुरग्निर्वरुण एव च
आकाशं जगती चैव ये च शेषा दिवौकसः

१२.३२७.१०प्रलयं न विजानन्ति आत्मनः परिनिर्मितम्
ततस्ते नास्थिता मार्गं ध्रुवमक्षयमव्ययम्

१२.३२७.११स्मृत्वा कालपरीमाणं प्रवृत्तिं ये समास्थिताः
दोषः कालपरीमाणे महानेष क्रियावताम्

१२.३२७.१२एतन्मे संशयं विप्र हृदि शल्यमिवार्पितम्
छिन्धीतिहासकथनात्परं कौतूहलं हि मे

१२.३२७.१३कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज
किमर्थं चाध्वरे ब्रह्मन्निज्यन्ते त्रिदिवौकसः

१२.३२७.१४ये च भागं प्रगृह्णन्ति यज्ञेषु द्विजसत्तम
ते यजन्तो महायज्ञैः कस्य भागं ददन्ति वै

१२.३२७.१५वैशंपायन उवाच

१२.३२७.१६अहो गूढतमः प्रश्नस्त्वया पृष्टो जनेश्वर
नातप्ततपसा ह्येष नावेदविदुषा तथा
नापुराणविदा चापि शक्यो व्याहर्तुमञ्जसा

१२.३२७.१७हन्त ते कथयिष्यामि यन्मे पृष्टः पुरा गुरुः
कृष्णद्वैपायनो व्यासो वेदव्यासो महानृषिः

१२.३२७.१८सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः
अहं चतुर्थः शिष्यो वै पञ्चमश्च शुकः स्मृतः

१२.३२७.१९एतान्समागतान्सर्वान्पञ्च शिष्यान्दमान्वितान्
शौचाचारसमायुक्ताञ्जितक्रोधाञ्जितेन्द्रियान्

१२.३२७.२०वेदानध्यापयामास महाभारतपञ्चमान्
मेरौ गिरिवरे रम्ये सिद्धचारणसेविते

१२.३२७.२१तेषामभ्यस्यतां वेदान्कदाचित्संशयोऽभवत्
एष वै यस्त्वया पृष्टस्तेन तेषां प्रकीर्तितः
ततः श्रुतो मया चापि तवाख्येयोऽद्य भारत

१२.३२७.२२शिष्याणां वचनं श्रुत्वा सर्वाज्ञानतमोनुदः
पराशरसुतः श्रीमान्व्यासो वाक्यमुवाच ह

१२.३२७.२३मया हि सुमहत्तप्तं तपः परमदारुणम्
भूतं भव्यं भविष्यच्च जानीयामिति सत्तमाः

१२.३२७.२४तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च
नारायणप्रसादेन क्षीरोदस्यानुकूलतः

१२.३२७.२५त्रैकालिकमिदं ज्ञानं प्रादुर्भूतं यथेप्सितम्
तच्छृणुध्वं यथाज्ञानं वक्ष्ये संशयमुत्तमम्
यथा वृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा

१२.३२७.२६परमात्मेति यं प्राहुः सांख्ययोगविदो जनाः
महापुरुषसंज्ञां स लभते स्वेन कर्मणा

१२.३२७.२७तस्मात्प्रसूतमव्यक्तं प्रधानं तद्विदुर्बुधाः
अव्यक्ताद्व्यक्तमुत्पन्नं लोकसृष्ट्यर्थमीश्वरात्

१२.३२७.२८अनिरुद्धो हि लोकेषु महानात्मेति कथ्यते
योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम्
सोऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः

१२.३२७.२९पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
अहंकारप्रसूतानि महाभूतानि भारत

१२.३२७.३०महाभूतानि सृष्ट्वाथ तद्गुणान्निर्ममे पुनः
भूतेभ्यश्चैव निष्पन्ना मूर्तिमन्तोऽष्ट ताञ्शृणु

१२.३२७.३१मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः
वसिष्ठश्च महात्मा वै मनुः स्वायंभुवस्तथा
ज्ञेयाः प्रकृतयोऽष्टौ ता यासु लोकाः प्रतिष्ठिताः

