१२.३३१.१जनमेजय उवाच
१२.३३१.२ब्रह्मन्सुमहदाख्यानं भवता परिकीर्तितम्
यच्छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः
१२.३३१.३इदं शतसहस्राद्धि भारताख्यानविस्तरात्
आमथ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम्
१२.३३१.४नवनीतं यथा दध्नो मलयाच्चन्दनं यथा
आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा
१२.३३१.५समुद्धृतमिदं ब्रह्मन्कथामृतमनुत्तमम्
तपोनिधे त्वयोक्तं हि नारायणकथाश्रयम्
१२.३३१.६स हीशो भगवान्देवः सर्वभूतात्मभावनः
अहो नारायणं तेजो दुर्दर्शं द्विजसत्तम
१२.३३१.७यत्राविशन्ति कल्पान्ते सर्वे ब्रह्मादयः सुराः
ऋषयश्च सगन्धर्वा यच्च किंचिच्चराचरम्
न ततोऽस्ति परं मन्ये पावनं दिवि चेह च
१२.३३१.८सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम्
न तथा फलदं चापि नारायणकथा यथा
१२.३३१.९सर्वथा पाविताः स्मेह श्रुत्वेमामादितः कथाम्
हरेर्विश्वेश्वरस्येह सर्वपापप्रणाशनीम्
१२.३३१.१०न चित्रं कृतवांस्तत्र यदार्यो मे धनंजयः
वासुदेवसहायो यः प्राप्तवाञ्जयमुत्तमम्
१२.३३१.११न चास्य किंचिदप्राप्यं मन्ये लोकेष्वपि त्रिषु
त्रैलोक्यनाथो विष्णुः स यस्यासीत्साह्यकृत्सखा
१२.३३१.१२धन्याश्च सर्व एवासन्ब्रह्मंस्ते मम पूर्वकाः
हिताय श्रेयसे चैव येषामासीज्जनार्दनः
१२.३३१.१३तपसापि न दृश्यो हि भगवाँल्लोकपूजितः
यं दृष्टवन्तस्ते साक्षाच्छ्रीवत्साङ्कविभूषणम्
१२.३३१.१४तेभ्यो धन्यतरश्चैव नारदः परमेष्ठिजः
न चाल्पतेजसमृषिं वेद्मि नारदमव्ययम्
श्वेतद्वीपं समासाद्य येन दृष्टः स्वयं हरिः
१२.३३१.१५देवप्रसादानुगतं व्यक्तं तत्तस्य दर्शनम्
यद्दृष्टवांस्तदा देवमनिरुद्धतनौ स्थितम्
१२.३३१.१६बदरीमाश्रमं यत्तु नारदः प्राद्रवत्पुनः
नरनारायणौ द्रष्टुं किं नु तत्कारणं मुने
१२.३३१.१७श्वेतद्वीपान्निवृत्तश्च नारदः परमेष्ठिजः
बदरीमाश्रमं प्राप्य समागम्य च तावृषी
१२.३३१.१८कियन्तं कालमवसत्काः कथाः पृष्टवांश्च सः
श्वेतद्वीपादुपावृत्ते तस्मिन्वा सुमहात्मनि
१२.३३१.१९किमब्रूतां महात्मानौ नरनारायणावृषी
तदेतन्मे यथातत्त्वं सर्वमाख्यातुमर्हसि
१२.३३१.२०वैशंपायन उवाच
१२.३३१.२१नमो भगवते तस्मै व्यासायामिततेजसे
यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम्
१२.३३१.२२प्राप्य श्वेतं महाद्वीपं दृष्ट्वा च हरिमव्ययम्
निवृत्तो नारदो राजंस्तरसा मेरुमागमत्
हृदयेनोद्वहन्भारं यदुक्तं परमात्मना
१२.३३१.२३पश्चादस्याभवद्राजन्नात्मनः साध्वसं महत्
यद्गत्वा दूरमध्वानं क्षेमी पुनरिहागतः
१२.३३१.२४ततो मेरोः प्रचक्राम पर्वतं गन्धमादनम्
निपपात च खात्तूर्णं विशालां बदरीमनु
१२.३३१.२५ततः स ददृशे देवौ पुराणावृषिसत्तमौ
तपश्चरन्तौ सुमहदात्मनिष्ठौ महाव्रतौ
१२.३३१.२६तेजसाभ्यधिकौ सूर्यात्सर्वलोकविरोचनात्
श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ
१२.३३१.२७जालपादभुजौ तौ तु पादयोश्चक्रलक्षणौ
व्यूढोरस्कौ दीर्घभुजौ तथा मुष्कचतुष्किणौ
१२.३३१.२८षष्टिदन्तावष्टदंष्ट्रौ मेघौघसदृशस्वनौ
स्वास्यौ पृथुललाटौ च सुहनू सुभ्रुनासिकौ
१२.३३१.२९आतपत्रेण सदृशे शिरसी देवयोस्तयोः
एवं लक्षणसंपन्नौ महापुरुषसंज्ञितौ
