१२. शान्तिपर्व
१२.३३०.१श्रीभगवानुवाच

१२.३३०.२सूर्याचन्द्रमसौ शश्वत्केशैर्मे अंशुसंज्ञितैः
बोधयंस्तापयंश्चैव जगदुत्तिष्ठतः पृथक्

१२.३३०.३बोधनात्तापनाच्चैव जगतो हर्षणं भवेत्
अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन
हृषीकेशोऽहमीशानो वरदो लोकभावनः

१२.३३०.४इडोपहूतयोगेन हरे भागं क्रतुष्वहम्
वर्णश्च मे हरिश्रेष्ठस्तस्माद्धरिरहं स्मृतः

१२.३३०.५धाम सारो हि लोकानामृतं चैव विचारितम्
ऋतधामा ततो विप्रैः सत्यश्चाहं प्रकीर्तितः

१२.३३०.६नष्टां च धरणीं पूर्वमविन्दं वै गुहागताम्
गोविन्द इति मां देवा वाग्भिः समभितुष्टुवुः

१२.३३०.७शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत्
तेनाविष्टं हि यत्किंचिच्छिपिविष्टं हि तत्स्मृतम्

१२.३३०.८यास्को मामृषिरव्यग्रो नैकयज्ञेषु गीतवान्
शिपिविष्ट इति ह्यस्माद्गुह्यनामधरो ह्यहम्

१२.३३०.९स्तुत्वा मां शिपिविष्टेति यास्को ऋषिरुदारधीः
मत्प्रसादादधो नष्टं निरुक्तमभिजग्मिवान्

१२.३३०.१०न हि जातो न जायेऽहं न जनिष्ये कदाचन
क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः

१२.३३०.११नोक्तपूर्वं मया क्षुद्रमश्लीलं वा कदाचन
ऋता ब्रह्मसुता सा मे सत्या देवी सरस्वती

१२.३३०.१२सच्चासच्चैव कौन्तेय मयावेशितमात्मनि
पौष्करे ब्रह्मसदने सत्यं मामृषयो विदुः

१२.३३०.१३सत्त्वान्न च्युतपूर्वोऽहं सत्त्वं वै विद्धि मत्कृतम्
जन्मनीहाभवत्सत्त्वं पौर्विकं मे धनंजय

१२.३३०.१४निराशीःकर्मसंयुक्तं सात्वतं मां प्रकल्पय
सात्वतज्ञानदृष्टोऽहं सात्वतः सात्वतां पतिः

१२.३३०.१५कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णायसो महान्
कृष्णो वर्णश्च मे यस्मात्तस्मात्कृष्णोऽहमर्जुन

१२.३३०.१६मया संश्लेषिता भूमिरद्भिर्व्योम च वायुना
वायुश्च तेजसा सार्धं वैकुण्ठत्वं ततो मम

१२.३३०.१७निर्वाणं परमं सौख्यं धर्मोऽसौ पर उच्यते
तस्मान्न च्युतपूर्वोऽहमच्युतस्तेन कर्मणा

१२.३३०.१८पृथिवीनभसी चोभे विश्रुते विश्वलौकिके
तयोः संधारणार्थं हि मामधोक्षजमञ्जसा

१२.३३०.१९निरुक्तं वेदविदुषो ये च शब्दार्थचिन्तकाः
ते मां गायन्ति प्राग्वंशे अधोक्षज इति स्थितिः

१२.३३०.२०शब्द एकमतैरेष व्याहृतः परमर्षिभिः
नान्यो ह्यधोक्षजो लोके ऋते नारायणं प्रभुम्

१२.३३०.२१घृतं ममार्चिषो लोके जन्तूनां प्राणधारणम्
घृतार्चिरहमव्यग्रैर्वेदज्ञैः परिकीर्तितः

१२.३३०.२२त्रयो हि धातवः ख्याताः कर्मजा इति च स्मृताः
पित्तं श्लेष्मा च वायुश्च एष संघात उच्यते

१२.३३०.२३एतैश्च धार्यते जन्तुरेतैः क्षीणैश्च क्षीयते
आयुर्वेदविदस्तस्मात्त्रिधातुं मां प्रचक्षते

१२.३३०.२४वृषो हि भगवान्धर्मः ख्यातो लोकेषु भारत
नैघण्टुकपदाख्यातं विद्धि मां वृषमुत्तमम्

१२.३३०.२५कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते
तस्माद्वृषाकपिं प्राह कश्यपो मां प्रजापतिः

१२.३३०.२६न चादिं न मध्यं तथा नैव चान्तं; कदाचिद्विदन्ते सुराश्चासुराश्च
अनाद्यो ह्यमध्यस्तथा चाप्यनन्तः; प्रगीतोऽहमीशो विभुर्लोकसाक्षी