१२.३२७.३२वेदान्वेदाङ्गसंयुक्तान्यज्ञान्यज्ञाङ्गसंयुतान्
निर्ममे लोकसिद्ध्यर्थं ब्रह्मा लोकपितामहः
अष्टाभ्यः प्रकृतिभ्यश्च जातं विश्वमिदं जगत्

१२.३२७.३३रुद्रो रोषात्मको जातो दशान्यान्सोऽसृजत्स्वयम्
एकादशैते रुद्रास्तु विकाराः पुरुषाः स्मृताः

१२.३२७.३४ते रुद्राः प्रकृतिश्चैव सर्वे चैव सुरर्षयः
उत्पन्ना लोकसिद्ध्यर्थं ब्रह्माणं समुपस्थिताः

१२.३२७.३५वयं हि सृष्टा भगवंस्त्वया वै प्रभविष्णुना
येन यस्मिन्नधीकारे वर्तितव्यं पितामह

१२.३२७.३६योऽसौ त्वया विनिर्दिष्टो अधिकारोऽर्थचिन्तकः
परिपाल्यः कथं तेन सोऽधिकारोऽधिकारिणा

१२.३२७.३७प्रदिशस्व बलं तस्य योऽधिकारार्थचिन्तकः
एवमुक्तो महादेवो देवांस्तानिदमब्रवीत्

१२.३२७.३८साध्वहं ज्ञापितो देवा युष्माभिर्भद्रमस्तु वः
ममाप्येषा समुत्पन्ना चिन्ता या भवतां मता

१२.३२७.३९लोकतन्त्रस्य कृत्स्नस्य कथं कार्यः परिग्रहः
कथं बलक्षयो न स्याद्युष्माकं ह्यात्मनश्च मे

१२.३२७.४०इतः सर्वेऽपि गच्छामः शरणं लोकसाक्षिणम्
महापुरुषमव्यक्तं स नो वक्ष्यति यद्धितम्

१२.३२७.४१ततस्ते ब्रह्मणा सार्धमृषयो विबुधास्तथा
क्षीरोदस्योत्तरं कूलं जग्मुर्लोकहितार्थिनः

१२.३२७.४२ते तपः समुपातिष्ठन्ब्रह्मोक्तं वेदकल्पितम्
स महानियमो नाम तपश्चर्या सुदारुणा

१२.३२७.४३ऊर्ध्वं दृष्टिर्बाहवश्च एकाग्रं च मनोऽभवत्
एकपादस्थिताः सम्यक्काष्ठभूताः समाहिताः

१२.३२७.४४दिव्यं वर्षसहस्रं ते तपस्तप्त्वा तदुत्तमम्
शुश्रुवुर्मधुरां वाणीं वेदवेदाङ्गभूषिताम्

१२.३२७.४५भो भोः सब्रह्मका देवा ऋषयश्च तपोधनाः
स्वागतेनार्च्य वः सर्वाञ्श्रावये वाक्यमुत्तमम्

१२.३२७.४६विज्ञातं वो मया कार्यं तच्च लोकहितं महत्
प्रवृत्तियुक्तं कर्तव्यं युष्मत्प्राणोपबृंहणम्

१२.३२७.४७सुतप्तं वस्तपो देवा ममाराधनकाम्यया
भोक्ष्यथास्य महासत्त्वास्तपसः फलमुत्तमम्

१२.३२७.४८एष ब्रह्मा लोकगुरुः सर्वलोकपितामहः
यूयं च विबुधश्रेष्ठा मां यजध्वं समाहिताः

१२.३२७.४९सर्वे भागान्कल्पयध्वं यज्ञेषु मम नित्यशः
तथा श्रेयो विधास्यामि यथाधीकारमीश्वराः

१२.३२७.५०श्रुत्वैतद्देवदेवस्य वाक्यं हृष्टतनूरुहाः
ततस्ते विबुधाः सर्वे ब्रह्मा ते च महर्षयः

१२.३२७.५१वेददृष्टेन विधिना वैष्णवं क्रतुमाहरन्
तस्मिन्सत्रे तदा ब्रह्मा स्वयं भागमकल्पयत्
देवा देवर्षयश्चैव सर्वे भागानकल्पयन्

१२.३२७.५२ते कार्तयुगधर्माणो भागाः परमसत्कृताः
प्रापुरादित्यवर्णं तं पुरुषं तमसः परम्
बृहन्तं सर्वगं देवमीशानं वरदं प्रभुम्

१२.३२७.५३ततोऽथ वरदो देवस्तान्सर्वानमरान्स्थितान्
अशरीरो बभाषेदं वाक्यं खस्थो महेश्वरः

१२.३२७.५४येन यः कल्पितो भागः स तथा समुपागतः
प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम्

१२.३२७.५५एतद्वो लक्षणं देवा मत्प्रसादसमुद्भवम्
यूयं यज्ञैरिज्यमानाः समाप्तवरदक्षिणैः
युगे युगे भविष्यध्वं प्रवृत्तिफलभोगिनः

१२.३२७.५६यज्ञैर्ये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः
कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पितान्

१२.३२७.५७यो मे यथा कल्पितवान्भागमस्मिन्महाक्रतौ
स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः

१२.३२७.५८यूयं लोकान्धारयध्वं यज्ञभागफलोदिताः
सर्वार्थचिन्तका लोके यथाधीकारनिर्मिताः

१२.३२७.५९याः क्रियाः प्रचरिष्यन्ति प्रवृत्तिफलसत्कृताः
ताभिराप्यायितबला लोकान्वै धारयिष्यथ

१२.३२७.६०यूयं हि भाविता लोके सर्वयज्ञेषु मानवैः
मां ततो भावयिष्यध्वमेषा वो भावना मम

१२.३२७.६१इत्यर्थं निर्मिता वेदा यज्ञाश्चौषधिभिः सह
एभिः सम्यक्प्रयुक्तैर्हि प्रीयन्ते देवताः क्षितौ

१२.३२७.६२निर्माणमेतद्युष्माकं प्रवृत्तिगुणकल्पितम्
मया कृतं सुरश्रेष्ठा यावत्कल्पक्षयादिति
चिन्तयध्वं लोकहितं यथाधीकारमीश्वराः

१२.३२७.६३मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः
वसिष्ठ इति सप्तैते मानसा निर्मिता हि वै

१२.३२७.६४एते वेदविदो मुख्या वेदाचार्याश्च कल्पिताः
प्रवृत्तिधर्मिणश्चैव प्राजापत्येन कल्पिताः

१२.३२७.६५अयं क्रियावतां पन्था व्यक्तीभूतः सनातनः
अनिरुद्ध इति प्रोक्तो लोकसर्गकरः प्रभुः

१२.३२७.६६सनः सनत्सुजातश्च सनकः ससनन्दनः
सनत्कुमारः कपिलः सप्तमश्च सनातनः

१२.३२७.६७सप्तैते मानसाः प्रोक्ता ऋषयो ब्रह्मणः सुताः
स्वयमागतविज्ञाना निवृत्तं धर्ममास्थिताः

१२.३२७.६८एते योगविदो मुख्याः सांख्यधर्मविदस्तथा
आचार्या मोक्षशास्त्रे च मोक्षधर्मप्रवर्तकाः

१२.३२७.६९यतोऽहं प्रसृतः पूर्वमव्यक्तात्त्रिगुणो महान्
तस्मात्परतरो योऽसौ क्षेत्रज्ञ इति कल्पितः
सोऽहं क्रियावतां पन्थाः पुनरावृत्तिदुर्लभः

१२.३२७.७०यो यथा निर्मितो जन्तुर्यस्मिन्यस्मिंश्च कर्मणि
प्रवृत्तौ वा निवृत्तौ वा तत्फलं सोऽश्नुतेऽवशः

