१२.३२८.१जनमेजय उवाच
१२.३२८.२अस्तौषीद्यैरिमं व्यासः सशिष्यो मधुसूदनम्
नामभिर्विविधैरेषां निरुक्तं भगवन्मम
१२.३२८.३वक्तुमर्हसि शुश्रूषोः प्रजापतिपतेर्हरेः
श्रुत्वा भवेयं यत्पूतः शरच्चन्द्र इवामलः
१२.३२८.४वैशंपायन उवाच
१२.३२८.५शृणु राजन्यथाचष्ट फल्गुनस्य हरिर्विभुः
प्रसन्नात्मात्मनो नाम्नां निरुक्तं गुणकर्मजम्
१२.३२८.६नामभिः कीर्तितैस्तस्य केशवस्य महात्मनः
पृष्टवान्केशवं राजन्फल्गुनः परवीरहा
१२.३२८.७अर्जुन उवाच
१२.३२८.८भगवन्भूतभव्येश सर्वभूतसृगव्यय
लोकधाम जगन्नाथ लोकानामभयप्रद
१२.३२८.९यानि नामानि ते देव कीर्तितानि महर्षिभिः
वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः
१२.३२८.१०तेषां निरुक्तं त्वत्तोऽहं श्रोतुमिच्छामि केशव
न ह्यन्यो वर्तयेन्नाम्नां निरुक्तं त्वामृते प्रभो
१२.३२८.११श्रीभगवानुवाच
१२.३२८.१२ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु
पुराणे सोपनिषदे तथैव ज्योतिषेऽर्जुन
१२.३२८.१३सांख्ये च योगशास्त्रे च आयुर्वेदे तथैव च
बहूनि मम नामानि कीर्तितानि महर्षिभिः
१२.३२८.१४गौणानि तत्र नामानि कर्मजानि च कानिचित्
निरुक्तं कर्मजानां च शृणुष्व प्रयतोऽनघ
कथ्यमानं मया तात त्वं हि मेऽर्धं स्मृतः पुरा
१२.३२८.१५नमोऽतियशसे तस्मै देहिनां परमात्मने
नारायणाय विश्वाय निर्गुणाय गुणात्मने
१२.३२८.१६यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसंभवः
योऽसौ योनिर्हि सर्वस्य स्थावरस्य चरस्य च
१२.३२८.१७अष्टादशगुणं यत्तत्सत्त्वं सत्त्ववतां वर
प्रकृतिः सा परा मह्यं रोदसी योगधारिणी
ऋता सत्यामराजय्या लोकानामात्मसंज्ञिता
१२.३२८.१८तस्मात्सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः
ततो यज्ञश्च यष्टा च पुराणः पुरुषो विराट्
अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः
१२.३२८.१९ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः
प्रसादात्प्रादुरभवत्पद्मं पद्मनिभेक्षण
तत्र ब्रह्मा समभवत्स तस्यैव प्रसादजः
१२.३२८.२०अह्नः क्षये ललाटाच्च सुतो देवस्य वै तथा
क्रोधाविष्टस्य संजज्ञे रुद्रः संहारकारकः
१२.३२८.२१एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ
तदादेशितपन्थानौ सृष्टिसंहारकारकौ
निमित्तमात्रं तावत्र सर्वप्राणिवरप्रदौ
१२.३२८.२२कपर्दी जटिलो मुण्डः श्मशानगृहसेवकः
उग्रव्रतधरो रुद्रो योगी त्रिपुरदारुणः
१२.३२८.२३दक्षक्रतुहरश्चैव भगनेत्रहरस्तथा
नारायणात्मको ज्ञेयः पाण्डवेय युगे युगे
१२.३२८.२४तस्मिन्हि पूज्यमाने वै देवदेवे महेश्वरे
संपूजितो भवेत्पार्थ देवो नारायणः प्रभुः
१२.३२८.२५अहमात्मा हि लोकानां विश्वानां पाण्डुनन्दन
तस्मादात्मानमेवाग्रे रुद्रं संपूजयाम्यहम्
१२.३२८.२६यद्यहं नार्चयेयं वै ईशानं वरदं शिवम्
आत्मानं नार्चयेत्कश्चिदिति मे भावितं मनः
मया प्रमाणं हि कृतं लोकः समनुवर्तते
१२.३२८.२७प्रमाणानि हि पूज्यानि ततस्तं पूजयाम्यहम्
यस्तं वेत्ति स मां वेत्ति योऽनु तं स हि मामनु
१२.३२८.२८रुद्रो नारायणश्चैव सत्त्वमेकं द्विधाकृतम्
लोके चरति कौन्तेय व्यक्तिस्थं सर्वकर्मसु
१२.३२८.२९न हि मे केनचिद्देयो वरः पाण्डवनन्दन
इति संचिन्त्य मनसा पुराणं विश्वमीश्वरम्
पुत्रार्थमाराधितवानात्मानमहमात्मना
१२.३२८.३०न हि विष्णुः प्रणमति कस्मैचिद्विबुधाय तु
ऋत आत्मानमेवेति ततो रुद्रं भजाम्यहम्