१२.३३०.२७शुचीनि श्रवणीयानि शृणोमीह धनंजय
न च पापानि गृह्णामि ततोऽहं वै शुचिश्रवाः

१२.३३०.२८एकशृङ्गः पुरा भूत्वा वराहो दिव्यदर्शनः
इमामुद्धृतवान्भूमिमेकशृङ्गस्ततो ह्यहम्

१२.३३०.२९तथैवासं त्रिककुदो वाराहं रूपमास्थितः
त्रिककुत्तेन विख्यातः शरीरस्य तु मापनात्

१२.३३०.३०विरिञ्च इति यः प्रोक्तः कपिलज्ञानचिन्तकैः
स प्रजापतिरेवाहं चेतनात्सर्वलोककृत्

१२.३३०.३१विद्यासहायवन्तं मामादित्यस्थं सनातनम्
कपिलं प्राहुराचार्याः सांख्या निश्चितनिश्चयाः

१२.३३०.३२हिरण्यगर्भो द्युतिमानेष यश्छन्दसि स्तुतः
योगैः संपूज्यते नित्यं स एवाहं विभुः स्मृतः

१२.३३०.३३एकविंशतिशाखं च ऋग्वेदं मां प्रचक्षते
सहस्रशाखं यत्साम ये वै वेदविदो जनाः
गायन्त्यारण्यके विप्रा मद्भक्तास्तेऽपि दुर्लभाः

१२.३३०.३४षट्पञ्चाशतमष्टौ च सप्तत्रिंशतमित्युत
यस्मिञ्शाखा यजुर्वेदे सोऽहमाध्वर्यवे स्मृतः

१२.३३०.३५पञ्चकल्पमथर्वाणं कृत्याभिः परिबृंहितम्
कल्पयन्ति हि मां विप्रा अथर्वाणविदस्तथा

१२.३३०.३६शाखाभेदाश्च ये केचिद्याश्च शाखासु गीतयः
स्वरवर्णसमुच्चाराः सर्वांस्तान्विद्धि मत्कृतान्

१२.३३०.३७यत्तद्धयशिरः पार्थ समुदेति वरप्रदम्
सोऽहमेवोत्तरे भागे क्रमाक्षरविभागवित्

१२.३३०.३८रामादेशितमार्गेण मत्प्रसादान्महात्मना
पाञ्चालेन क्रमः प्राप्तस्तस्माद्भूतात्सनातनात्
बाभ्रव्यगोत्रः स बभौ प्रथमः क्रमपारगः

१२.३३०.३९नारायणाद्वरं लब्ध्वा प्राप्य योगमनुत्तमम्
क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः

१२.३३०.४०कण्डरीकोऽथ राजा च ब्रह्मदत्तः प्रतापवान्
जातीमरणजं दुःखं स्मृत्वा स्मृत्वा पुनः पुनः
सप्तजातिषु मुख्यत्वाद्योगानां संपदं गतः

१२.३३०.४१पुराहमात्मजः पार्थ प्रथितः कारणान्तरे
धर्मस्य कुरुशार्दूल ततोऽहं धर्मजः स्मृतः

१२.३३०.४२नरनारायणौ पूर्वं तपस्तेपतुरव्ययम्
धर्मयानं समारूढौ पर्वते गन्धमादने

१२.३३०.४३तत्कालसमयं चैव दक्षयज्ञो बभूव ह
न चैवाकल्पयद्भागं दक्षो रुद्रस्य भारत

१२.३३०.४४ततो दधीचिवचनाद्दक्षयज्ञमपाहरत्
ससर्ज शूलं क्रोधेन प्रज्वलन्तं मुहुर्मुहुः

१२.३३०.४५तच्छूलं भस्मसात्कृत्वा दक्षयज्ञं सविस्तरम्
आवयोः सहसागच्छद्बदर्याश्रममन्तिकात्
वेगेन महता पार्थ पतन्नारायणोरसि

१२.३३०.४६ततः स्वतेजसाविष्टाः केशा नारायणस्य ह
बभूवुर्मुञ्जवर्णास्तु ततोऽहं मुञ्जकेशवान्

१२.३३०.४७तच्च शूलं विनिर्धूतं हुंकारेण महात्मना
जगाम शंकरकरं नारायणसमाहतम्

१२.३३०.४८अथ रुद्र उपाधावत्तावृषी तपसान्वितौ
तत एनं समुद्धूतं कण्ठे जग्राह पाणिना
नारायणः स विश्वात्मा तेनास्य शितिकण्ठता

१२.३३०.४९अथ रुद्रविघातार्थमिषीकां जगृहे नरः
मन्त्रैश्च संयुयोजाशु सोऽभवत्परशुर्महान्

१२.३३०.५०क्षिप्तश्च सहसा रुद्रे खण्डनं प्राप्तवांस्तदा
ततोऽहं खण्डपरशुः स्मृतः परशुखण्डनात्

१२.३३०.५१अर्जुन उवाच

१२.३३०.५२अस्मिन्युद्धे तु वार्ष्णेय त्रैलोक्यमथने तदा
जयं कः प्राप्तवांस्तत्र शंसैतन्मे जनार्दन

१२.३३०.५३श्रीभगवानुवाच

१२.३३०.५४तयोः संलग्नयोर्युद्धे रुद्रनारायणात्मनोः
उद्विग्नाः सहसा कृत्स्ना लोकाः सर्वेऽभवंस्तदा

१२.३३०.५५नागृह्णात्पावकः शुभ्रं मखेषु सुहुतं हविः
वेदा न प्रतिभान्ति स्म ऋषीणां भावितात्मनाम्

१२.३३०.५६देवान्रजस्तमश्चैव समाविविशतुस्तदा
वसुधा संचकम्पेऽथ नभश्च विपफाल ह

१२.३३०.५७निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनाच्च्युतः
अगाच्छोषं समुद्रश्च हिमवांश्च व्यशीर्यत

१२.३३०.५८तस्मिन्नेवं समुत्पन्ने निमित्ते पाण्डुनन्दन
ब्रह्मा वृतो देवगणैरृषिभिश्च महात्मभिः
आजगामाशु तं देशं यत्र युद्धमवर्तत

१२.३३०.५९साञ्जलिप्रग्रहो भूत्वा चतुर्वक्त्रो निरुक्तगः
उवाच वचनं रुद्रं लोकानामस्तु वै शिवम्
न्यस्यायुधानि विश्वेश जगतो हितकाम्यया

१२.३३०.६०यदक्षरमथाव्यक्तमीशं लोकस्य भावनम्
कूटस्थं कर्तृनिर्द्वंद्वमकर्तेति च यं विदुः

१२.३३०.६१व्यक्तिभावगतस्यास्य एका मूर्तिरियं शिवा
नरो नारायणश्चैव जातौ धर्मकुलोद्वहौ

१२.३३०.६२तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ
अहं प्रसादजस्तस्य कस्मिंश्चित्कारणान्तरे
त्वं चैव क्रोधजस्तात पूर्वसर्गे सनातनः

१२.३३०.६३मया च सार्धं वरदं विबुधैश्च महर्षिभिः
प्रसादयाशु लोकानां शान्तिर्भवतु माचिरम्

१२.३३०.६४ब्रह्मणा त्वेवमुक्तस्तु रुद्रः क्रोधाग्निमुत्सृजन्
प्रसादयामास ततो देवं नारायणं प्रभुम्
शरणं च जगामाद्यं वरेण्यं वरदं हरिम्

१२.३३०.६५ततोऽथ वरदो देवो जितक्रोधो जितेन्द्रियः
प्रीतिमानभवत्तत्र रुद्रेण सह संगतः

१२.३३०.६६ऋषिभिर्ब्रह्मणा चैव विबुधैश्च सुपूजितः
उवाच देवमीशानमीशः स जगतो हरिः

१२.३३०.६७यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु
नावयोरन्तरं किंचिन्मा ते भूद्बुद्धिरन्यथा

१२.३३०.६८अद्य प्रभृति श्रीवत्सः शूलाङ्कोऽयं भवत्वयम्
मम पाण्यङ्कितश्चापि श्रीकण्ठस्त्वं भविष्यसि

१२.३३०.६९एवं लक्षणमुत्पाद्य परस्परकृतं तदा
सख्यं चैवातुलं कृत्वा रुद्रेण सहितावृषी
तपस्तेपतुरव्यग्रौ विसृज्य त्रिदिवौकसः

१२.३३०.७०एष ते कथितः पार्थ नारायणजयो मृधे
नामानि चैव गुह्यानि निरुक्तानि च भारत
ऋषिभिः कथितानीह यानि संकीर्तितानि ते

१२.३३०.७१एवं बहुविधै रूपैश्चरामीह वसुंधराम्
ब्रह्मलोकं च कौन्तेय गोलोकं च सनातनम्
मया त्वं रक्षितो युद्धे महान्तं प्राप्तवाञ्जयम्

१२.३३०.७२यस्तु ते सोऽग्रतो याति युद्धे संप्रत्युपस्थिते
तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम्

१२.३३०.७३कालः स एव कथितः क्रोधजेति मया तव
निहतांस्तेन वै पूर्वं हतवानसि वै रिपून्

१२.३३०.७४अप्रमेयप्रभावं तं देवदेवमुमापतिम्
नमस्व देवं प्रयतो विश्वेशं हरमव्ययम्