१२.३२७.७१एष लोकगुरुर्ब्रह्मा जगदादिकरः प्रभुः
एष माता पिता चैव युष्माकं च पितामहः
मयानुशिष्टो भविता सर्वभूतवरप्रदः

१२.३२७.७२अस्य चैवानुजो रुद्रो ललाटाद्यः समुत्थितः
ब्रह्मानुशिष्टो भविता सर्वत्रसवरप्रदः

१२.३२७.७३गच्छध्वं स्वानधीकारांश्चिन्तयध्वं यथाविधि
प्रवर्तन्तां क्रियाः सर्वाः सर्वलोकेषु माचिरम्

१२.३२७.७४प्रदृश्यन्तां च कर्माणि प्राणिनां गतयस्तथा
परिनिर्मितकालानि आयूंषि च सुरोत्तमाः

१२.३२७.७५इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते
अहिंस्या यज्ञपशवो युगेऽस्मिन्नैतदन्यथा
चतुष्पात्सकलो धर्मो भविष्यत्यत्र वै सुराः

१२.३२७.७६ततस्त्रेतायुगं नाम त्रयी यत्र भविष्यति
प्रोक्षिता यत्र पशवो वधं प्राप्स्यन्ति वै मखे
तत्र पादचतुर्थो वै धर्मस्य न भविष्यति

१२.३२७.७७ततो वै द्वापरं नाम मिश्रः कालो भविष्यति
द्विपादहीनो धर्मश्च युगे तस्मिन्भविष्यति

१२.३२७.७८ततस्तिष्येऽथ संप्राप्ते युगे कलिपुरस्कृते
एकपादस्थितो धर्मो यत्र तत्र भविष्यति

१२.३२७.७९देवा ऊचुः

१२.३२७.८०एकपादस्थिते धर्मे यत्रक्वचनगामिनि
कथं कर्तव्यमस्माभिर्भगवंस्तद्वदस्व नः

१२.३२७.८१श्रीभगवानुवाच

१२.३२७.८२यत्र वेदाश्च यज्ञाश्च तपः सत्यं दमस्तथा
अहिंसाधर्मसंयुक्ताः प्रचरेयुः सुरोत्तमाः
स वै देशः सेवितव्यो मा वोऽधर्मः पदा स्पृशेत्

१२.३२७.८३व्यास उवाच

१२.३२७.८४तेऽनुशिष्टा भगवता देवाः सर्षिगणास्तथा
नमस्कृत्वा भगवते जग्मुर्देशान्यथेप्सितान्

१२.३२७.८५गतेषु त्रिदिवौकःसु ब्रह्मैकः पर्यवस्थितः
दिदृक्षुर्भगवन्तं तमनिरुद्धतनौ स्थितम्

१२.३२७.८६तं देवो दर्शयामास कृत्वा हयशिरो महत्
साङ्गानावर्तयन्वेदान्कमण्डलुगणित्रधृक्

१२.३२७.८७ततोऽश्वशिरसं दृष्ट्वा तं देवममितौजसम्
लोककर्ता प्रभुर्ब्रह्मा लोकानां हितकाम्यया

१२.३२७.८८मूर्ध्ना प्रणम्य वरदं तस्थौ प्राञ्जलिरग्रतः
स परिष्वज्य देवेन वचनं श्रावितस्तदा

१२.३२७.८९लोककार्यगतीः सर्वास्त्वं चिन्तय यथाविधि
धाता त्वं सर्वभूतानां त्वं प्रभुर्जगतो गुरुः
त्वय्यावेशितभारोऽहं धृतिं प्राप्स्याम्यथाञ्जसा

१२.३२७.९०यदा च सुरकार्यं ते अविषह्यं भविष्यति
प्रादुर्भावं गमिष्यामि तदात्मज्ञानदेशिकः

१२.३२७.९१एवमुक्त्वा हयशिरास्तत्रैवान्तरधीयत
तेनानुशिष्टो ब्रह्मापि स्वं लोकमचिराद्गतः

