१२.३३३.१वैशंपायन उवाच
१२.३३३.२कस्यचित्त्वथ कालस्य नारदः परमेष्ठिजः
दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम्
१२.३३३.३ततस्तं वचनं प्राह ज्येष्ठो धर्मात्मजः प्रभुः
क इज्यते द्विजश्रेष्ठ दैवे पित्र्ये च कल्पिते
१२.३३३.४त्वया मतिमतां श्रेष्ठ तन्मे शंस यथागमम्
किमेतत्क्रियते कर्म फलं चास्य किमिष्यते
१२.३३३.५नारद उवाच
१२.३३३.६त्वयैतत्कथितं पूर्वं दैवं कर्तव्यमित्यपि
दैवतं च परो यज्ञः परमात्मा सनातनः
१२.३३३.७ततस्तद्भावितो नित्यं यजे वैकुण्ठमव्ययम्
तस्माच्च प्रसृतः पूर्वं ब्रह्मा लोकपितामहः
१२.३३३.८मम वै पितरं प्रीतः परमेष्ठ्यप्यजीजनत्
अहं संकल्पजस्तस्य पुत्रः प्रथमकल्पितः
१२.३३३.९यजाम्यहं पितॄन्साधो नारायणविधौ कृते
एवं स एव भगवान्पिता माता पितामहः
इज्यते पितृयज्ञेषु मया नित्यं जगत्पतिः
१२.३३३.१०श्रुतिश्चाप्यपरा देव पुत्रान्हि पितरोऽयजन्
वेदश्रुतिः प्रणष्टा च पुनरध्यापिता सुतैः
ततस्ते मन्त्रदाः पुत्राः पितृत्वमुपपेदिरे
१२.३३३.११नूनं पुरैतद्विदितं युवयोर्भावितात्मनोः
पुत्राश्च पितरश्चैव परस्परमपूजयन्
१२.३३३.१२त्रीन्पिण्डान्न्यस्य वै पृथ्व्यां पूर्वं दत्त्वा कुशानिति
कथं तु पिण्डसंज्ञां ते पितरो लेभिरे पुरा
१२.३३३.१३नरनारायणावूचतुः
१२.३३३.१४इमां हि धरणीं पूर्वं नष्टां सागरमेखलाम्
गोविन्द उज्जहाराशु वाराहं रूपमाश्रितः
१२.३३३.१५स्थापयित्वा तु धरणीं स्वे स्थाने पुरुषोत्तमः
जलकर्दमलिप्ताङ्गो लोककार्यार्थमुद्यतः
१२.३३३.१६प्राप्ते चाह्निककाले स मध्यंदिनगते रवौ
दंष्ट्राविलग्नान्मृत्पिण्डान्विधूय सहसा प्रभुः
स्थापयामास वै पृथ्व्यां कुशानास्तीर्य नारद
१२.३३३.१७स तेष्वात्मानमुद्दिश्य पित्र्यं चक्रे यथाविधि
संकल्पयित्वा त्रीन्पिण्डान्स्वेनैव विधिना प्रभुः
१२.३३३.१८आत्मगात्रोष्मसंभूतैः स्नेहगर्भैस्तिलैरपि
प्रोक्ष्यापवर्गं देवेशः प्राङ्मुखः कृतवान्स्वयम्
१२.३३३.१९मर्यादास्थापनार्थं च ततो वचनमुक्तवान्
अहं हि पितरः स्रष्टुमुद्यतो लोककृत्स्वयम्
१२.३३३.२०तस्य चिन्तयतः सद्यः पितृकार्यविधिं परम्
दंष्ट्राभ्यां प्रविनिर्धूता ममैते दक्षिणां दिशम्
आश्रिता धरणीं पिण्डास्तस्मात्पितर एव ते
१२.३३३.२१त्रयो मूर्तिविहीना वै पिण्डमूर्तिधरास्त्विमे
भवन्तु पितरो लोके मया सृष्टाः सनातनाः
१२.३३३.२२पिता पितामहश्चैव तथैव प्रपितामहः
अहमेवात्र विज्ञेयस्त्रिषु पिण्डेषु संस्थितः
१२.३३३.२३नास्ति मत्तोऽधिकः कश्चित्को वाभ्यर्च्यो मया स्वयम्
को वा मम पिता लोके अहमेव पितामहः
१२.३३३.२४पितामहपिता चैव अहमेवात्र कारणम्
इत्येवमुक्त्वा वचनं देवदेवो वृषाकपिः
१२.३३३.२५वराहपर्वते विप्र दत्त्वा पिण्डान्सविस्तरान्
आत्मानं पूजयित्वैव तत्रैवादर्शनं गतः
१२.३३३.२६एतदर्थं शुभमते पितरः पिण्डसंज्ञिताः
लभन्ते सततं पूजां वृषाकपिवचो यथा
१२.३३३.२७ये यजन्ति पितॄन्देवान्गुरूंश्चैवातिथींस्तथा
गाश्चैव द्विजमुख्यांश्च पृथिवीं मातरं तथा
कर्मणा मनसा वाचा विष्णुमेव यजन्ति ते
१२.३३३.२८अन्तर्गतः स भगवान्सर्वसत्त्वशरीरगः
समः सर्वेषु भूतेषु ईश्वरः सुखदुःखयोः
महान्महात्मा सर्वात्मा नारायण इति श्रुतः