१२.३४४.१ब्राह्मण उवाच
१२.३४४.२अतिभारोद्यतस्यैव भारापनयनं महत्
पराश्वासकरं वाक्यमिदं मे भवतः श्रुतम्
१२.३४४.३अध्वक्लान्तस्य शयनं स्थानक्लान्तस्य चासनम्
तृषितस्य च पानीयं क्षुधार्तस्य च भोजनम्
१२.३४४.४ईप्सितस्येव संप्राप्तिरन्नस्य समयेऽतिथेः
एषितस्यात्मनः काले वृद्धस्येव सुतो यथा
१२.३४४.५मनसा चिन्तितस्येव प्रीतिस्निग्धस्य दर्शनम्
प्रह्रादयति मां वाक्यं भवता यदुदीरितम्
१२.३४४.६दत्तचक्षुरिवाकाशे पश्यामि विमृशामि च
प्रज्ञानवचनाद्योऽयमुपदेशो हि मे कृतः
बाढमेवं करिष्यामि यथा मां भाषते भवान्
१२.३४४.७इहेमां रजनीं साधो निवसस्व मया सह
प्रभाते यास्यति भवान्पर्याश्वस्तः सुखोषितः
असौ हि भगवान्सूर्यो मन्दरश्मिरवाङ्मुखः
१२.३४४.८भीष्म उवाच
१२.३४४.९ततस्तेन कृतातिथ्यः सोऽतिथिः शत्रुसूदन
उवास किल तां रात्रिं सह तेन द्विजेन वै
१२.३४४.१०तत्तच्च धर्मसंयुक्तं तयोः कथयतोस्तदा
व्यतीता सा निशा कृत्स्ना सुखेन दिवसोपमा
१२.३४४.११ततः प्रभातसमये सोऽतिथिस्तेन पूजितः
ब्राह्मणेन यथाशक्त्या स्वकार्यमभिकाङ्क्षता
१२.३४४.१२ततः स विप्रः कृतधर्मनिश्चयः; कृताभ्यनुज्ञः स्वजनेन धर्मवित्
यथोपदिष्टं भुजगेन्द्रसंश्रयं; जगाम काले सुकृतैकनिश्चयः