१२.३२७.९२एवमेष महाभागः पद्मनाभः सनातनः
यज्ञेष्वग्रहरः प्रोक्तो यज्ञधारी च नित्यदा

१२.३२७.९३निवृत्तिं चास्थितो धर्मं गतिमक्षयधर्मिणाम्
प्रवृत्तिधर्मान्विदधे कृत्वा लोकस्य चित्रताम्

१२.३२७.९४स आदिः स मध्यः स चान्तः प्रजानां; स धाता स धेयः स कर्ता स कार्यम्
युगान्ते स सुप्तः सुसंक्षिप्य लोका;न्युगादौ प्रबुद्धो जगद्ध्युत्ससर्ज

१२.३२७.९५तस्मै नमध्वं देवाय निर्गुणाय गुणात्मने
अजाय विश्वरूपाय धाम्ने सर्वदिवौकसाम्

१२.३२७.९६महाभूताधिपतये रुद्राणां पतये तथा
आदित्यपतये चैव वसूनां पतये तथा

१२.३२७.९७अश्विभ्यां पतये चैव मरुतां पतये तथा
वेदयज्ञाधिपतये वेदाङ्गपतयेऽपि च

१२.३२७.९८समुद्रवासिने नित्यं हरये मुञ्जकेशिने
शान्तये सर्वभूतानां मोक्षधर्मानुभाषिणे

१२.३२७.९९तपसां तेजसां चैव पतये यशसोऽपि च
वाचश्च पतये नित्यं सरितां पतये तथा

१२.३२७.१००कपर्दिने वराहाय एकशृङ्गाय धीमते
विवस्वतेऽश्वशिरसे चतुर्मूर्तिधृते सदा

१२.३२७.१०१गुह्याय ज्ञानदृश्याय अक्षराय क्षराय च
एष देवः संचरति सर्वत्रगतिरव्ययः

१२.३२७.१०२एवमेतत्पुरा दृष्टं मया वै ज्ञानचक्षुषा
कथितं तच्च वः सर्वं मया पृष्टेन तत्त्वतः

१२.३२७.१०३क्रियतां मद्वचः शिष्याः सेव्यतां हरिरीश्वरः
गीयतां वेदशब्दैश्च पूज्यतां च यथाविधि

१२.३२७.१०४वैशंपायन उवाच

१२.३२७.१०५इत्युक्तास्तु वयं तेन वेदव्यासेन धीमता
सर्वे शिष्याः सुतश्चास्य शुकः परमधर्मवित्

१२.३२७.१०६स चास्माकमुपाध्यायः सहास्माभिर्विशां पते
चतुर्वेदोद्गताभिश्च ऋग्भिस्तमभितुष्टुवे

१२.३२७.१०७एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि
एवं मेऽकथयद्राजन्पुरा द्वैपायनो गुरुः

१२.३२७.१०८यश्चेदं शृणुयान्नित्यं यश्चेदं परिकीर्तयेत्
नमो भगवते कृत्वा समाहितमना नरः

१२.३२७.१०९भवत्यरोगो द्युतिमान्बलरूपसमन्वितः
आतुरो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्

१२.३२७.११०कामकामी लभेत्कामं दीर्घमायुरवाप्नुयात्
ब्राह्मणः सर्ववेदी स्यात्क्षत्रियो विजयी भवेत्
वैश्यो विपुललाभः स्याच्छूद्रः सुखमवाप्नुयात्

१२.३२७.१११अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम्
लग्नगर्भा विमुच्येत गर्भिणी जनयेत्सुतम्
वन्ध्या प्रसवमाप्नोति पुत्रपौत्रसमृद्धिमत्

१२.३२७.११२क्षेमेण गच्छेदध्वानमिदं यः पठते पथि
यो यं कामं कामयते स तमाप्नोति च ध्रुवम्

१२.३२७.११३इदं महर्षेर्वचनं विनिश्चितं; महात्मनः पुरुषवरस्य कीर्तनम्
समागमं चर्षिदिवौकसामिमं; निशम्य भक्ताः सुसुखं लभन्ते