१२. शान्तिपर्व
१२.३३४.१वैशंपायन उवाच

१२.३३४.२श्रुत्वैतन्नारदो वाक्यं नरनारायणेरितम्
अत्यन्तभक्तिमान्देवे एकान्तित्वमुपेयिवान्

१२.३३४.३प्रोष्य वर्षसहस्रं तु नरनारायणाश्रमे
श्रुत्वा भगवदाख्यानं दृष्ट्वा च हरिमव्ययम्
हिमवन्तं जगामाशु यत्रास्य स्वक आश्रमः

१२.३३४.४तावपि ख्याततपसौ नरनारायणावृषी
तस्मिन्नेवाश्रमे रम्ये तेपतुस्तप उत्तमम्

१२.३३४.५त्वमप्यमितविक्रान्तः पाण्डवानां कुलोद्वहः
पावितात्माद्य संवृत्तः श्रुत्वेमामादितः कथाम्

१२.३३४.६नैव तस्य परो लोको नायं पार्थिवसत्तम
कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम्

१२.३३४.७मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः
यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं हरिम्

१२.३३४.८कथं नाम भवेद्द्वेष्य आत्मा लोकस्य कस्यचित्
आत्मा हि पुरुषव्याघ्र ज्ञेयो विष्णुरिति स्थितिः

१२.३३४.९य एष गुरुरस्माकमृषिर्गन्धवतीसुतः
तेनैतत्कथितं तात माहात्म्यं परमात्मनः
तस्माच्छ्रुतं मया चेदं कथितं च तवानघ

१२.३३४.१०कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम्
को ह्यन्यः पुरुषव्याघ्र महाभारतकृद्भवेत्
धर्मान्नानाविधांश्चैव को ब्रूयात्तमृते प्रभुम्

१२.३३४.११वर्ततां ते महायज्ञो यथा संकल्पितस्त्वया
संकल्पिताश्वमेधस्त्वं श्रुतधर्मश्च तत्त्वतः

१२.३३४.१२एतत्तु महदाख्यानं श्रुत्वा पारिक्षितो नृपः
ततो यज्ञसमाप्त्यर्थं क्रियाः सर्वाः समारभत्

१२.३३४.१३नारायणीयमाख्यानमेतत्ते कथितं मया
नारदेन पुरा राजन्गुरवे मे निवेदितम्
ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः

१२.३३४.१४स हि परमगुरुर्भुवनपति;र्धरणिधरः शमनियमनिधिः
श्रुतिविनयनिधिर्द्विजपरमहित;स्तव भवतु गतिर्हरिरमरहितः

१२.३३४.१५तपसां निधिः सुमहतां महतो; यशसश्च भाजनमरिष्टकहा
एकान्तिनां शरणदोऽभयदो; गतिदोऽस्तु वः स मखभागहरः

१२.३३४.१६त्रिगुणातिगश्चतुष्पञ्चधरः; पूर्तेष्टयोश्च फलभागहरः
विदधाति नित्यमजितोऽतिबलो; गतिमात्मगां सुकृतिनामृषिणाम्

१२.३३४.१७तं लोकसाक्षिणमजं पुरुषं; रविवर्णमीश्वरगतिं बहुशः
प्रणमध्वमेकमतयो यतयः; सलिलोद्भवोऽपि तमृषिं प्रणतः

१२.३३४.१८स हि लोकयोनिरमृतस्य पदं; सूक्ष्मं पुराणमचलं परमम्
तत्सांख्ययोगिभिरुदारधृतं; बुद्ध्या यतात्मभिर्विदितं सततम्