१२.३२८.३१सब्रह्मकाः सरुद्राश्च सेन्द्रा देवाः सहर्षिभिः
अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम्
१२.३२८.३२भविष्यतां वर्ततां च भूतानां चैव भारत
सर्वेषामग्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः
१२.३२८.३३नमस्व हव्यदं विष्णुं तथा शरणदं नम
वरदं नमस्व कौन्तेय हव्यकव्यभुजं नम
१२.३२८.३४चतुर्विधा मम जना भक्ता एवं हि ते श्रुतम्
तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः
अहमेव गतिस्तेषां निराशीःकर्मकारिणाम्
१२.३२८.३५ये च शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः
सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु श्रेष्ठभाक्
१२.३२८.३६ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः
प्रबुद्धवर्याः सेवन्ते मामेवैष्यन्ति यत्परम्
भक्तं प्रति विशेषस्ते एष पार्थानुकीर्तितः
१२.३२८.३७त्वं चैवाहं च कौन्तेय नरनारायणौ स्मृतौ
भारावतरणार्थं हि प्रविष्टौ मानुषीं तनुम्
१२.३२८.३८जानाम्यध्यात्मयोगांश्च योऽहं यस्माच्च भारत
निवृत्तिलक्षणो धर्मस्तथाभ्युदयिकोऽपि च
१२.३२८.३९नराणामयनं ख्यातमहमेकः सनातनः
आपो नारा इति प्रोक्ता आपो वै नरसूनवः
अयनं मम तत्पूर्वमतो नारायणो ह्यहम्
१२.३२८.४०छादयामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः
सर्वभूताधिवासश्च वासुदेवस्ततो ह्यहम्
१२.३२८.४१गतिश्च सर्वभूतानां प्रजानां चापि भारत
व्याप्ता मे रोदसी पार्थ कान्तिश्चाभ्यधिका मम
१२.३२८.४२अधिभूतानि चान्तेऽहं तदिच्छंश्चास्मि भारत
क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसंज्ञितः
१२.३२८.४३दमात्सिद्धिं परीप्सन्तो मां जनाः कामयन्ति हि
दिवं चोर्वीं च मध्यं च तस्माद्दामोदरो ह्यहम्
१२.३२८.४४पृश्निरित्युच्यते चान्नं वेदा आपोऽमृतं तथा
ममैतानि सदा गर्भे पृश्निगर्भस्ततो ह्यहम्
१२.३२८.४५ऋषयः प्राहुरेवं मां त्रितकूपाभिपातितम्
पृश्निगर्भ त्रितं पाहीत्येकतद्वितपातितम्
१२.३२८.४६ततः स ब्रह्मणः पुत्र आद्यो ऋषिवरस्त्रितः
उत्ततारोदपानाद्वै पृश्निगर्भानुकीर्तनात्
१२.३२८.४७सूर्यस्य तपतो लोकानग्नेः सोमस्य चाप्युत
अंशवो ये प्रकाशन्ते मम ते केशसंज्ञिताः
सर्वज्ञाः केशवं तस्मान्मामाहुर्द्विजसत्तमाः
१२.३२८.४८स्वपत्न्यामाहितो गर्भ उतथ्येन महात्मना
उतथ्येऽन्तर्हिते चैव कदाचिद्देवमायया
बृहस्पतिरथाविन्दत्तां पत्नीं तस्य भारत
१२.३२८.४९ततो वै तमृषिश्रेष्ठं मैथुनोपगतं तथा
उवाच गर्भः कौन्तेय पञ्चभूतसमन्वितः
१२.३२८.५०पूर्वागतोऽहं वरद नार्हस्यम्बां प्रबाधितुम्
एतद्बृहस्पतिः श्रुत्वा चुक्रोध च शशाप च
१२.३२८.५१मैथुनोपगतो यस्मात्त्वयाहं विनिवारितः
तस्मादन्धो जास्यसि त्वं मच्छापान्नात्र संशयः
१२.३२८.५२स शापादृषिमुख्यस्य दीर्घं तम उपेयिवान्
स हि दीर्घतमा नाम नाम्ना ह्यासीदृषिः पुरा
१२.३२८.५३वेदानवाप्य चतुरः साङ्गोपाङ्गान्सनातनान्
प्रयोजयामास तदा नाम गुह्यमिदं मम
१२.३२८.५४आनुपूर्व्येण विधिना केशवेति पुनः पुनः
स चक्षुष्मान्समभवद्गौतमश्चाभवत्पुनः
१२.३२८.५५एवं हि वरदं नाम केशवेति ममार्जुन
देवानामथ सर्वेषामृषीणां च महात्मनाम्
१२.३२८.५६अग्निः सोमेन संयुक्त एकयोनि मुखं कृतम्
अग्नीषोमात्मकं तस्माज्जगत्कृत्स्नं चराचरम्
१२.३२८.५७अपि हि पुराणे भवति
एकयोन्यात्मकावग्नीषोमौ
देवाश्चाग्निमुखा इति
एकयोनित्वाच्च परस्परं महयन्तो लोकान्धारयत इति