१२. शान्तिपर्व
१२.३५.१युधिष्ठिर उवाच

१२.३५.२कानि कृत्वेह कर्माणि प्रायश्चित्तीयते नरः
किं कृत्वा चैव मुच्येत तन्मे ब्रूहि पितामह

१२.३५.३व्यास उवाच

१२.३५.४अकुर्वन्विहितं कर्म प्रतिषिद्धानि चाचरन्
प्रायश्चित्तीयते ह्येवं नरो मिथ्या च वर्तयन्

१२.३५.५सूर्येणाभ्युदितो यश्च ब्रह्मचारी भवत्युत
तथा सूर्याभिनिर्मुक्तः कुनखी श्यावदन्नपि

१२.३५.६परिवित्तिः परिवेत्ता ब्रह्मोज्झो यश्च कुत्सकः
दिधिषूपतिस्तथा यः स्यादग्रेदिधिषुरेव च

१२.३५.७अवकीर्णी भवेद्यश्च द्विजातिवधकस्तथा
अतीर्थे ब्रह्मणस्त्यागी तीर्थे चाप्रतिपादकः

१२.३५.८ग्रामयाजी च कौन्तेय राज्ञश्च परिविक्रयी
शूद्रस्त्रीवधको यश्च पूर्वः पूर्वस्तु गर्हितः

१२.३५.९वृथापशुसमालम्भी वनदाहस्य कारकः
अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस्तथा

१२.३५.१०यश्चाग्नीनपविध्येत तथैव ब्रह्मविक्रयी
एतान्येनांसि सर्वाणि व्युत्क्रान्तसमयश्च यः

१२.३५.११अकार्याण्यपि वक्ष्यामि यानि तानि निबोध मे
लोकवेदविरुद्धानि तान्येकाग्रमनाः शृणु

१२.३५.१२स्वधर्मस्य परित्यागः परधर्मस्य च क्रिया
अयाज्ययाजनं चैव तथाभक्ष्यस्य भक्षणम्

१२.३५.१३शरणागतसंत्यागो भृत्यस्याभरणं तथा
रसानां विक्रयश्चापि तिर्यग्योनिवधस्तथा

१२.३५.१४आधानादीनि कर्माणि शक्तिमान्न करोति यः
अप्रयच्छंश्च सर्वाणि नित्यं देयानि भारत

१२.३५.१५दक्षिणानामदानं च ब्राह्मणस्वाभिमर्शनम्
सर्वाण्येतान्यकार्याणि प्राहुर्धर्मविदो जनाः

१२.३५.१६पित्रा विभजते पुत्रो यश्च स्याद्गुरुतल्पगः
अप्रजायन्नधर्मेण भवत्याधर्मिको जनः

१२.३५.१७उक्तान्येतानि कर्माणि विस्तरेणेतरेण च
यानि कुर्वन्नकुर्वंश्च प्रायश्चित्तीयते जनः

१२.३५.१८एतान्येव तु कर्माणि क्रियमाणानि मानवान्
येषु येषु निमित्तेषु न लिम्पन्त्यथ तच्छृणु

१२.३५.१९प्रगृह्य शस्त्रमायान्तमपि वेदान्तगं रणे
जिघांसन्तं निहत्याजौ न तेन ब्रह्महा भवेत्

१२.३५.२०अपि चाप्यत्र कौन्तेय मन्त्रो वेदेषु पठ्यते
वेदप्रमाणविहितं तं धर्मं प्रब्रवीमि ते

१२.३५.२१अपेतं ब्राह्मणं वृत्ताद्यो हन्यादाततायिनम्
न तेन ब्रह्महा स स्यान्मन्युस्तं मन्युमृच्छति

१२.३५.२२प्राणात्यये तथाज्ञानादाचरन्मदिरामपि
अचोदितो धर्मपरः पुनः संस्कारमर्हति

१२.३५.२३एतत्ते सर्वमाख्यातं कौन्तेयाभक्ष्यभक्षणम्
प्रायश्चित्तविधानेन सर्वमेतेन शुध्यति

१२.३५.२४गुरुतल्पं हि गुर्वर्थे न दूषयति मानवम्
उद्दालकः श्वेतकेतुं जनयामास शिष्यतः

१२.३५.२५स्तेयं कुर्वंस्तु गुर्वर्थमापत्सु न निबध्यते
बहुशः कामकारेण न चेद्यः संप्रवर्तते

१२.३५.२६अन्यत्र ब्राह्मणस्वेभ्य आददानो न दुष्यति
स्वयमप्राशिता यश्च न स पापेन लिप्यते

१२.३५.२७प्राणत्राणेऽनृतं वाच्यमात्मनो वा परस्य वा
गुर्वर्थे स्त्रीषु चैव स्याद्विवाहकरणेषु च

१२.३५.२८नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथंचन
आज्यहोमः समिद्धेऽग्नौ प्रायश्चित्तं विधीयते

१२.३५.२९पारिवित्त्यं च पतिते नास्ति प्रव्रजिते तथा
भिक्षिते पारदार्यं च न तद्धर्मस्य दूषकम्

१२.३५.३०वृथापशुसमालम्भं नैव कुर्यान्न कारयेत्
अनुग्रहः पशूणां हि संस्कारो विधिचोदितः

१२.३५.३१अनर्हे ब्राह्मणे दत्तमज्ञानात्तन्न दूषकम्
सकारणं तथा तीर्थेऽतीर्थे वा प्रतिपादनम्

१२.३५.३२स्त्रियस्तथापचारिण्यो निष्कृतिः स्याददूषिका
अपि सा पूयते तेन न तु भर्ता प्रदुष्यते

१२.३५.३३तत्त्वं ज्ञात्वा तु सोमस्य विक्रयः स्याददूषकः
असमर्थस्य भृत्यस्य विसर्गः स्याददोषवान्
वनदाहो गवामर्थे क्रियमाणो न दूषकः

१२.३५.३४उक्तान्येतानि कर्माणि यानि कुर्वन्न दुष्यति
प्रायश्चित्तानि वक्ष्यामि विस्तरेणैव भारत