१२. शान्तिपर्व
१२.३४३.१अतिथिरुवाच

१२.३४३.२उपदेशं तु ते विप्र करिष्येऽहं यथागमम्
गुरुणा मे यथाख्यातमर्थतस्तच्च मे शृणु

१२.३४३.३यत्र पूर्वाभिसर्गेण धर्मचक्रं प्रवर्तितम्
नैमिषे गोमतीतीरे तत्र नागाह्वयं पुरम्

१२.३४३.४समग्रैस्त्रिदशैस्तत्र इष्टमासीद्द्विजर्षभ
यत्रेन्द्रातिक्रमं चक्रे मान्धाता राजसत्तमः

१२.३४३.५कृताधिवासो धर्मात्मा तत्र चक्षुःश्रवा महान्
पद्मनाभो महाभागः पद्म इत्येव विश्रुतः

१२.३४३.६स वाचा कर्मणा चैव मनसा च द्विजर्षभ
प्रसादयति भूतानि त्रिविधे वर्त्मनि स्थितः

१२.३४३.७साम्ना दानेन भेदेन दण्डेनेति चतुर्विधम्
विषमस्थं जनं स्वं च चक्षुर्ध्यानेन रक्षति

१२.३४३.८तमभिक्रम्य विधिना प्रष्टुमर्हसि काङ्क्षितम्
स ते परमकं धर्मं नमिथ्या दर्शयिष्यति

१२.३४३.९स हि सर्वातिथिर्नागो बुद्धिशास्त्रविशारदः
गुणैरनवमैर्युक्तः समस्तैराभिकामिकैः

१२.३४३.१०प्रकृत्या नित्यसलिलो नित्यमध्ययने रतः
तपोदमाभ्यां संयुक्तो वृत्तेनानवरेण च

१२.३४३.११यज्वा दानरुचिः क्षान्तो वृत्ते च परमे स्थितः
सत्यवागनसूयुश्च शीलवानभिसंश्रितः

१२.३४३.१२शेषान्नभोक्ता वचनानुकूलो; हितार्जवोत्कृष्टकृताकृतज्ञः
अवैरकृद्भूतहिते नियुक्तो; गङ्गाह्रदाम्भोऽभिजनोपपन्नः