१२.३४७.१भीष्म उवाच
१२.३४७.२अथ काले बहुतिथे पूर्णे प्राप्तो भुजंगमः
दत्ताभ्यनुज्ञः स्वं वेश्म कृतकर्मा विवस्वतः
१२.३४७.३तं भार्या समभिक्रामत्पादशौचादिभिर्गुणैः
उपपन्नां च तां साध्वीं पन्नगः पर्यपृच्छत
१२.३४७.४अपि त्वमसि कल्याणि देवतातिथिपूजने
पूर्वमुक्तेन विधिना युक्ता युक्तेन मत्समम्
१२.३४७.५न खल्वस्यकृतार्थेन स्त्रीबुद्ध्या मार्दवीकृता
मद्वियोगेन सुश्रोणि वियुक्ता धर्मसेतुना
१२.३४७.६नागभार्योवाच
१२.३४७.७शिष्याणां गुरुशुश्रूषा विप्राणां वेदपारणम्
भृत्यानां स्वामिवचनं राज्ञां लोकानुपालनम्
१२.३४७.८सर्वभूतपरित्राणं क्षत्रधर्म इहोच्यते
वैश्यानां यज्ञसंवृत्तिरातिथेयसमन्विता
१२.३४७.९विप्रक्षत्रियवैश्यानां शुश्रूषा शूद्रकर्म तत्
गृहस्थधर्मो नागेन्द्र सर्वभूतहितैषिता
१२.३४७.१०नियताहारता नित्यं व्रतचर्या यथाक्रमम्
धर्मो हि धर्मसंबन्धादिन्द्रियाणां विशेषणम्
१२.३४७.११अहं कस्य कुतो वाहं कः को मे ह भवेदिति
प्रयोजनमतिर्नित्यमेवं मोक्षाश्रमी भवेत्
१२.३४७.१२पतिव्रतात्वं भार्यायाः परमो धर्म उच्यते
तवोपदेशान्नागेन्द्र तच्च तत्त्वेन वेद्मि वै
१२.३४७.१३साहं धर्मं विजानन्ती धर्मनित्ये त्वयि स्थिते
सत्पथं कथमुत्सृज्य यास्यामि विषमे पथि
१२.३४७.१४देवतानां महाभाग धर्मचर्या न हीयते
अतिथीनां च सत्कारे नित्ययुक्तास्म्यतन्द्रिता
१२.३४७.१५सप्ताष्टदिवसास्त्वद्य विप्रस्येहागतस्य वै
स च कार्यं न मे ख्याति दर्शनं तव काङ्क्षति
१२.३४७.१६गोमत्यास्त्वेष पुलिने त्वद्दर्शनसमुत्सुकः
आसीनोऽऽवर्तयन्ब्रह्म ब्राह्मणः संशितव्रतः
१२.३४७.१७अहं त्वनेन नागेन्द्र सामपूर्वं समाहिता
प्रस्थाप्यो मत्सकाशं स संप्राप्तो भुजगोत्तमः
१२.३४७.१८एतच्छ्रुत्वा महाप्राज्ञ तत्र गन्तुं त्वमर्हसि
दातुमर्हसि वा तस्य दर्शनं दर्शनश्रवः