१२.३३१.३०तौ दृष्ट्वा नारदो हृष्टस्ताभ्यां च प्रतिपूजितः
स्वागतेनाभिभाष्याथ पृष्टश्चानामयं तदा
१२.३३१.३१बभूवान्तर्गतमतिर्निरीक्ष्य पुरुषोत्तमौ
सदोगतास्तत्र ये वै सर्वभूतनमस्कृताः
१२.३३१.३२श्वेतद्वीपे मया दृष्टास्तादृशावृषिसत्तमौ
इति संचिन्त्य मनसा कृत्वा चाभिप्रदक्षिणम्
उपोपविविशे तत्र पीठे कुशमये शुभे
१२.३३१.३३ततस्तौ तपसां वासौ यशसां तेजसामपि
ऋषी शमदमोपेतौ कृत्वा पूर्वाह्णिकं विधिम्
१२.३३१.३४पश्चान्नारदमव्यग्रौ पाद्यार्घ्याभ्यां प्रपूज्य च
पीठयोश्चोपविष्टौ तौ कृतातिथ्याह्निकौ नृप
१२.३३१.३५तेषु तत्रोपविष्टेषु स देशोऽभिव्यराजत
आज्याहुतिमहाज्वालैर्यज्ञवाटोऽग्निभिर्यथा
१२.३३१.३६अथ नारायणस्तत्र नारदं वाक्यमब्रवीत्
सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम्
१२.३३१.३७अपीदानीं स भगवान्परमात्मा सनातनः
श्वेतद्वीपे त्वया दृष्ट आवयोः प्रकृतिः परा
१२.३३१.३८नारद उवाच
१२.३३१.३९दृष्टो मे पुरुषः श्रीमान्विश्वरूपधरोऽव्ययः
सर्वे हि लोकास्तत्रस्थास्तथा देवाः सहर्षिभिः
अद्यापि चैनं पश्यामि युवां पश्यन्सनातनौ
१२.३३१.४०यैर्लक्षणैरुपेतः स हरिरव्यक्तरूपधृक्
तैर्लक्षणैरुपेतौ हि व्यक्तरूपधरौ युवाम्
१२.३३१.४१दृष्टौ मया युवां तत्र तस्य देवस्य पार्श्वतः
इह चैवागतोऽस्म्यद्य विसृष्टः परमात्मना
१२.३३१.४२को हि नाम भवेत्तस्य तेजसा यशसा श्रिया
सदृशस्त्रिषु लोकेषु ऋते धर्मात्मजौ युवाम्
१२.३३१.४३तेन मे कथितं पूर्वं नाम क्षेत्रज्ञसंज्ञितम्
प्रादुर्भावाश्च कथिता भविष्यन्ति हि ये यथा
१२.३३१.४४तत्र ये पुरुषाः श्वेताः पञ्चेन्द्रियविवर्जिताः
प्रतिबुद्धाश्च ते सर्वे भक्ताश्च पुरुषोत्तमम्
१२.३३१.४५तेऽर्चयन्ति सदा देवं तैः सार्धं रमते च सः
प्रियभक्तो हि भगवान्परमात्मा द्विजप्रियः
१२.३३१.४६रमते सोऽर्च्यमानो हि सदा भागवतप्रियः
विश्वभुक्सर्वगो देवो बान्धवो भक्तवत्सलः
स कर्ता कारणं चैव कार्यं चातिबलद्युतिः
१२.३३१.४७तपसा योज्य सोऽऽत्मानं श्वेतद्वीपात्परं हि यत्
तेज इत्यभिविख्यातं स्वयंभासावभासितम्
१२.३३१.४८शान्तिः सा त्रिषु लोकेषु सिद्धानां भावितात्मनाम्
एतया शुभया बुद्ध्या नैष्ठिकं व्रतमास्थितः
१२.३३१.४९न तत्र सूर्यस्तपति न सोमोऽभिविराजते
न वायुर्वाति देवेशे तपश्चरति दुश्चरम्
१२.३३१.५०वेदीमष्टतलोत्सेधां भूमावास्थाय विश्वभुक्
एकपादस्थितो देव ऊर्ध्वबाहुरुदङ्मुखः
साङ्गानावर्तयन्वेदांस्तपस्तेपे सुदुश्चरम्
१२.३३१.५१यद्ब्रह्मा ऋषयश्चैव स्वयं पशुपतिश्च यत्
शेषाश्च विबुधश्रेष्ठा दैत्यदानवराक्षसाः
१२.३३१.५२नागाः सुपर्णा गन्धर्वाः सिद्धा राजर्षयश्च ये
हव्यं कव्यं च सततं विधिपूर्वं प्रयुञ्जते
कृत्स्नं तत्तस्य देवस्य चरणावुपतिष्ठति
१२.३३१.५३याः क्रियाः संप्रयुक्तास्तु एकान्तगतबुद्धिभिः
ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम्
१२.३३१.५४न तस्यान्यः प्रियतरः प्रतिबुद्धैर्महात्मभिः
विद्यते त्रिषु लोकेषु ततोऽस्म्यैकान्तिकं गतः
इह चैवागतस्तेन विसृष्टः परमात्मना
१२.३३१.५५एवं मे भगवान्देवः स्वयमाख्यातवान्हरिः
आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः