१२. शान्तिपर्व
१२.३४६.१भीष्म उवाच

१२.३४६.२अथ तेन नरश्रेष्ठ ब्राह्मणेन तपस्विना
निराहारेण वसता दुःखितास्ते भुजंगमाः

१२.३४६.३सर्वे संभूय सहितास्तस्य नागस्य बान्धवाः
भ्रातरस्तनया भार्या ययुस्तं ब्राह्मणं प्रति

१२.३४६.४तेऽपश्यन्पुलिने तं वै विविक्ते नियतव्रतम्
समासीनं निराहारं द्विजं जप्यपरायणम्

१२.३४६.५ते सर्वे समभिक्रम्य विप्रमभ्यर्च्य चासकृत्
ऊचुर्वाक्यमसंदिग्धमातिथेयस्य बान्धवाः

१२.३४६.६षष्ठो हि दिवसस्तेऽद्य प्राप्तस्येह तपोधन
न चाभिलषसे किंचिदाहारं धर्मवत्सल

१२.३४६.७अस्मानभिगतश्चासि वयं च त्वामुपस्थिताः
कार्यं चातिथ्यमस्माभिर्वयं सर्वे कुटुम्बिनः

१२.३४६.८मूलं फलं वा पर्णं वा पयो वा द्विजसत्तम
आहारहेतोरन्नं वा भोक्तुमर्हसि ब्राह्मण

१२.३४६.९त्यक्ताहारेण भवता वने निवसता सता
बालवृद्धमिदं सर्वं पीड्यते धर्मसंकटात्

१२.३४६.१०न हि नो भ्रूणहा कश्चिद्राजापथ्योऽनृतोऽपि वा
पूर्वाशी वा कुले ह्यस्मिन्देवतातिथिबन्धुषु

१२.३४६.११ब्राह्मण उवाच

१२.३४६.१२उपदेशेन युष्माकमाहारोऽयं मया वृतः
द्विरूनं दशरात्रं वै नागस्यागमनं प्रति

१२.३४६.१३यद्यष्टरात्रे निर्याते नागमिष्यति पन्नगः
तदाहारं करिष्यामि तन्निमित्तमिदं व्रतम्

१२.३४६.१४कर्तव्यो न च संतापो गम्यतां च यथागतम्
तन्निमित्तं व्रतं मह्यं नैतद्भेत्तुमिहार्हथ

१२.३४६.१५भीष्म उवाच

१२.३४६.१६तेन ते समनुज्ञाता ब्राह्मणेन भुजंगमाः
स्वमेव भवनं जग्मुरकृतार्था नरर्षभ